51 स्वाम्यधिकरणम्

॥ स्वामिनः फलश्रुतेरित्यात्रेयः ॥ 44 ॥ इदमधिकरणं प्रासङ्गिकम्, उपासनानुष्ठात्रननुष्ठातृविभागप्रसङ्गेनोद्गीथोपासनादेरनुष्ठात्रननुष्ठातृविभागचिन्ता क्रियत इति सङ्गतिः, क्रत्वङ्गाश्रयण्युपासनानि किं यजमानकर्तृकाणि? उत ॠत्विक्कर्तृकत्वं, किं दहराद्युपासनानामिव फलिकर्तृकत्वं न्यायमुतगोदोहनादेरिव ॠत्विक्कर्तृकत्वं, किं गोदोहनादिषु ॠत्विक्कर्तृकत्वं यजमानेनाशक्योपादनतया? उत साङ्गप्रधानानुष्ठानाय ॠत्विक्परिक्रयश्रवणात्, अशक्यतया चेत्- तदभावात् फलिकर्तृकत्वोपपत्तेः यजमानकर्तृकत्वम्, परिक्रयश्रवणाच्चेत्- गोदोहनादाविव ॠत्विक्कर्तृकत्वस्य न्याय्यत्वादृत्विक्कर्तृकत्वम्, तद्गीथाद्युपासनानीत्युक्ते उपासनस्य कर्माङ्गत्वं माभूदिति कर्माङ्गश्रयाणीत्युक्तम् । न चेत्यादि - प्रणयनस्याध्वर्युकर्तृकत्वात् तदाश्रयस्य गोदोहनस्योपादानं यजमानेन फलाश्रयभूतेनापि कर्त्तुमशक्यम्, अत्र तु शक्यत्वात् फलाश्रय एव कर्तेत्यर्थः । सिद्धान्तसूत्रमाह - ॥ 44 ॥

॥ आत्विज्यमित्यौडुलोमिस्तस्म हि परिक्रियते ॥ 45 ॥ तस्मै हि प्रयोजनायेति चतुर्थीव्याख्यानम्, फलसाध

नेत्यादिना तच्छब्दव्याख्यानम्, परिक्रियत इत्येतद्विवृणोति । कर्मविधिष्विति - ततः किमित्यत्राह - तदन्तर्गतानीति । न च शकत्यशक्ती तस्य निबन्धनमिति - न हि ॠत्विजाऽन्येन क्रियमाणमन्येन कर्त्तुमशक्यम्, तस्माद्वचननिबन्धनं गोदोहने एककर्तृकत्वमित्यर्थः । अङ्गत्वे सति हि ॠत्विक्कर्तृकत्वं, नेदमङ्गमित्याह - यद्यपीति । परिहरति - तथाऽपीति । ॠत्विक्कतर्ृकर्मोपयोगित्वेन प्रोक्षणादिवदिदमपि ॠत्विक्कर्तृकम्, अग्रयप्रायन्यायादित्याह - क्रत्वधिकृतेति । यदेव विद्ययेति - ॠत्विक्कर्तृककर्मणो वीर्यवत्तरत्वसाधनभूतया विद्यायाः कर्त्रपेक्षायामन्तरङ्गबहिरङ्गन्यायेनासन्नर्त्विक्कर्तृकत्वं युक्तमिति न्याय्यमिति न्यायोपेतात् “विद्यया करोती"ति वाक्यस्वारस्याच्चोद्गीथाद्युपासनानि ॠत्विक्कर्तृकाणीत्यर्थः । “एवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वाश्चर्त्विजो ऽभिरक्षति” “तस्मादुह वैवंविदुद्गाता व्रूयात् कं ते काममगायनि” इत्यादिवाक्यैः ॠत्विक्कर्तृकवेदनफलस्य यजमानगामित्वप्रतिपादनं तु हेतुतयाऽनुसन्धेयम्, तस्य न्यायसिद्धार्थानुवादरूपत्वात्तन्मूलयुक्तिमात्रमेवोक्तं भाष्ये । दहरादिषु फलिकर्तृकत्वे को विशेष इत्यत्राह - दहरादिष्विति । ॠत्विर्क्कृकत्वाश्रवणं वैषम्यमित्यर्थः । तच्छ्रुवणमन्यत्र फलिकतर्ृकत्वस्यायवादकम् ॥ 45 ॥

॥ स्वाम्यधिकरणं समाप्तम् ॥