॥ शमदमाद्यपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ 27 ॥ सङ्गतिः पूर्वपक्षोत्थानमुखेन स्फुटा, किं विद्यानिष्ठस्य गृहस्थस्य शमादीन्युपादेयानि, उत नेति, किं यज्ञादीनां शमादीनां च विरोधोऽस्ति नेति, किमत्र विधीयमाना करणव्यापारोपरतिरूपा शान्तिर्यज्ञादिव्यतिरिक्तव्यापारशान्तिः, उत सर्वव्यापारशान्ति, सर्वशान्तिश्चेद्विरोधादनुपादेयानि, न चेदविरोधात् गृहस्थस्याप्युपादेयानि । यद्यपीत्यादि - विहितत्वाद् दृष्टमुखेनोपकारकत्वाच्च शमाद्यनुष्ठेयमित्यर्थः । अविहितेषु प्रयोजनशून्येषु चेति - शरीरधारणार्थमितभोजनादिव्यावृत्त्यर्थं प्रयोजनशून्येष्वित्युक्तम्, यद्वा अविहितेषु- अविहिताप्रतिषिद्धेषु, प्रयोजनशून्येषु मुमुक्षोः प्रयोजनशून्यानि काम्यकर्माणि तेष्वित्यर्थः । परे त्विदं सूत्रं पूर्वाधिकरणेऽन्तर्भाव्यं व्याचक्षते, “यज्ञेन विविदिषन्ति, इति वर्त्तमानापदेशतया न यज्ञादिविधिः, किन्तु यज्ञादिपरिकरवती महाभागा विद्येति विद्यास्तुतिरित्याशङ्क्य एवं यज्ञाद्यनपेक्षायामपि शमाद्युपेतः स्यात् शमादीनां विदानाद्विहितानामवश्यानुष्ठेयत्वात् यज्ञादीनि चानुष्ठेयानि; विविदिषासंयोगस्याप्राप्तत्वेन विहितत्वात्, तानि बाह्यतराणि, शमादीनि तु प्रत्यासन्नसाधनानि इति शङ्का तावदयुक्ता, यमाद्यपेक्षया शमादेर्विरोधाभावात्तत्तश्च तथाऽपीति वैयर्थ्यं,विविदिषासंयोगस्य्राप्राप्ततया यज्ञादेरप्यनुष्ठेयत्वभविवक्षितमशाब्दं च, पूर्वसूत्रविवक्षितस्यात्र कथनमिति चेन्न, ततोऽपि वरं पूर्वसूत्रस्य स्तुत्यर्थतापरत्वं विहाय विविदिषासंयोगसमर्थनपरतया व्याख्यानम्, विविदिषार्थत्वं चायुक्तमित्युक्तम्, तदभ्युपगम्म्रपि यज्ञादीनां शमादीनां चोपादेयतासमर्थनस्य मिथस्तादर्थ्याभावात्सूत्रद्वयस्यैकाधिकरण्यमयुक्तम् ॥ 27 ॥
॥ शमदमाद्यधिकरणं समाप्तम् ॥