॥ अत एव चाग्नीन्धनाद्यनपेक्षा ॥ 25 ॥ व्याख्यातयोरधिकरणयोः प्रासङ्गिकत्वमाह - स्तुतिप्रसङ्गादिति । अस्याधिकरणस्य प्रथमाधिकरणेन सङ्गतिमाह - विद्यावन्त इति । आशङ्कयाहेति - सूत्रे चशब्दः शङ्काद्योतक इति भावः । किं परिव्राजां व्रह्मविद्याधिकार्रोस्ति? नेति, किं यज्ञाङ्गिकैव विद्या, उताश्रमप्रयुक्तधर्माङ्गिका, किमुद्र्ध्वरेतसां विद्यासम्बन्धप्रतिपादकवाक्यानि विद्याया आश्रमधर्माङ्गकत्वमवगमयन्ति, नेति, न चेद्यज्ञाद्यङ्गकत्वाद्विद्यायां परिव्राजामनधिकारः, अवगमयन्ति चेदाश्रमधर्माङ्गतया परिव्राजां ब्रह्मविद्याधिकारः । अतश्शब्दार्थमाह - यत इति । परे त्विदं सूत्रमाद्यधिकरणफलनिगमनपरमाहुः, अत एव- विद्यातः पुरुषार्थत्वाद्विद्या फलोत्पत्तौ न कर्मापेक्षेति, इदं च निगमनमुत्पत्तावेव कर्मापेक्षेत्यनन्तरसूत्रे वक्तुं युक्तमिति, तदिदं मन्धफलत्वादनादरणीयं, पूर्वपक्षे युकत्यन्तरे सम्भवति सङ्गते च सति तन्निरासपरत्वं हि सप्रयोजनम्, ऊद्र्ध्वरेतस आश्रमसद्भाव आसन्नत्वादत इति परामर्शयोग्यश्च ॥ 25 ॥
॥ अग्नीन्धनाद्यधिकरणं समाप्तम् ॥