॥ पुरुषार्थोऽतः शब्दादिति वादरायणः ॥ 1 ॥ पूवोधिकरणेनास्याधिकररस्य सङ्गतिमाह - गुणेति । उपासनचिन्तानन्तरमङ्गचिन्तनं क्रियते इति पादसङ्गतिरर्थसिद्धा, तत्र विद्याया अङ्गित्वे सति हि तदङ्गचिन्तनं कार्यम्, तस्मादङ्गचिन्तनोपयोगित्वेन विद्याया अङ्गित्वं प्रथमाधिकरणे निरूप्यते, किं विद्यातः पुरुषार्थः? उत विद्याङ्गकात् कर्मणः? इति, किं विद्या क्रतुकमर्भूतात्मसंस्कारद्वारेण क्रत्वर्था? उतापुनरावृत्तिफलसाधनतया पुरुषार्था, किं “ब्रह्मविदाप्नोति” इत्यादयः" फलविधयः, उतार्धवादाः, परविद्यासु कर्मीभूतो जीवः? उत तदन्यः परमात्मा, किमाचारदर्शनादिलिङ्गानुगृहीतं तत्त्वमस्यादिसामानाधिकरण्यमुपास्यस्य जीवभावमवगमयति, नेति, किमिदं लिङ्गमनैकान्तिकम्, नेति, अनैकान्तिक्रत्वाभावे तदनुगृहीतसामानाधिकरण्येनोपास्यस्य जीत्वावगमात् परविद्यानां स्वकर्मीभूतजीवसंस्कारत्वात् आत्मज्ञानफलश्रुतेरर्थवादतया पृथक्फलसाधनत्वाभावात् विद्या क्रत्वर्थेति तदङ्गकात् कर्मणः पुरुषार्थः स्यात्, लिङ्गस्यानैकान्तिकत्वे तदनुग्रहाभावेन सामानाधिकरण्यस्य जीवानतिरेकानवगमक्रत्वात् परविद्यानां जीवकर्मक्रत्वाभावेन तत्संस्कारत्वाभावात् आत्मविद्याफलश्रुतेरर्थवादत्वाभावेन पृथक्फलसाधनतया पुरुषार्थत्वाद्विद्यातः पुुरुषार्थसिद्धिः स्यात्, इदं च सिद्धान्तोपक्रमम्, विद्यायाः पूर्वपादे प्रस्तुत्वादतश्शब्देन सोक्ता, “ब्रह्मविदाप्नोति” इति वाक्ये विद्यया प्राप्यावाप्तिरुक्ता, “वेदाहम्” इत्यत्र विद्याया ब्रह्म प्राप्तिहेतुत्वं
प्रतिबन्धनिवृत्तिद्वारकमित्यर्थः । तत्र ब्रह्मणो विग्रहादिविशष्टत्वमुपायान्तरनिषेधश्च सिद्धः, उभयमप्यभिहितं “यथा नद्यः” इति वाक्ये । द्वितीयसूत्रप्रभृति पूर्वपक्षविषयम्, तदाह - अत्रेति ॥ 1 ॥
॥ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥ 2 ॥ व्याचष्टे - नैतदित्यादिना । न हीत्यादि - “आदित्यो यूपः” इत्यादिष्विव न तात्पर्यमित्यर्थः । कुत इत्यत आह - कर्मस्विति । व्रीह्यादेः प्रोक्षणादिवत् विद्या आत्मनश्शेषत्वेनावगता “आत्मा ज्ञातव्यः” इति “अधीत्य स्त्रास्यन्नि"ति ज्ञानमपि कर्मशेषत्वेनावगतम् , व्रीह्यादिशेषभूतप्रोक्षणादेः क्रतुशेषत्वं द्वारभूतव्रीह्यादेः क्रतुशेषत्वेनैव यथोपपद्यते, तथाऽऽत्मशेषभूतज्ञानस्य कर्मशेषत्वमात्मनः कर्मशेषत्वेनोपपद्यत इति ज्ञातव्य आत्मा क्रतुशेषभूत एव, कर्मशेषभूतत्वं च कर्मसु कर्त्तृभूतस्याऽऽत्मनः, स चात्मा जीव एवेति तत्स्वरूप्रतिपादनपरं वेदान्तवाक्यजातमित्यर्थः । आत्मज्ञानस्य पृथक् फलसाधनत्वान्न कर्माङ्गत्वमित्यत्राह - अत इति ।
