॥ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ 26 ॥ सङ्गतिः स्फुटा, किं गृहस्थस्य यज्ञादिकर्मवतो विद्यायामधिकारः? उत तद्गहितस्येति, यज्ञादिकर्म विद्याङ्गं, नेति, यज्ञेनेत्यादिश्रुतिर्विद्याङ्गतया यज्ञादिकर्म विनियुङ्क्ते, नेति, किं कर्मणो विद्योत्पादकत्वं सम्भवति, नेति, असम्भवे विनियोगाभावात् यज्ञादेर्विद्याङ्गत्वाभावात्तद्रहितस्य, गृहस्थस्य विद्याधिकारः सम्भवेत्, सम्भवति चेत्- विनियोगाद् यज्ञादेर्विद्याङ्गतया तद्तो गृहस्थस्य विद्याधिकारः । यज्ञादिश्रुतिरपीति - इच्छासाधनत्वं वदतीति भावः । यज्ञादिसर्वकर्मापेक्षैवेति - सूत्रे प्रतिज्ञापदानन्तरश्चशब्दोऽवदारणार्थं इति भावः । ज्ञानसाधनत्वे सत्येवेति - परमसाध्येच्छया विनाऽवान्तरसाध्येषु प्रवृत्तिर्नोपपद्यते, यथा स्वर्गेच्छया विना स्वर्गार्थयज्ञादौ प्रवृत्त्यनुपपत्तिः, एवं ज्ञानेच्छया विना तदर्थेच्छासिध्द्यर्थप्रवृत्त्यनुपपत्तेः, सञ्जातज्ञानेच्छस्य चेच्छासिध्द्यर्थप्रवृत्तिनैरपेक्ष्याच्च यज्ञादेरिच्छासाधनत्वं नोपपद्यत इति भावः । ज्ञानस्य न यज्ञाद्यपेक्षा, वाक्यादेव तदुत्पत्तेरित्यत्राह - ज्ञानं चेति । आप्रयाणादनुवर्त्तमानमिति - अङ्गिनोऽनुवृत्त्या तदङ्गस्य कर्मणोऽनुवृत्तिरपेक्षितेति भावः । यज्ञादिषु प्रवृत्तिर्मनोवधानविरोधिनि स्यात् प्रवृत्तिरूपत्वादित्यत्राह -
एवंरूपं चेति । अदृष्टद्वारोपकारकत्वान्न दोष इत्यर्थः । अश्ववत् रथचर्यायोग्योऽश्वो न लाङ्गलाकर्षणे युज्यते,
तथा फलोत्पत्तौ न कर्मापेक्षत इति परे व्याचक्षते, फलोत्पत्तावनपेक्षत्वे प्रामाणिकेऽपि उत्पत्तावपेक्षैव सूत्रप्रतिपाद्या “सर्वापेक्षे"ति प्रतिमातत्वात्, अतः परोक्तव्याख्यानं क्लिष्टम् । अपरे तु विद्यायाः फलोत्पत्तावनुग्राहकत्वेन यज्ञाद्यपेक्षाऽस्ति नेति विचार्याऽस्तीति सिद्धान्तयन्ति, यज्ञादिवक्ये फलसिद्धावपेक्षाप्रतीत्यभावात् वेदनसाधनत्वमात्रं हि तत्रावगम्यते, तेन न विद्यायाः फलसिद्धावुपकारकत्वम् अशाब्दत्वात् “निचाय्य” “तस्मिन् दृष्टे” “तमेयं विद्वान्” इत्यादिभिरुत्पन्नस्य वेदनस्य मोक्षसाधनत्वेऽन्यानपेक्षत्वप्रतीतिस्वारस्याच्च तदनुपपन्नम् । अन्ये तु विद्याया यज्ञाद्यपेक्षत्वे परिव्राजां विद्यानधिकारप्रसङ्गात् गृहस्थेष्वपि यज्ञाद्यनपेक्षेति पूर्वपक्षं कृत्वा गृहिणां परिव्राजां चाचारे समानेऽपि सङ्गतिनिवृविरूपपारिव्राज्यस्य गार्हस्थ्यस्थाननिविष्टत्वात् कर्मतन्निवृत्तिरूपयोर्गार्हस्थ्यपारिव्राज्ययोर्ग्रहणाग्रहणवद्विकल्पोपपत्तेः परिव्राजकेषु विद्यायामनपेक्षितस्य यज्ञादिकर्मणो गृहिष्वपेक्षा युज्यत इति सूत्रद्वयमेकाधिकरणं वर्णयन्ति, तदयुक्तम्- अधिकरणभेदस्यैव युक्तत्वात्, तथा हि किमुभयं सिद्धान्तसूत्रं, तर्हि यतिष्वनपेक्षाया गृडिष्वपेक्षायाश्च परस्परतादर्थ्याभावात्साध्यद्वयं स्यात्, तदानीमैकाधिकरण्यमयुक्तम्, यद्युच्येत, आद्यं सूत्रं पूर्वपक्षविषयं यतिष्वनपेक्षत्वात्, गृहिष्वनपेक्षेत्येवमर्थपरमिति, तन्न यतिषु यज्ञानपेक्षविद्याधिकारस्याधिकरणान्तरसाध्यत्वात्, तस्य च तन्मूलपूर्वपक्षस्य चैकसूत्रप्रतिपाद्यत्वे वाक्यभेदप्रसङ्गाच्च, “ऊर्ध्वरेतस्सु च शब्दे हि” इत्यत्रैव तत्समर्थनमाभिप्रायिकमिति चे वाच्यं, विद्यानङ्गत्वसमर्थनोपक्षीणस्य सूत्रस्य विद्याधिकारसमर्थनेऽपि तात्पर्यकल्पने गौरवप्रसङ्गात् । अत आद्यसूत्रस्याधिकरणान्तरत्वं युक्तं, तथा सत्यनन्तराधिकरणपूर्वपक्षहेतुरर्थसिद्धः स्यात् अतोऽधिकरणभेदः स्वारसिकप्राप्तः ॥ 26 ॥
॥ सर्वापेक्षाधिकरणं समाप्तम् ॥