॥ अनाविष्कुर्वन्नन्वयात् ॥ 49 ॥ सङ्गतिः स्फुटा, बाल्योपादाने किं कामचारादिकमपि उपादेयम्? उत माहात्म्यानाविष्करणमेव, किं बाल्यशब्दः सर्वबालककर्मपरः? उत माहात्म्यानाविष्काररूपबालस्वभावविशेषपरः, “नाविरतः” इत्यादिश्रुतिः किं बाल्यशब्दस्य अनाविष्कारपरतामवगमयति, नेति न चेत्सर्वबालकर्मपरतया बाल्यशब्दस्य कामचारादेरुपादेयत्वम्, अवगमयति चेत्- अनाविष्कारपरतया बाल्यशब्दस्य दम्भादिराहित्यमेव उपादयं स्यात् । ननु कथं रागप्राप्तस्य कामचारादेर्विधेयत्वशङ्का, नैवं रागप्राप्तर्तुगमनादेर्नियमार्थं विदानदर्शनात्, ॠतुगमनं नान्यत्र निषिद्धम्, रागप्राप्तं कथं विधेयमिति चेन्न, पशवालम्भनविधानवद् बाल्यविधानस्यापि सम्भावितत्वात् । नियमशास्त्राणि चेति - ब्रह्मविद्यतिरिक्तविषयाणीति भावः । राद्धान्तमाह - एवं प्राप्ते इति । बलस्येति - स्वभावोऽभिजनशुध्द्यादिः, नियमशास्त्राणां ब्रह्मविद्यातिरिक्तविषयत्वं परिहृतम्, एतदाश्रमनिष्ठस्य विशेषतो नियमदर्शनादित्यर्थः ॥ 49 ॥
॥ अनाविष्काराधिकरणं समाप्तम् ॥