“आत्मा वा अरे दृष्टव्यः” इत्यादिषु “स्वाध्यायोऽध्येतव्य” इतिवदात्मनः कर्मत्वावगमात् ज्ञानेन संस्कार्यत्वम् । अतो यमादेर्व्रीह्यादिद्वारा प्रोक्षणादिवत् विद्याऽपि कर्तृसंस्काररूपतया कर्मशेषभूता, तस्माद्यथावयभिचरितक्रतुसम्बन्धिजुहूद्वारा क्रतुशेषभूतपर्णमयत्वस्यापापश्लोपश्रवरमर्थवादः, तद्वदव्यभिचरितक्रतुसम्बन्धिकर्त्तृद्वारा विद्यायाः क्रतुशेषभूतायाः फलश्रुतिरर्थवाद इत्यर्थः । प्रकरणान्तराधीताया विद्यायाः क्रतुशेषत्वमपि पर्णत्ववदुपपन्नम्, आदिशब्दविवरणार्थमाह - तदुक्तमिति । चोदयति - नन्विति । अचेतनेनव चेतनेनापि स्वरूपैक्यानुपपत्तिद्योतनार्थम्, “ऐतदात्म्यमिदं सर्वं” “सर्वं खल्विदं ब्रह्म” इति वाक्यद्वयोपादानम् । एवं जीवविलीणस्य प्रतिपाद्यमानत्वेन जीप्रत्यभिज्ञाभावात्तद्द्वारा विद्यायाः कर्माङ्गत्वमनुपपन्नमित्यर्थः । परिहरति - उच्यत इति । वेदान्तवाक्येष्विवेति - त्वया जीवविलक्षणपत्वेनोक्तेष्विवेति भावः । लिङ्गानुग्रहात्सामानाधिकरण्यमपि स्वरूपैक्यपरमित्याह - तदुपवृंहितेति । चोदयति - ननु चेति । न ह्यन्यशेषमन्यशेषं भवति, तदसाधारणमेव हि तदङ्गं, कर्ता च लौकिकवैदिककर्मसाधारणः, अतः कर्त्तुरव्यभिचरितक्रतुसम्बन्धित्वाभावात् जुहूवत्प्रत्यभिज्ञा नास्तीति न तद्वारा क्रत्वङ्गत्वमित्यर्थः । परिहरति - नैवमिति ॥ 2 ॥ अनन्तरसूत्रमवतारयति - कानीति ।
॥ आचारदर्शनात् ॥ 3 ॥ गुणमुख्ययोर्विरोधे मुख्यानुगुणं गुणो नेयः, न तु गुणानुगुणं मुख्यो नेयः, तस्मात्कर्मणो विद्यायाश्च प्रसङ्गे कर्मणोऽनुष्ठानं तस्य प्राधान्येनैवोपपद्यते, अतो विद्या कर्माङ्गमित्यर्थः ॥ 3 ॥ अनन्तरसूत्रमवतारयति - लिङ्गमिति । प्राप्तिः- प्रमाणतः सिद्धिः, अनुग्राहकमुक्तम्, अनुग्राह्यमभिधीयतामित्यर्थः । आगमप्रमाणस्य श्रुतिलिङ्गादयोऽनुग्राहकाः ।
॥ तच्छ्रुतेः ॥ 4 ॥ विद्ययेति तृतीयाश्रुत्याऽङ्गत्वं गम्यते - नेयमित्यादि । ततः किमित्यत्राह - यदेवेति । ॥ 4 ॥
॥ समन्वारम्भणात् ॥ 5 ॥ अन्वारम्भणम्- स्पर्शः, तेन अम्बन्धो विवक्षितः, साहित्यं कर्मणो विद्याङ्गत्वेऽप्युपपद्यत इत्यत्राह - उक्तेन न्यायेनेति । कर्त्तुरात्मनः कर्मशेषत्वमाचारदशर्नमित्यादिकं न्यायशब्देन विवक्षितम् ॥ 5 ॥
