50 तद्भूताधिकरणम्

॥ तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥ 40 ॥ विधुरादेर्विद्याधिकार उक्तः, अनाश्रमित्वसाम्यादाश्रमभ्रष्टानामपि विद्याधिकार इति शङ्कया सङ्कतिः, वैस्वानसः- वानप्रस्थः । किं नैष्ठिकाद्याश्रमभ्रष्टानां ब्रह्मविद्याधिकारोस्ति, नेति, किमेषां साङ्गविद्योपसंहारसामथ्यर्मस्ति, नेति, किमेषां प्रायश्चित्ताच्छुचित्वं सम्भवति, नेति, किं “यो ब्रह्मचारी स्त्रियमुपेया"दिति विहितं प्रायश्चित्तं सर्वब्रह्मचारिविषयम्, उत नैतिकादिव्यतरिक्तविषयम्, “प्रायश्चितं न पश्यामि” इति प्रायश्चितायावस्मरणं किं प्रायश्चित्तस्य

व्यतिरिक्तब्रह्मचारिविषयतामवगमयति, नेति, न चेत्- प्रायश्चित्तस्य सर्वविषयतया शुद्धिसम्भवेन सामर्थ्यादधिकारः । अवगमयति चेत्- प्रायश्चित्तस्य उपगुर्वाणविषयतयां शुद्धेरसम्भवेनासमार्थ्यात् ब्रह्मविद्यानधिकारः । बह्मचारीत्यादिश्रुतिर्नैष्ठिकविषया । अनन्तरसूमिवतारयति - अथ स्यादिति । अधिकारलक्षणे षष्ठेऽध्वाये अवकीर्णिपशुः यर्दभः “ब्रह्मचार्यवकीर्णी नैर्ॠतं गर्दभमालभेत” इत्युक्तम्, ब्रह्मचर्यभ्रष्टोऽवकीर्णी, ब्रह्मचर्यंस्त्रीनियतिः, सा गृहस्थव्यतिरिक्तानां त्रयाणामपि तुल्या, तस्मात्तेषामवकीर्णिप्रायश्चित्तं कर्तव्यमिति पूर्वपक्षिणोऽभिप्रायः ।

॥ च चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ 41 ॥ तर्हि आधिकारिकप्रायश्चित्तं किंविषयमित्यत्राह - अत इति । य उपकुर्वाणो ब्रह्मचारी भ्रष्टः- तद्विषयमवकीर्णिप्रायश्चित्तमित्यर्थः ॥ 41 ॥

॥ उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ॥ 42 ॥ इदं चोद्यसूत्रं ब्रह्मचर्यप्रच्यवनस्य महापातकेष्वपरिगणितत्वादुपकुर्वाण ब्रह्मचारिणः स्त्रीनियमातिक्रमस्योपपात

कान्तर्भूतस्य प्रायश्चित्तकथनात्तस्य च नैषिंकादिष्वतिदेशात् प्राश्चित्तं प्राप्तमित्यर्थः, “उत्तरेषां चैतदविरोधि” इत्यत्रैतच्छब्दः पूर्वोक्तधर्मान् प्राश्चित्तं च परामृशति, स्वाश्रमाविरोधिशब्दः स्त्रीसंसर्गादिनिमित्तप्रायश्चित्तादेर्गृहस्थादिष्वनापातार्थः । सिद्धान्तसूत्रमाह ॥ 42 ॥

