॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ 23 ॥ इदमपि प्रासङ्गिमधिकरणम्, रसतमादिवाक्यानां स्तुत्यर्थत्वं पूर्वपक्षीकृत्योपासनपरत्वं स्थापितम्, एवं प्रातर्दनादीन्याख्यानानि किं स्तुत्यर्थानि? उत पारिप्लवार्थानीति शङ्कया सङ्गति, पारिप्लवाः- आख्यानानि, इह पारिप्लवशब्देनाख्यानशंसनं विवक्षितं “श्वेतकेतुर्हारुणेयः” इत्यादिवाक्यानि किं पारिप्लवप्रयोगार्थानि? उत विद्याविदानार्थानि, किं पारिप्लवे सर्वाख्यानानां विनियोगः? उत मन्वाद्याख्यानानामेवेति, किम् “आख्यानानि शंसन्ती"त्याख्यानशब्दः सर्वाख्यानापरः, उत मन्वाद्याख्यानपरः, किमाख्यानविशेषाम्नानमाख्यानशब्दस्य विशेषपरतामवगमयति, नेति, न चेदाख्यानशब्दस्य सर्वाख्यानपरतया सर्वेषां तत्र विनियुक्तत्वात् सर्वाख्यानानि पारिप्लवार्थानि स्युः, विशेषपरतामवगमयति चेदाख्यानशब्दस्य मन्वाद्याख्यानविशेषविषयतया तेषाभेव पारिप्लवे विनियोगात् श्वेतकेतूपाख्यानादीनि विद्याविधानार्थानि स्युः । विद्याविशेषप्रतिपादनार्थानि - स्तावकत्वेन प्रतिपादनार्थानीत्यर्थः । विद्याविध्यर्था इति - विद्याविधेः स्तावकतया शेषभूता इत्यर्थः । प्रकरणोपात्तमात्रानभ्युपगमे आख्यानातश्यात् अश्यक्यत्वं च स्यात् ॥ 23 ॥
॥ तथा चैकवाक्योपबन्धात् ॥ 24 ॥ उपबन्धः- अन्वयः- यथेति । हिरण्यदक्षिण्यत्ववाक्येनैकवाक्यतयोपबन्धात्, सोऽरोदीदित्येवमादेः कर्मविध्यर्थत्वमित्यर्थः ॥ 24 ॥
॥ पारिप्लवार्थाधिकरणं समाप्तम् ॥