॥ तद्वतो विधानात् ॥ 6 ॥ अतिशेषेणनिःशेषमित्यर्थः, अध्ययनवतः कर्माणि विदधीत, ततः किं ज्ञानस्य कमाङ्गत्व इत्यत्राह - अर्थावबोधपर्यन्ताध्ययनवत एवेति । अथज्ञानपर्यन्तत्वं कथमित्यत्राह - अर्थावबोधेति । स्थापितम् भाट्टैः प्राभाकरैश्च श्रुतेरविवक्षितार्थत्वादिदोषपरिहारार्थमित्यर्थः, “स्त्रात्वा जुहुया"दित्युक्ते हि होमः स्त्रानाङ्गकः स्यात्, तथेदमपीति भावः । न हि क्रतुज्ञानस्य तदनुष्ठानमङ्गम्, अपि त्वनुष्ठानस्यानुष्ठेयज्ञानमङ्गं स्यात्, तद्वदिहापि ॥ 6 ॥
॥ नियमात् ॥ 7 ॥ कृत्स्नस्यायुषः क्रतुशेषत्वान्मध्ये प्राप्तमन्यत्सर्वं तच्छेषभूतमित्यर्थः । इमानि पूर्वपक्षसूत्राणि ॥ 7 ॥ उत्तरसूत्रमवतारयति - एवं प्राप्त इति ।
॥ अधिकोपदेशात्तु वादरायणस्यैवं तद्दर्शनात् ॥ 8 ॥ कथं विद्यातः फलम्, विद्यायाः कर्माङ्गत्वे लिङ्गानि दर्शितानि हीत्यत्राह - लिङ्गानितिष्ठन्त्विति । तद्दर्शनादिति सूत्रखण्डोपादानम्, उपासनवाक्योपयोगित्वात् स्वरूपपरवाक्यानां वेदनोपदेशवाक्येष्वित्युक्तम्, ढस्वरूपपरवाक्योक्तगुणानामुपासनापेक्षितत्वादित्यर्थः शुद्धयशुद्धयुभयावस्थजीवस्यासम्भावनियानन्तकल्याणगुणा उच्यन्ते - परस्य ब्रह्मण इत्यन्तेन, उक्तगुणविशिष्टत्वे प्रमाणमाह - अपहतपाष्मेति । जुहूवत्कर्त्तुरात्मनः प्रत्यभिज्ञाने सति हि तद्द्वाराविद्यायाः कर्माङ्गत्वम्, वेदनोपदेश वाक्येषु जीवविलक्षणस्य प्रतिपाद्यमानत्वेन जीवप्रत्यभिज्ञानाभावान्न तद्द्वारा विद्यायाः कर्माङ्गत्वमिति श्रयमाणं पलमपि नार्थवादरूपम्, तस्माद्विद्यायाः पृथक्फलसाधनत्वेन न क्रत्वर्थत्वम्,किन्तु पुरुषार्थत्वमेवेत्यर्थः ॥ 8 ॥ उत्तरसूत्राणां कृत्यमाह - लिङ्गान्यपीति ।
॥ तुल्यं तु दर्शनम् ॥ 9 ॥ अनैकान्तिकशब्देनानियतत्वमुच्यते, किमर्थाः- किं प्रयोजनाः, अङ्गित्वे ह्यननुष्ठानं नोपपद्यत इति भावः । अनुष्ठानननुष्ठाने व्याहते इत्यभिप्रायेणाह - कथमिति । परिहरति - फलाभिसन्धीति । भवत्पक्ष एवेयं व्याहतिरित्याह - विद्याया इति । ब्रह्मविद्याफलानामर्थवादत्वेन मोक्षाख्यफलानभ्युपगमात् मोक्षैकफलं कर्मानुष्ठेयं त्रिवर्गफलंत्वननुष्ठेयमिति वुभागानुपपत्त्या व्याहतिस्तवैवेत्यर्थः । अनन्तरसूत्रशङ्कामाह - यदुक्तमिति ।
