॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ 28 ॥ ब्रह्मविदां शमादयोऽनुष्ठया इत्युक्तम्, तत्र भोजननियमरूपः शमविशेषोऽस्ति नेति विचार्यत इति सङ्गतिः, प्राणविदः सर्वान्नानुमतिः किं सर्वदा? उत प्राणसंशयापत्तौ, किं ब्रह्मविद उषस्तस्य प्राणसंशये सत्युच्छिष्टानुमतिदर्शनं प्राणविदः सर्वान्नानुमतेरापद्विषयत्वमवगमयति, नेति, न
चेत्सर्वदानुमतिः स्यात्, ब्रह्मविदोऽपि प्राणसंशयेऽनुमतिमवगमयति चेत्, कैमुत्यनीत्या प्राणविदः सर्वान्नानुमतिः प्राणसंशयापत्तावेव स्यात्, प्राणविद्यानिषंस्यापि सर्वान्नानुमतेर्दशनात् ब्रह्मविदः किं पुनर्न्यायसिद्धा सवर्ान्नानुमतिरिति पूर्वपक्षः, सूत्रं प्राणविद्यामात्रविषयम्, तथ्रापि ब्रह्मविदन्नानुमतिः पूर्वपक्षभिप्रेता । मटची- अश्मवृष्टिः, इभमर्हतीति इभ्यो हस्तिषः, कुल्मायः- माषविशेषः, ब्रह्मविदामपि सर्वान्नानुमतिः प्राणात्यये किं पुनर्दुर्बलप्राणविद्यानिष्ठस्येति कैमुत्यन्यायात् सिद्धान्तः ॥ 28 ॥
॥ अबाधाच्च ॥ 29 ॥ पूर्वसूत्रे ब्रह्मविदनुष्ठानदर्शनात्कैमुतिमन्याय उपपादितः, अत्र ब्रह्मविद्विषयवचनेन स एव कैमुतिकन्याय उपपादितः ॥ 29 ॥
॥ अपि स्मर्यते ॥ 30 ॥ न केवलं सर्वान्नानुमतेब्रह्मेविद आपद्विषयत्वात् प्राणविद आपद्विषयत्वं कल्प्यम्, सर्वेषामपि स्मृतौ कण्ठोक्तमवेति भावः ॥ 30 ॥
॥ शब्दाश्चातोऽकामकारे ॥ 31 ॥ ब्राह्मणशब्दस्यासङ्कुचितवृत्तित्वात् ब्रह्मविदामपि इदं वाक्यं साधारणं, किं पुनः प्राणविद इति भावः । परे चापरे च सर्वान्नानुज्ञानं किं शमादिवद्विद्याङ्गं विधीयते? उत स्तुत्यर्थं सङ्कीर्त्यत इति विवार्य उपदेशस्य प्रवृविकरत्वोपपत्तेः प्राणविद्यासन्निधानादङ्गविधिः, भक्ष्याभक्ष्यशास्त्रं “न
हिंस्या"दितिवद्विशेषशास्त्रबाध्यमिति पूर्वपक्षं कृत्वा विधायकाभावान्न सर्वान्ननुज्ञाविधिः, किन्तु सर्वं प्राणस्यान्नमिति विज्ञानप्रशंसार्थोऽर्थवादः, प्राणात्यये हि सर्वान्नानुज्ञा दृश्यते न सर्वदेति व्याचक्षते, तदयुक्तम् - सूत्रेऽर्थवादशब्दाध्याहारेण प्रतिज्ञाया वर्णनीयत्वात्, भाष्नयोक्तयोजनायां हि प्राणात्ययशब्देनैव प्रतिज्ञा पूर्णा । अन्ये तु किं सर्वान्नानुमतिः क्रियते? उतार्थवाद इत्युपोद्धातविचारं कृत्वा ज्यैष्ठ्यश्रैष्ट्यगुणकप्राणविद्याङ्गभूतस्य सर्वं प्राणस्यान्नमिति ज्ञानस्य फलत्वात्तदुक्तिरर्थवादमात्रमिति पूर्वपक्षं कृत्वा सर्वमिदं प्राणस्यान्नमिति वाक्यसामर्थ्याद्विधेः कल्प्यत्वात् अप्रतीतविज्ञानतद्विधिकल्पनायोगात् येन केनचिदन्नेन प्राणो रक्षितव्य इति विधिरिति निश्चित्य पश्चात्साक्षाद्विचारमाहुः, किमियं सर्वान्नानुमतिः सवर्दा? उत प्राणत्यये? इति, अविशेषशात् सर्वदेति पूर्वपक्षः, अप्रतिषिद्दान्नेनान्यदा रक्षणसिद्धेः प्राणात्यय इति सिद्धान्तः कृतः, तत्रोपोद्धातचिन्तायाम् अप्रतीतविज्ञानतद्विधिकल्पनगौरवं तदुक्तमयुक्तं “स होवाच किं मेऽन्नं भविष्यति” इत्युक्ते “यत्किञ्चिदिदमाश्वभ्य आशकुनिभ्यस्तत्तेऽन्न"मित्युकत्वा " न ह वा एवंविदि किञ्चनानन्न"मित्येवेविच्छब्देन वेदनस्याभिहितत्वात्, अत एवाश्रुतस्य प्राणरक्षणस्य तद्विधेश्च कल्पनमप्ययुक्तम् ॥ 31 ॥
॥ सर्वान्नानुमत्यधिकरणं समाप्तम् ॥