॥ अन्तरा चापि तु तद्दृष्टेः ॥ 36 ॥ अवान्तरसङ्गतिमाह - चतुर्णामिति । किं विधुरादीनां ब्रह्मविद्याधिकारोऽस्ति, नेति, किं तेषां साङ्गब्रह्मविद्योपसंहारसामर्थ्यमस्ति, नेति, किमाश्रमाणां साधारणधमाङ्गिका विद्या भवेति, नेति, तपसा ब्रह्मचर्येणेत्यादिविनियोगोपवृहितं रैक्कादीनां विद्यानिष्ठत्वदर्शनं विद्यायाः साधारणकर्माङ्गकत्वमवगमयति, नेति, न चेत्साधारणधर्माङ्गकत्वासम्भवात्साङ्गविद्यापसंहारासामर्थ्येन विधुरादीनामनधिकारः, अवगमयति, चेत्साधारणधर्माभ्गकत्वेन विद्यायास्तदुपसंहारसामर्थ्याद्विधुरादीनां ब्रह्मविद्याधिकारः, विधुरः- मृतदारः, आदिशब्दोपात्त्रोकृतदारः । न चेति - आश्रमधार्मनुपपत्तौ वर्णधर्मैरनुग्रह उपपद्य इत्यर्थः, अनैकान्तिकानाम्- अनियतानाम् ॥ 36 ॥
॥ अपि स्मर्य्यते ॥ 37 ॥ ब्राह्मणः- ब्रह्मविद्यानिष्ठः, अत्र जपादिना विद्यानुग्रहः कथं ज्ञायत इत्यत्राह - जपाद्यनुग्रहतियेति ॥ 37 ॥
॥ विशेषानुग्रहश्च ॥ 38 ॥ विोषशब्दं समासं च व्याचष्टे - धर्मविशेषैर्विद्यानुग्रह इति । ॥ 38 ॥ आश्रमानियतधमैरेवानुग्रह उपपद्यते चेदाश्रमप्राप्तिक्षमैरप्याश्रमा ुपेक्ष्येरन्, ततश्च यज्ञादिश्रुतिवैयर्थ्यं स्यादित्यत्राह ।
॥ अतस्त्वितरञ् ज्यायो लिङ्गाच्च ॥ 39 ॥ भूयोधर्मकाल्पधर्मेकयोरतुल्यकार्यत्वादिति - शक्तं प्रत्यतुल्यकार्यत्वादित्यर्थः । श्रुतेरनुमापकत्वात् स्मृतिर्लिङ्गशब्देनोच्चयते, आपच्छब्दार्थमाह - निवृत्तब्रह्मचर्यस्येति । परिव्राज्यव्यावृत्त्यर्थमाह - अवैराग्ये सतीति ब्रह्मनिेष्ठष्वनुयायिवैराग्यं यद्वा गार्हस्थ्यधर्मश्रद्धा अवैराग्यम् । परे चापरे च “अपि स्मर्यते” इतिसूत्रं संवर्त्तादीनामाश्रमवहिष्ठनग्नचर्यास्मरणपरं व्याचक्षते, “विशेषानुग्रहश्च” इत्येतत् “जप्येनैव तु संसिध्ये"दित्यनेन साधारणधर्मविशेषैर्विद्यानुग्रसम्भवपरम् “अनेकजन्मसंसिद्धः” इति पूर्वकृतसुकृतैविर्द्यानुग्रहपरं च व्याचक्षते, तदयुक्तं- विद्यायाः साधारणधर्मानुग्राह्यत्वे नग्नचरणस्य विरुद्धत्वात्, न हि नग्नचर्या नाम सवर्ाश्रमसाधारणो धर्मः, न तु क्कचिच्चोदितः, अतः सूत्रद्वयस्य साधारणधर्मानुग्रहपरश्रुतिस्मृतिविषयत्वं युक्तम्, उन्मत्तचर्यास्मरणेनाश्रमानपेक्षत्वं सिध्यतीति चेत्- न, उन्मचर्यायाः “जनेनावमतो योगी योगसिद्धिं च विन्दति” इति जनावमानजनितयोगसिद्धये स्वप्रकर्षाच्छादनार्थत्वाद्, दृष्टे सम्भवत्यदृष्टकल्पनस्यान्याय्यत्वाद्विध्यन्तरादर्शनाच्छादनार्थतयाऽप्युपपन्नेनोन्मत्ताचरणेन विद्याया
आश्रमनैरपेक्ष्यकल्पनायोगात्, तत्कल्पनस्य “अतस्त्वितरज्ज्यायः” इत्यनन्तरसूत्रविरोधादनाश्रमित्वनिषेधकवचनान्तरविरोधाच्च, “लिङ्गाच्च” इत्येतस्य “अग्ने गृहपते सुगृहपतिः तेने"ति ब्रह्मवित्पुण्यकृत्तैजसश्चेति गार्हस्थ्यस्य प्राशस्त्यगमकश्रौतलिङ्गादनाश्रमनिन्दापरस्मृतिलिङ्गाच्चेत्यर्थमाहुः, तत्र ज्यायस्त्वप्रतीतेरस्फुटत्वाच्छ्रौतलिङ्गानादरः ॥ 39 ॥
॥ विधुराधिकरणं समाप्तम् ॥