॥ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ 46 ॥ पूर्वं यज्ञादि शमादिश्च विद्यासहकारी निरूपितः; इदानीं सहकार्यनतरं निरूप्यत इति सङ्गतिः, अधिकरणान्तराणि तु सङ्गतिविशेषप्राप्तानि, मननस्य प्रवृत्तिरूप।त्वेऽपि ध्यानालम्बनशुभाश्रयगोचरत्वेनातद्गोचरेभ्यो यज्ञादिभ्यः शमादिभ्यश्च विलक्षणत्वादतद्गोचरत्वसाधर्म्येण ेयज्ञादीन् शमादीश्च निरूप्य पश्चान्मननं निरूप्यते, शुभाश्रयगोचरत्ववैलक्षण्याद् यज्ञादेः शमादेश्च मध्ये निरूपणाभावः, विदासहकारित्वसाम्यात् तदुभयतदनुबन्धिचिन्तानन्तरं निरूपणं प्राप्तमित्युक्तं भवति, किमस्मिन् वाक्ये मौनं विधीयते? उतानूद्यत इति, किं पाण्डित्यमेव मौनम्? उतार्थान्तरं मननरूपमिति, किं मननं विधातुं योग्यम्? उत नेति, किं मननस्य यज्ञादिशुतिविरोधोऽस्ति? उत नेति, किं मननं कर्मानुष्ठानप्रतिक्षेपकम्? उत नेति, स्वप्रकरणे प्रकरणान्तरे च कतिपयाश्रमधर्मानुक्तिर्मननस्य कर्मानुष्ठानप्रतिक्षेपकत्वमुपोद्वलयति? उत नेति,
किं कतिपयोक्तिरनुक्तानादरमूलैव स्यात्? उतानुक्तप्रदर्शनार्था च स्यादिति । यदा कतिपयोक्तिरनुक्तानादरमूलैव स्यात् तदानीं तत्तत्प्रकरणभेदेन सर्वाश्रमधर्माणामनुक्तत्वाविशेषादनादरगर्मा तदनुक्तिर्मननस्याश्रमधर्मप्रतिक्षेपकत्वमुपोद्वलयतीति तत्प्रतिक्षेपकत्वे मननस्य यज्ञादिश्रुतिविरुद्धतया विधातुमयोग्यत्वान्मौनशब्दो मननपरत्वायोगेन प्राप्तपाण्डित्यानुवादीति मौनमनूद्यत इति फलं स्यात् । यदा कतिपयोक्तिरनुक्तप्रदर्शनार्थाऽपि भवेत्, तदानीं तत्तत्प्रकरणभेदानाश्रमधर्माणामनुक्तत्वाविशेषेऽप्यनुक्तेरनादरगभर्त्वाभावात् तदुक्तिर्मननस्याश्रमधर्मप्रतिक्षेपकत्वं नोपोद्वलयतीति मननस्य तदप्रतिक्षेपकतया यज्ञादिश्रतिविरोधाभावेन विधातुं योग्यत्वान्मौनशब्दो न वाक्यान्तरप्राप्तपाण्डित्यानुवादीति मौनस्य विधेयत्वं फलं स्यात् । तद्वतः- विद्यावतः, तृतीयं- मौनं सहकार्यन्तररूपो विधिः सहकारित्वेन विधेयम्, यज्ञादानशमदमादिवत्, पक्षेणप्रकृष्टमनशीले व्यासादौ प्रयोगदर्शनादिति सूत्रार्थः । मौनपाण्डित्यशब्दयोर्ज्ञानार्थत्वादिति - मौनशब्दस्य मननार्थत्वान्मननस्य शवणप्रतिषांर्थमानविशेषरूपत्वात् पण्डितशब्दस्य विद्वद्विषयताप्रसिद्धेश्च मौनपाण्डित्यशब्दयोर्ज्ञानार्थत्वम् । तद्वत इति व्याख्येयं पदम्, विधिशब्दं व्याचष्टे । विधीयत इति - पदार्था उक्ताः । अथ सूत्रस्य वाक्यार्थमाह - एतदिति ।
॥ कृत्स्नभावात्तु गृहिणोपसंहारः ॥ 47 ॥
॥ मौनवदितरेषामप्युपदेशात् ॥ 48 ॥ एवंविधमौनोपदेशवत् - सर्वेषणाविनिर्मुक्तस्य भिक्षाचरणपूर्वकमौनोपदेशवदित्यर्थः । परे तु विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिः, “गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थ” मिति प्रयोगात् मुनिशब्दस्य चतुर्थाश्रमपरत्वव्यवच्छेदायाह- तृतीयमिति, तृतीयमिदं मौनं ज्ञानातिशयरूपमित्यर्थः, विद्यावत्त्वे प्राप्नोत्येवातिशयः किं विधिनेत्यत्राह - पक्षेणेति । यस्मिन् पक्षे भेददर्शनप्राबल्यात् विद्योपेक्रमदशायामेकत्वज्ञानस्य