॥ विहितत्वाच्चाश्रमकर्मापि ॥ 32 ॥ अवान्तरसङ्गतिमाह - यज्ञादीति । परमप्रकृतेन सङ्गतिरित्यर्थः । किं विद्याङ्गभूतान्याश्रमकर्माणिकेवलाश्रमिणोऽप्यनष्ठेयानि, नेति, किमेषां विद्याङ्गत्वे केवलाश्रसाङ्कत्वं सम्भवति, नेति, किं केवलाश्रमाङ्गत्वे नित्यानित्यसंयोगविरोध। प्रसज्यते नेति, आश्रमाङ्गत्वे विद्याङ्गत्वे च कर्मान्तरत्वमस्ति, नेति च, कर्मान्तरत्वे सत्यनेकस्य कर्मणो विनियोगपृथकत्वभावेन नित्यानित्यसंयोगविरोधप्रसङ्गेन केवलाश्रमाङ्गत्वासम्भवादमुसुक्षोरननुष्ठेयानि, कर्मान्तरत्वं नास्ति चेद्विनियोगपृथकत्वेन नित्यानित्यसंयोगविरोधाभावात् केलाश्रमाङ्गत्वसम्भवात् केलाश्रमिणोऽप्यनुष्ठेयानि । नित्यानित्यसंयोगविरोध इति - यावज्जीवमनुष्ठानं मोक्षेच्छानुगुणमनुष्ठानं च विरुद्धमित्यर्थः । केवलाश्रमधर्म्मत्वं- सुमुक्षारहिताश्रधर्मत्वम् । आश्रमीति पाठो दृष्टश्चेत् केवलशब्दोऽमुसुक्षुपरः । अनुष्ठेयानीत्यर्थ इति - यज्ञादीनि कर्माणि इत्यध्याहारः । अनेन सङ्गतमुवरसूत्रार्थमाह - तथाचेति ॥ 32 ॥
॥ सहकारित्वेन च ॥ 33 ॥ समुच्छयव्यावृत्त्यर्थं विद्योत्पत्तिद्वारेणेत्युक्तम्, नित्यानित्यसंयोगविरोधमाशङ्कयाह - अग्निहोत्रादीनामिवेति । विनियोगपृथकत्वेन विनियोगः- शेषत्वज्ञापविधिः, विनियोगपृथकत्वदर्शनेन नित्यानित्यसंयोगविरोधपरिहारः सूत्रद्वयफलम्, न त्वेकस्य - विनियोगद्वैकेनादर्शितत्वात् । उत्तरसूत्रकृत्यमाह - तद्वदिति ॥ 33 ॥
॥ सर्वथाऽपि त एवोभयलिङ्गात् ॥ 34 ॥ अग्निहोत्रशब्दस्य तुल्यत्वेऽपि कुण्डपायिनामयनाग्निहोत्रे “मासमग्निहोत्रं जुहोति” इति विहिते स्वरूपभेदो दृश्यत इत्यत्राह - कर्मस्वरूपभेदे प्रमाणाभावाच्चेति । कर्मान्तरत्वव्युदासस्य तन्त्रेणानुष्ठानं फलम् ॥ 34 ॥
॥ अनभिभवं च दर्शयति ॥ 35 ॥ आदिशब्दो यज्ञादिवाक्यपरः, अङ्गत्वं वदता “यज्ञेन दानेन” इत्यादिना यज्ञादिधर्मा निर्दिष्टाः, अङ्गत्वेन किञ्चित्कारं वदद्वाक्यमपि यमादिपर्यायशब्देन निर्दिशतीत्यर्थः, दर्शयति श्रुतिरिति शेषः । किञ्चित्कारं विवृणोति - अहरहरिति । सर्वापेक्षेति विद्याङ्गत्वमुक्तम्, “सहकारित्वेन च” इति फलविरोधिनिरसनेन समसमुच्चय उक्त इत्यन्ये । विद्याया एव प्रतिबन्धकनिवर्त्तनशास्त्रवंशात् ब्रह्मप्राप्तेनिर्त्यतया साध्यत्वानुपपत्तेः, सहभावश्रवणस्याऽङ्गभावविषयतया अन्यथा सिद्धत्वात्तथा विभागकल्पनमयुक्तम्, सूत्रभेदस्तु शङ्काभेदनिबन्धनः, “उभयलिङ्ग"दिति “तमेतं वेदानुवचनेन” “अनाश्रितः कर्मफल"मित्यादि श्रुतिलिङ्गात् स्मृतिलिङ्गाच्च सिद्धवज्ज्ञानरूपादित्याहुः, ततोऽपि श्रुतावेव वाक्यद्वये प्रत्यभिज्ञापनपरत्वं युक्तम् अनन्यत्वस्य साध्यत्वात् ॥ 35 ॥
॥ विहितत्वाधिकरणं समाप्तम् ॥3.4.33