॥ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ 50 ॥ अङ्गचिन्ता कअता, अङ्गिनिष्ठासिद्धसमयो निरूप्यत इति सङ्गतिः, किमैहिकफलोपासनं स्वासाधनपुण्यकर्मानन्तरमेवोत्पद्यते? उतानन्तरं? कालान्तरे वेत्यनियमः, किं तदुत्पत्तेः प्रतिबन्धः सम्भवति? नेति, न वेदानन्तरर्यनियमः सम्भवे त्वनियमः, उद्गीथाद्युपासनरहितयज्ञादिसुकृतर्विद्यानिष्पत्तावयं विचारः, विद्यायाः पुण्यहेतुकत्वे सिद्धे हि अयं विचार इत्यत्राह - यथोक्तमिति ॥ 50 ॥
॥ ऐहिकाधिकरणं समाप्तम् ॥