नातिशयः,तस्मिन्नेष विधिः दर्शपूणर्मासविध्यादावङ्गविधिवत्, मोक्षाश्रमे बाल्यादिप्रधानेऽपि छान्दोग्ये गृहिणोपसंहारः कथमित्यत्राह “कृत्स्नमावात्तु गृहिणोपसंहारः” इति, गृहिषु यज्ञादिकर्माणि अर्हिसेन्द्रियसंयमनादि च यथासम्भवं विद्यन्ते, अतस्तेनोपसंहारः, न तु गार्हस्थ्यमात्रपर्यवसानादिति मौनगार्हस्थ्याश्रमद्वयोपन्यासादितराश्रमाभावशङ्को व्युदस्यति- मौनवदितरेषामप्युपदेशादिति, यथा मौनगार्हस्थ्याश्रमौ प्रामाणिकौ, तथा वानप्रस्थगुरुकुलवासावपि, उपदेशाविशेषात्, बहुवचनं तत्तदवान्तरवृत्तिभेदापेक्षयेति वर्णयन्ति, तत्र तावत् षष्ठीसमासादपि सहकेयर्न्तरं विधेयमिति युक्तं “विध्यादिव"दिति विधिशब्दस्य विधेयवाचित्वात्तदैकरूप्यस्य उचितत्वाच्च तस्याऽपि विधानवाचित्वे षष्ठयन्ताध्याहारप्रसङ्गः, तृतीयविधिशब्दयोः सामानाधिकरण्ये सत्येकवाक्यत्वं स्यात्, त्वत्पक्षे तु तस्मात्तृतीयं मौनं विधीयते इति वाक्यभदकल्पनं स्यात्, तच्च निष्प्रयोजनम् । किञ्च विध्यादिवदिति विधिशब्दस्य विद्याङ्गभूतयज्ञादिशमादिपरत्वं युक्तम्; अङ्गमात्रे दृष्टान्तसमर्पणादपि विद्याङ्गत्वे दृष्टान्तसमर्पणौचित्यात्, पक्षेणेत्यत्र भेददर्शनप्राबल्यात् अतिशयो विधेय इत्यध्याहारादपि व्यासादौ प्रयोगादित्यध्याहारौचित्यात् ज्ञानार्थस्य मुनिशब्दस्य तद्विशेषविषयत्वे हेतोर्वक्तव्यत्वात् विद्यावतोऽतिशयप्राप्तेरविधेयत्वशङ्का चापाकरणीयेति चेत् न- अतिशयमात्रवाचित्वाभावान्मुनिशब्दस्य, शुभाश्रयं मननं हि
विधेयं तत्कारिषु प्रयोगात्, मौनशब्दस्य ध्यानसमाधिपर्यायत्वाभावात् तत्तद्विषयविशेषसंशीलनं हि मननम्, न तु निरद्तरस्मअतिः, न च समाधिः, तच्च विद्यावत् सिद्धमिति चेत्- न, तद्वत इति पदस्य प्रारब्धविद्यविषयत्वात्, तच्च अनुक्तसहकारिसापेक्षत्वादवगम्यते, ब्राह्मणशब्दश्च न जातिवाची, “अथ ब्राह्मणः” इत्युक्तेः, जातिर्हि प्रागेव सद्धा । “कृत्स्नभावा"दित्यनन्तरसूत्रस्य इतराश्रमसद्भावपरत्वमयुक्तं “विधिर्वा धारणवत्” इत्यत्र आश्रमविधीनामुपपादितत्वात्, यदाऽऽश्रमान्तरस्य विद्याङ्गत्वे समीचीनमुत्तरं स्यात्, न तु गृहस्ते कृत्स्नश्रौतस्मार्त्तब्रह्मचर्यमौनादिसद्भावपरत्वेपि व्याख्याने । अत एव कथं गृहिणः कृत्स्नमित्याशङ्कयमौनवत् शमादीनामपि गृहमेधिनि उपदेशादिति कार्त्स्योपपादकत्वेन तृतीयसूत्रव्याख्यानमप्ययुक्तं पूर्वसूत्रस्य गृहस्थे कृत्स्नधर्मपत्वाभावात् । अन्ये तु “एतमेव विदित्वा मुनिर्भवति” इति वाक्यान्तरैकाथ्यर्ात् फलार्तवादः स्यात्, ब्राह्मण्यसाहचर्याच्च, “अथ मुनिः” इति विद्याफलकीर्त्तनमिति पूर्वपक्षं कृत्वा मौनं नाम पारिव्राज्यं विधीयते, यार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थमिति प्रयोगाद्भवतीत्यध्याहारादपि अपूर्वतया भवेदित्यध्याहारस्य युक्तत्वात् पूर्वत्र “व्युत्थायाथ भिक्षाचर्यं चरति” इति परिव्राज्यप्रस्तावात् स्तुतेश्च विध्यर्थत्वाच्च मुनिर्भवतीत्यत्रापि अयमेवार्थ इति, ब्राह्मण्यमपि न विद्याफलम्, किन्तु सहकार्यन्तरं विधेयम्, तच्च