॥ असार्वत्रिकी ॥ 10 ॥ प्रकरणाच्छ्रुतिवलीयसीत्युक्तमिति शङ्कायामेकपदसामर्थ्यं हि श्रुतिः, अत्र च सामर्थ्यं नास्तीत्यभिप्रायेणाह - न हीति । यत्करोति तद्विद्ययेत्युक्ते विद्याया अङ्गत्वं विहितं स्यात्, न च तथान्वयः, यदेव विद्यया करोति, तदेव वीर्यवत्तरमित्यन्वयः, तथा सति यच्छब्दानूदितस्य विद्यया क्रियमाणस्य प्रापकप्रमाणाकाङ्क्षायां प्रकरणसन्निहितोद्गीथविद्या “यदेव विद्यया” इति विद्याशब्दं सङ्कोचयति, अतोऽनुवादरूपत्वात् प्रमाणान्तरसापेक्षत्वेन स्वतोऽर्थनिश्चयसामर्थ्याभावात् विद्ययेति पदमेकपदसामर्थ्यरूपा श्रुतिर्न भवतीत्यर्थः ॥ 10 ॥ अनन्तरसूत्रस्य शङ्कामाह - यच्चेदमिति ।
॥ विभागः शतवत् ॥ 11 ॥ समन्वारम्भणश्रुतिः सांसारिकफलविद्याकर्मविषया, विद्या स्वफलप्रदानायाऽन्वेति कर्म च स्वफलप्रदानायेत्यर्थः, ब्रह्मविद्यातदङ्गकर्मविषया वा स्यादियं श्रुतिः, विद्या “नेहाभिक्रमनाशेऽस्ती"ति न्यायात् प्रारब्धावसाने मुक्तिदानायान्वेति । कर्मजन्मान्तरेऽपि विद्योत्पादनायान्वेतीत्यर्थः ।
॥ अध्ययनमात्रवतः ॥ 12 ॥ आधानवदिति - “अग्नीनादधीते"त्यत्राधानेनाग्नेस्सम्बाद्यत्वमात्रमुक्तमं न तूत्तरक्रतुविनियोगः, अग्निशब्दस्य तावन्मात्रे प्रसिद्धिस्वारस्यात्, तथाऽत्रापीत्यर्थः, एवं शब्दस्वारस्यमुपपादितम् । अथार्थानुपपत्तिः परिहृयते - गृहीतस्य चेति । प्रवर्त्तकाभावन्मीमांसाया अनांरम्भणीयत्वं ह्यनुपपत्तिः, साऽपि रागतः प्रवृत्त्या परिह्रयत इत्यर्थः, श्रुतेरविवक्षितार्थत्वमपि परिहृतंभवति, अध्ययनविधेः प्रयोजनपर्यवसायित्वमपि परम्परयोपपद्यते, अर्थज्ञानपर्यन्तत्वपक्षवदिति कर्मावबोधित्वदर्शनादित्यापातप्रतीतिरुच्यते, तत्र कर्मोपक्रमत्वात् प्रथमं कर्मविचार उपपद्यते, आपातप्रतीत्या प्रवृत्तावपि “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति” “विज्ञानधन एवैतेभ्या भूतेभ्यः समुत्थाय तान्येवानु विनश्यति” इत्यादिभिर्व्याकुलतया न केवलं ब्रह्मविचार एव, कर्मविचारोऽपि कर्त्तव्य एव, अध्ययनविधेरर्थज्ञानपर्यन्तत्वे “वेदमधीत्य स्नास्य"न्नित्यध्ययनानन्तरं समावर्त्तनस्मृतेर्बाधित्वान्मीमांशाश्रवणस्यावसरः स्यात्, रागतः प्राप्तौ नावसर इति चेत्- न, क्तवाप्रत्ययः समानकर्त्तृकत्वपूर्वकालत्वमात्रपरः, न त्वानन्तर्यपरः, अतो न विरोधः, आनन्तर्थेऽपि स्वोपयोग्यर्थज्ञानस्यावसरप्रद एव विधिः, यथा क्रतुविधिरर्थार्जनादेः, न केवलं स्मृतिसिद्धा समावृत्तिः, श्रुतिसिद्धा च “अधीत्याभिसमावृत्य” इति हि श्रूयते अतो नाध्ययनविधिर्बाधते । किञ्च श्रुतिस्मृत्योविर्रोध एव नास्ति, येन बाध्यबाधकभावः स्यात्, उभयत्राप्यध्ययनशब्दस्यार्थज्ञानपर्यन्तत्वे वा अक्षरराशिग्रहणपर्यन्तत्वे वा तुल्यार्थत्वात्, समावृत्तस्यापि मीमांसाश्रवणावसरः श्रावियितुरिव स्यादेव, यावदर्थज्ञानं हितैषिवचनादनुष्ठानमप्युपपद्यते, यथा ब्रह्मचर्ये, न च तावता मीमांसानैरपेक्ष्यं हितैषिणामाप्तत्वनिश्चयार्थं स्वयं शिष्याणामुपपादनार्थं च श्रवणोपपत्तेः, न