॥ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॥ 43 ॥ उभयथेति पदं व्याचष्टे - उपेति । अतिदेशवचनेन प्रायश्चित्तं प्राप्तं पतनस्मृतिश्चास्ति, तयोः कथं विरोधः परिह्रयते इत्यत्राह - यद्यपीति । कर्मशक्तिस्त्रिधाप्रत्यवायकरी, वैदिककर्माधिकारप्रतिबन्धकरी, सजातीयकर्मरुचिकरी चेति, कत्र कानिचित्प्रायश्चित्तानि शक्तित्रयविनाशकानि, कानिचिदन्यतमशक्तिविनाशकानि, अत्रातिदेशपतनस्मृतिविरोधेऽतिदशषस्मृतिः प्रत्यवायजननशक्तिविनाशकं प्रायश्चित्तमाह, पतनस्मृतिस्तु वैदिककर्मानधिकारशक्तिविनाशकप्रायश्चित्ताभावमाह, “येन शुद्धये"दित्युक्तत्वात्, तस्मादविरोधः । अतोऽतिदेशसिद्धप्रायश्चितेन नरकानुभवलाघवे सत्यपि पतनस्मृतिवचनान्न ब्रह्मविद्याधिकार इत्यर्थः । आचाराच्चेति सूत्रखण्डोपादानम्, वजर्नफलमाह - नोपदिशन्तीति । “अनाश्रमी न तिष्ठे"दित्यनाश्रमित्वं निषिद्धम्, आश्रमभ्रंशोऽपि निषिद्धः, एवं निषेधे समाने कथमेकत्र विद्याधिकारोऽऽन्यत्रानधिकारः, उच्यते- अनाश्रमिणामपि विद्याधिकारः श्लाध्यत्वं च श्रुतम्, आश्रमप्रच्युतानां तु न तथेति विशेष इति । परे तु तद्भूतस्येत्येकं सूत्रं पृगधिकरणं वदन्ति, तत्र ऊर्ध्वरेतसामाश्रमप्रत्यवरोहः प्रामाणिको न वेति संशेरते ब्रह्मविद्याधिकारसिद्धयर्थम्, पूर्वाश्रमकर्मनुष्ठानचिकीर्षया रागादिना वा सम्भवतीत्युकत्वा नियमश्रुत्या तदप्रामाणिकत्त्वं सिद्धान्यन्ति, “न चाधिकारिकमपि” इत्यधिकरणान्तरं नैष्ठिकादीनामाश्रमभ्रष्टानां प्रायश्चित्तसम्भवासम्भवविषयं वदन्त्रोसम्भव इति सिद्धान्तयन्ति, यदा आश्रमभ्रष्टानां प्रत्यवायवचनानि दृश्यन्ते, प्रायश्चित्तासम्भवोऽपि संशया