सर्वाश्रमधर्मपरित्यागरूपं दुर्वासःसंवर्त्तादीनां नग्नचर्यादिदर्शनात्, “नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च शीलं धृतिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः” इति भारतवचनात्, इदं च न यतीनामेव, संवर्त्तस्यवैव आर्त्विज्यकरणदर्शनादिति सिद्धान्तयन्ति, बाल्यपाण्डित्यापेक्षया तृतीयं मौनं च न नित्यवदनुष्ठेयम्, किं तु पक्षेण इच्छया विकल्पेन, विध्यादिवत् । “अथ यद्यज्ञ इत्याचक्षते” इत्यादिवाक्योक्तयज्ञेष्टसत्रायणानाशकायनारण्यायनादिवत्, तेषु मौनस्य परस्तात् गार्हस्थ्यस्य आमरणाच्छ्रवणात् छान्दोग्ये गृहिणोपसंहारः, तत्र विद्यापरिकरसद्भावात्, न तु मौनब्राह्मण्ययोरविहितत्वादिति चाहुः । मौनवदित्यधिकरणान्तरं ब्रह्मचर्यवानप्रस्र्थयार्न विद्याङ्गत्वम् अविदानादिति पूर्वपक्षं कृत्वा “तमेत"मिथ्यादिवाक्ये वेदानुवचनतपोनाशकशब्दैर्वाक्यान्तरेश्च ब्रह्मचारिणां वानप्रस्थानामप्युपदेशात् विद्याङ्गत्वमिति सिद्धान्तयन्ति । अत्र व्रुमः- फलकीतर्नमिति पूर्वपक्षोऽनुपपन्नः ज्ञानव्यतिरेकेण फलविशेषवाचित्वाप्रतीतेः, ज्ञानमेव चेत्फलं तर्हि पाण्डित्यानुवाद इति पूर्वपक्षो युक्तः, परिव्राज्यविधिरिति सिद्धान्तोऽप्यनुपपन्नः, “व्युत्थाय भिक्षाचर्यं चरति” इति पूर्वमेव विहितत्वात्, लिङ्गाद्यश्रवणमुनयत्र तुल्यम्, विधिकल्पनं च तत्रैवोचितं च तत्रैवोचितं बह्र्थसाधारणान्मुनिशब्दादपि तत्र पारिव्राज्यस्फुटप्रतीतेः, न च ब्राह्मण्यं नाम सर्वाश्रमधर्मपरित्यागः- अशाब्दत्वात्, “ततस्ततश्चोपरमः क्रियाभ्यः” इति वचनं तु लौकिकव्यापारविषयतयोपपन्नम्, सम्बर्त्तादीनां नग्नचर्यावचनं न सर्वाश्रमधर्मत्यागे प्रमाणं जनावमानकृतयोगसिद्धये स्वप्रकर्षाच्छादनार्थतयाऽप्युपपन्नत्वात्, आर्त्वज्यकरणेन गार्हस्थ्यपरत्यागावगमात् आश्रमधर्माणामात्मध्यानस्येव च्छन्नानुष्ठानसम्भवाच्च, तथा हि स्मरन्ति “यन्न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः । गूढधर्माश्रुतो विद्यानज्ञानचरितं चरेत् । अन्धवज्जडवच्चैव मूकवच्च मही चरेत्” इति, द्वितीयसूत्रे गृहिणोपसंहारस्य निर्वाह्यत्वादाद्यसूत्रे, पक्षेणेति पारिवाज्यस्य विकल्पेनोपादेयत्वं चास्नमर्थनीयं विद्याङ्गत्वेन गार्हस्थ्यप्रामाणिकत्वबुद्धौ सत्यां परिव्राज्यनियमशङ्कानुपपत्तेः, तद्वत इत्यस्य विद्यावत् इति व्याख्यानमुचितं न तु बाल्यपाण्डित्यवत इति विद्यायाः प्रकृतत्वात्, पारिव्राज्यनियमस्यासमर्थनीयत्वाच्च, यतो मौनब्राह्मणशब्दौ न पारिव्राज्यसर्वाश्रमधर्मत्यागपरौ, किं तु शुभाश्रयमनननिदिध्यासनलाभपरौ । अत एव तयोरनियत्वमपि अनुपपन्नम्, सर्वासु विद्यासु शुभाश्रयमननस्यापेक्षितत्वात्, उपासनस्य निदिध्यासनरूपत्वाच्च द्वितीयसूत्रनिवर्ाहो दत्तोत्तरः । ब्रह्मचर्यवानप्रस्थयोर्विद्याङ्गत्वनिरूपकतया अधिकरणान्तरत्वं च “मौनव” दिति सूत्रस्यायुक्तं “सर्वापेक्षे” त्यत्रैव तमेतमित्यादिवाक्येन विद्यायाः सर्वाश्रमधर्माङ्गकत्वस्य समर्थितत्वात् ॥ 48 ॥
॥ सहकार्यन्तरविध्यधिकरणं समाप्तम् ॥