चाध्ययनजन्यज्ञाननिरपेक्षं हितैषिवचनादनुष्ठानेऽपशूद्राधिकरणविरोधः, हितैषिवचनादनुष्ठानेऽपि मन्त्रब्राह्मणविशेषणां कृत्स्नवेदस्य च जप्यत्वात् तस्य चाध्ययनेनैव सम्पाद्यत्वात्, अध्ययनस्य चोपनयनाङ्गकत्वादुपनयनस्य च त्रैवर्णिकाधिकारत्वाच्च शूद्रादेरुपनयनानधिकारादनुष्ठानानुपपत्तेः, “न शूद्राय मतिं दद्यात्” “न चास्योपदिशेद्धर्मम्” इति निषेधाच्च शूद्रादेर्नोपदिशन्ति, अतोऽध्ययनविधेरर्थज्ञानपर्यन्तत्वाभावादध्ययनवतः कर्मविधानेऽप्यर्थज्ञानस्य कर्मविधिशेषत्वाभावान्न विद्या कर्माङ्गमित्यर्थः । अर्थज्ञानपर्यन्तत्वं विधेरभ्युपगम्य परिहरति । यद्यपीति । अर्थज्ञानार्थान्तरत्वात्- अध्ययनशब्दवाच्यव्यतिरिक्तत्वाद्विद्याया इत्यर्थः । न ह्यर्थज्ञानस्य ज्योतिष्टोमादिकर्मशेषभूतं, विपरीतं हि तत्, एवं शास्त्रजन्यज्ञानमुपासनाख्याया विद्याया शेषभूतमित्यर्थः ॥ 12 ॥
॥ नाविशेषात् ॥ 13 ॥ पूर्वपक्षिणोक्तस्य कर्मणैवेत्यादिवचनस्यापि विद्याङ्गभूतकर्मविषयत्वमभिप्रेत्याह - कर्मणैव हीति । तस्य यावज्जीवमनुवृत्तिरङ्गिन उपासनस्यानुवर्त्तमानत्वादुपपन्नेत्याह - विदुषस्त्विति ॥ 13 ॥ उत्तरसूत्रसङ्गतिमाह - एवमिति । अर्थस्वाभाव्यम्- विद्याया अर्थज्ञानादर्थान्तरत्वं कर्मेतिकर्त्तव्यताकत्त्वं च ।
॥ स्तुतयोऽनुमतिर्वा ॥ 14 ॥ “ईशा वास्य” मिति ईट्छब्दस्तृतीयान्तः- ईशा, तेन वास्यम् । यद्वा ईशेन आवास्यम्, ईश्चरपरतन्त्रमित्यर्थः । नरे- न श्मत इति नरः, निस्सङ्गः, तस्मिन् इतोऽन्यथा नास्ति- नरेत्वयि न कर्म लिप्यत
इतीतोऽन्यथा नास्ति, इदमेव तत्त्व न स्तुतिमात्रमित्यर्थः ॥ 14 ॥
॥ कामकारेण चैके ॥ 15 ॥ गार्हस्थ्यत्यागमधीयत इत्यध्याहारः - यज्ञादीति । न ह्यङ्गमवेलम्व्याङ्गिनस्त्याग उपपद्यते, तस्मात् त्याज्यस्य कमर्णोऽङ्गित्वं नास्तीत्यर्थः ॥ 15 ॥
॥ उपमर्दं च ॥ 16 ॥ तस्मिन् दृष्टे परावर इत्यादिकमिति - अर्थप्रधानानिर्देशः, इत्याद्युक्तार्थरूपमुपमर्दमित्यर्थः । तद्विद्याया इति - न ह्यङ्गेनाङ्गिन उपमर्द उपपद्यते, तस्मादुपमर्दिका विद्योपमर्दनीयस्य कर्मणो नाङ्गमित्यर्थः ॥ 16 ॥