स्पदं भवति, तदा कथं भ्रंशस् सद्भावे प्रमाणविरुद्धत्वे च सन्देहः, अतः सन्देहाभावाद्विचारोऽनुपपन्नः, अतो “नातद्भावः इति सूत्रमपि मूलविचारे हेतुगर्भम्- एकाधिकरण्यमिच्छतामपरेषामपि प्रच्युतिरस्ति नेति विचार उक्तन्यायादनुपपन्नः । अन्येषामपि तद्भूतसूत्रस्य पृथगधिकरणत्वं संशयाभावादयुक्तम् । “आश्रमादाश्रमं गच्छे” दित्यविशेषवचनात् पतनवचनस्यानाश्रमित्वरूपेण प्रच्यवनविषयत्वसम्भवाच्च विचार इति चेत् न, “संन्यस्याग्नि न पुनरावर्त्तये"दित्याश्रमप्रत्यवरोहनिषेधश्रुतेः स्फुटार्थतया सम्भावितार्थान्तरस्मृतिवचनेन सन्देहानुदयात्, अविदितनिषेधवाक्यस्य सन्देहोदय इति चेत्- अविदितस्मृतिवचनस्य सन्दहोभावादनारम्भः स्यात्, विदितस्मृतिवचनस्याविदितनिषेधवाक्यस्य सन्देह इिीत चेत्- तर्हि तत्तदेकदेशाज्ञाननिमित्तसन्दहानन्त्यादनन्ताधिकरणकल्पनप्रसङ्गः, “न चाधिकारिक"मिति ऊर्ध्वरेतसामाश्रमभष्टानां प्रायश्चित्ताभावस्मरणाद्विद्यानधिकार इति पूर्वपक्षसूत्रं कृत्वा वाद्धुषिकत्वं व्रताच्छ्युति"रिति व्रतच्युतेरुपपातक्रत्वात्, मध्वशनोपपातकप्रायश्चित्तस्यात्रापि प्राप्तिस्मरणात्, श्रौतस्याप्यवकीर्णिप्रायश्चित्तस्य ब्रह्मचारित्वसामान्येन नैष्ठिकेऽपि प्राप्तत्वात्, “वानप्रस्थोदीक्षाभेदे कृच्छ्रं द्वादशरात्रं वर्द्धये” दित्यादिवचनात् प्रायश्चित्ताभावस्मृतेः प्रायश्त्तिगौरवाभिप्रायत्वसम्भवाच्च प्रायश्चित्ताभावस्मरणस्य मूलादर्शनात्तत्सद्भावस्मरणस्य ब्रह्मचारित्वादिरूपसामान्यन्यायमूलत्वेन शास्त्रसंस्पर्शसम्भवात् “शास्त्रस्धा वा तन्निमित्तत्वा” दिति न्यायेन शास्त्रसंस्पर्शवतः प्राबल्यात् प्रायश्चित्तेन ब्रह्मविद्याधिकार इति “उपपूर्व"मिति सूत्रेण सिद्धान्तयन्ति । अन्ये “उपपूर्वमपि इत्येके” “बहिस्तूभयथाऽपि” इति सूत्रस्वारस्यविरोधात्तदयुक्तम्, एक इति पदेन पूर्वपक्षत्वं, तुशब्देन तद्वयावृत्तिः, उभयथाशब्देन पतनीयत्वे अपतनीयत्वे च “बहष्किायर्त्वं हि प्रतीयते, प्रायश्चित्ताभावस्मरणस्य न शास्त्रसंस्पशर् इत्यप्ययुक्तं, बाधकाभावे श्रुतिमूलत्वसिद्धेः, शास्त्रसंस्पृष्टं प्रायश्चित्तस्मरणं बाधकमिति चेत्- न, “येन ेशुद्धये"दिति प्रायश्चित्ताभाववचनस्य शुद्धिहेत्वभावविषयत्वात्, प्रायश्चित्तसद्भावचनस्य तु कल्मषनिर्हरणविषयत्वेनाप्युपपत्तेः, अधिकारापादकप्रायश्चिसद्भावानवगमकतया च विरोधाभावात् बाधकत्वानुपपत्तेः अनन्यथासिद्धं हि बाधकं “बहिस्तूभयथाऽपी"ति सूत्रमकृतप्रायश्चित्तानामाश्रमभ्रष्टानामनधिकारसमर्थनपरमधिकरणान्तरं वर्णयन्ति, तदप्ययुक्तं- संशयाभावात्, प्रायश्चित्तत्रोपि शुद्धौ संदिग्धायामकृतप्रायश्चित्ततया निर्णीताशुद्धीनां कथं ब्रह्मविद्याधिकारसम्भावना । ननु “इन्धनार्थमशुष्काणां द्रुमाणामवशातन” मित्यादेरुपपातकत्वात्तादृशं कुर्वतामितरैः संव्यवहारादिशास्त्रीयानष्ठानादिदशर्नादाश्रमभ्रंशस्याप्युपपातकत्वाविशेषात् संशय इति चेत्, तर्ह्यनधिकार इति सिद्धन्तोऽनुपपन्नः- अशुष्कद्रुमशातनादिकारिषु कर्मानाधिकारसंव्यवहाररूपहेत्वभावस्य भवद्भिरेवोक्तत्वात्, उपपातकेष्वपि गुरुतरपापकारिषु हेतुसद्भाव इति चेत्तर्हि तेषउ पूर्वोक्तन्यायेन संशयाभावादेवानारम्भणीयता ॥ 43 ॥

॥ तद्भूताधिकरणं समाप्तम् ॥