42 स्तुतिमात्राधिकरणम्

॥ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् । 21 ॥ अनन्तराधिकरणद्वयं प्रासङ्गिकम्, ब्रह्मसंस्थस्तुत्यर्थमनूदितत्वं पूर्वपक्षीकृत्याश्रमद्वयस्य विधानमुक्तम्, एवं स्तुतिप्रसङ्गात् रसतमत्वप्रतिपादकवाक्यानि स्तुतिपराणि, उतनेति शङ्का जायत इति प्रासङ्गितिः, पूर्वं सप्तानां रसानां प्रतिपादितत्वादुद्गीथस्याष्टमरसत्वम्, “स एष रसाना"मित्यादिवाक्यानि किमुद्गीथादिस्तुतिमात्रपराणिए उत्तोद्गीथादिषु रसतमत्वादिदृष्टिविधिपराणि, किमेषामर्थवादत्वसमाश्रयणं न्याय्यम्, उत विधिपरत्वम्, अपूर्वत्वं किं विधित्वमवगमयति, नेति, न चेदर्थवदत्वस्य न्याय्यत्वात् स्तुतिपराणि, अवगमयति चेद् विधिपरत्वस्य न्याय्यत्वात् रसतमत्वादिदृष्यिविधिपराणि उद्गीथाद्युपासनानां पुरुषार्थत्वं प्रागुक्तं तत्कथमुपासने संशय इत्यत्राह - अत्र प्रतिपादितमिति । उद्गीथाद्युपादानादित्येतद्विवृणोति -

क्रत्वङ्गेति । ततः किमित्यत्राह - यथेति । ननु क्रत्वङ्गोपादानपूर्वकप्रतिपादनं स्तुतिश्चेत्, क्रत्वङ्गजुहूपादानपूर्वकपर्णताप्रतिपादनमपि स्तुतिः स्यात्, नैवं क्रत्वङ्गोपादानपूर्वकस्य पुरुषेण साधयितुमशक्यगुणप्रतिपादनस्यैव स्तुतिरूपत्वात् । शङ्काया अनुत्सूत्रतामाह - तदितमिति । उक्तमर्थं सूत्राक्षरेषु दर्शयति - उद्गीथादिति । अत्रोत्तरमित्यादि - अपूर्वत्वादित्येतद्वयाचष्टे । अप्राप्तत्वादिति - तदुपपादयति । न हीति - स्तुतिर्हि प्रमाणान्तरप्राप्तगुणानुवादेना वा अप्राप्तगुणविधानेन वा मुख्यवृत्त्युपस्थापितगुणासम्भवे वृत्त्यन्तरोपनीतगुणान्वयेन वा क्रियते, तत्र प्रमाणान्तरप्राप्तगुणानुवादरूपस्तुत्यनुपपत्तौ हेतुः सूत्रे कण्ठोक्तः, तर्ह्यप्राप्तगुणविधानेन स्तुतिरियं स्यात्, यद्रसतमत्वादिकथनमिति चेन्न, उद्गीथादेः रसतमत्वादिकत्वस्यायोग्यत्वादयोग्यार्थस्य च विधातुमशक्यत्वात्,

तद्विधानेन स्तुत्यनुपपत्तेरिति परिहारः सूत्रे भाष्ये चाभिप्रेतः । ननु मुख्यार्थायोग्यत्वे सति “इयमेव जुहू"रित्यादाविव वृत्त्यन्तरोपीनतगुणान्वयेन स्तुतिः स्यात्, यदि स्वरूपेणान्वयायोग्यस्यापि रसतमत्वादेरारोपणस्य शक्यत्वात् दृष्टिविधिः, तर्हि “इयमेव जुहू"रित्यादिष्वपि दृष्टिविधिः स्यादित्यत्राह - न चोद्गीथादिविधिरिति । आदिशब्देन पञ्चविधसामविध्यादिकं गृह्यते । यया कयाचन विधया - अमुख्यवृत्त्येत्यर्थः । इयमेवेत्यादिवाक्यस्य कर्मविधिप्रकरणसन्निदानात् “सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते” इति न्यायादेकवाक्यत्वसिद्ध्यर्थम? मुख्यवृत्त्यास्तुतित्वमाश्रितम्, अत्र तु तथा सन्निहितत्वाभावेनैकवाक्यत्वाभावात् स्तुतित्वानुपपत्तिरित्यर्थः । सूत्रव्याख्यानमधिकरणार्थेन निगमयति - अत इति । पूर्वं पूर्वपक्षयुक्तिः परिहृता स्वपक्षसाधकहेतुरमन्तरसूत्रेणाभिधीयते ॥ 21 ॥

॥ भावशब्दाच्च ॥ 22 ॥ उद्गीथादिविधेरत्राभावा उक्तः पूर्वसूत्रे, अत्र तूपासनविधेः सद्भाव उच्यते, भावः- क्रियाः, विधिप्रत्यययुक्तो भावशब्दोऽत्र विवक्षितः ॥ 22 ॥

॥ स्तुतिमात्राधिकरणं समाप्तम् ॥