॥ ऊर्ध्वरेतस्सु च शब्दे हि ॥ 17 ॥ स्मृतिष्वाश्रमा प्रतीयन्त इत्यत्राह- श्रुतिविरुद्धानामिति । धर्मस्कन्धा धर्माश्रया आश्रमाः ॥ 17 ॥
॥ परामर्शं जैमिनिरचोदनाच्चापवदति हि ॥ 18 ॥ अन्यार्थं- ब्रह्मोपासनस्तुत्यर्थम् ॥ 18 ॥
॥ अनुष्ठेयं वादरायणः साम्यश्रुतेः ॥ 19 ॥ आश्रमशब्दो धर्मपरः, स्तुत्यर्थतयाऽनुवादसाम्यं
प्रमाणान्तरप्राप्तिसाम्यं चोभयं सूत्राभिप्रेतम् । आश्रमान्तरतीर्त्तने सति हि साभ्यं वक्तव्यम्, तदेव नास्ति, गार्हस्थ्यधर्माणामेव कीर्त्तनादित्माशङ्कते - न च गार्हस्थ्येति । परिहरति - त्रय इति । व्याख्यानान्तरव्यावृत्यर्थं च व्याचष्टे - अतो यज्ञ इति । ब्रह्मसंस्थशब्दः सन्यासाथमविषयः परैर्व्याख्यातः, तद्वयावृत्त्यर्थमाह - ब्रह्मसंस्थ इति । यौगिकः- यौगिकत्वात्, अनेन “क्लृप्तावयवशकत्यैवे"त्याद्युक्तनयात् ब्रह्मसंस्थशब्दस्य चतुर्थाश्रमपरत्वानुपपत्तिरुक्ता, उक्तार्थानुपपत्त्याऽपि न तथाऽर्थो वर्णनीय इत्याह - सर्वेषामिति । तस्यामेव श्रुतौ “पुण्यलोकभाजः” इत्युक्तम्, तद्वयाचष्टे - ब्रह्मनिषांविकला इति । तदेतदित्यादि - अभिदधता पराशरेणेत्यन्वयः, ये चेमेऽरण्ये” इत्यादिवाक्यस्यदेवयानविधिपरत्वादाश्रम्विधिपरत्वाभाव उक्तः पूर्वपक्षिणा, तत्परिहरति । ये चेमेरण्य इति देवयानविधानार्थं कृतोऽप्यनुवादो वानप्रस्थपारिव्राज्ययोः प्रमाणान्तरप्राप्तिसापेक्ष इति तत्रापि विधिरस्त्येवेत्यर्थः ॥ * ॥ उत्तरसूत्रशङ्कामाह - परामर्शपक्ष इति ।
॥ विधिर्वा धारणवत् ॥ 20 ॥ इयमस्मिन् सूत्रे कृत्वा चिन्तेत्याह- ब्रह्मचर्यं समाप्येत्यादिना । ॠणश्रुतिः “त्रिभि ॠणवान् जायते” इत्यादिका, अपवादश्रुतिः “वीरहा वा एष देवानां योऽग्निमुद्वासयते” इत्येषा “स स्वल्वेवं वर्त्तयन् यावदायुष"मित्यादिका आश्रमविशेषधर्मानुवृत्तिपराः श्रुतयोपि तत्तदाश्रमाणां तत्तद्धर्मानुवृत्तिपराः, न त्वाश्रमान्तरधर्माणां ब्रह्मविद्याङ्गत्वविरोधिन्य इत्याह - अन्याश्चेदि । अधिकरणार्थमुपसंहरति - अत इति । ऊर्ध्वरेतसां ब्रह्मविद्याविधानेन विद्याया गृहस्थाश्रमधर्मं प्रत्यङ्गत्वाभावेन पृथक्फलसाधनत्वात् विद्यातः पुरुषार्थसिद्धिरित्यर्थः ।
इतरे त्रयोऽपि “विभागः शतवत्” इत्येतत्पुरुषभेदेनः विभागपरमाहुः, “आभ्यां शतं देय"“मित्युक्ते पञ्चशदेकस्य पञ्चाशदन्यस्येति विभागवदिति, तदयुक्तं “तं विद्याकर्मणी समन्वारभेते” इत्येकस्मिन्नेव पुरुषे द्वयोरन्वारम्भणप्रतीतेस्तदविरोधेन विभागस्य दर्शनीयत्वात् । परे चापरे चाध्यनस्यार्थावबोधपर्यन्ततामिच्छन्तो मात्रशब्दस्य वेदान्तसिद्धमात्मज्ञानव्यवच्छेद्यमिति तस्य न कर्मशेषतेत्याहुः, तच्चायुक्तं, सूत्रास्वारस्यादर्थावबोधपर्यन्तायाः शब्दस्वारस्यार्थानुपपत्तिविरहविध्वस्तत्वाच्च, त्रयेऽपि “नाविशेषा"दिति सूत्रं विदुष एवायं नियम इति विशेषाभावादविद्वद्विषयोऽयं “कुवर्न्नेवे"ति नियमः इति व्याचक्षते, तदप्ययुक्तं ब्रह्मविदः प्रकृतत्वात्, अतः स्वतन्त्रकर्मविषयत्वे विशेषाभावाद्विद्याङ्गकमर्विषयत्वेनापि नियमोपपत्तिरूपतया व्याख्यानं युक्तम् । अन्ये तु “परामर्शं जैमिनि"रित्याद्यधिकरणान्तरं वर्णयन्ति, तदपि तादर्थ्यनैरन्तर्याभ्यामयुक्तम् । परे त्वैकाधिकरण्यमिच्छन्तं एव “विधिर्वा धारणव"दित्यत्र “त्रयो धर्मस्कन्धाः” इत्यादौ विषये तपः- शब्दो वनस्थमात्रपरः, ब्रह्मसंस्थशब्दः परिव्राजकवाची, त्रयाणां पुण्ययलोकभावत्वमुकत्वा ब्रह्मसंस्थस्यामृतत्वप्राप्तवचनात्, यथा देवदत्तयज्ञदतौ मन्दप्रज्ञौ अन्यतरो महाप्राज्ञ इत्युक्ते विष्णुमित्रो महाप्राज्ञ इत्युक्तं स्यात्, न तु यज्ञदत्तस्तद्वदिति, तदनुपपन्नम्, तपश्शब्दस्य वनस्थमात्रपरत्वेऽपि ब्रह्मसंस्थशब्दस्य यौगिकत्वसम्भवेन प्रोक्षणीन्यायात् परिव्राजि रूढिकल्पनानुपपत्तेः प्रकृताश्रमत्रयमात्रावलम्बनत्वेनास्य वचनस्य परिव्राजाममृतत्वप्राप्तौ प्रमाणत्वाभावप्रसङ्गात्, अतस्तेषां स्वल्वेषां सतां भूतानां त्रीण्येव वीजान्यण्डजं
जीवजनुद्भिज्ज"मित्यवधारणे सत्यपि स्वेदजोद्भिज्जयोरिवानवधारणस्थले तपश्शब्देनाश्रमद्वेयस्य तन्त्रेणोपादानोपपत्तेः, पुण्यलोकभाकत्वामृतत्वयोस्तेष्वेवाश्रमेषु विद्वदविद्वदिषयत्वेनोपपत्तेः, प्रजापत्यं गृहस्थानाम्यिादिस्मृत्यैकार्थ्याच्चश्रमाचतुष्टयविधिः । न च कर्मावरुद्धत्वेनाश्रमान्तराणामात्मानुसन्धानानवकाशः कमर्ानवरुद्धकालबाहुल्यात्, न हि सर्वास्मिन्नहोरात्रे उपासीतेति विधिः, अन्यथा
जनकादीनामात्मवेदनादपवर्गप्राप्तिवचनानुपपत्तेः, उभयभावनानिष्ठगोचरशास्त्रवैयर्थ्यं च स्यात् । यत्तु देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ अन्यतरो महाबुद्धिरिति निदर्शनं तत्रापि कालभेदेन यज्ञदत्तादिविषयत्वं युज्यते, दृष्टान्तवैधट्यं च, तत्र धर्म्यन्तरनिष्ठत्वं युक्तम्, इह तु ब्रह्मसंस्थशब्दातिरेकेणविशेष्यसमर्पकपदाभावात् प्रकृतविषयत्वमेव स्यात् ॥ 20 ॥
॥ पुरुषाथाधिकरणं समाप्तम् ॥