37 भूमज्यायस्त्वाधिकरणम्

॥ भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ 55 ॥ पूवाधिकरणे उद्गीथादिकं प्रस्तुतम्, तत्र सामावयवभूतोद्गीथादेः समस्तस्य व्यस्तस्य चोपासनं श्रुतिसिद्धम्, एवं वैश्वानरविद्यायां किं समस्तस्योपासनं कार्यम्, उत व्यस्तस्य? उतोभयस्येति शङ्कया सङ्गतिः, स्वर्लोकादिषु किमवयवभूतमित्यत्राह - तत्र चेति । किं वैश्वानरविद्यायां

व्यस्तोपासनदिधिः? उत व्यस्तस्य समस्तस्य च? उत समस्तस्यैव, किं प्रत्यवयवं फलश्रवणात् “यस्त्वेतमेव” मित्युपासनसमुदायानुवादः? उत व्यस्ते समस्ते च फलश्रवणादुभयत्र विधिः कल्प्यः? उत प्रत्यकफलश्रवरमर्थवादः । आद्ये व्यस्तोपासनविधिः, द्वितीये उभयविधिः, तृतीये समस्तस्यैव विधिः । अत्यन्नम्- अन्नमत्ति, प्रियं पश्यति- अस्य कुले ब्रह्मवर्चसम्भवतीत्यन्वयः, वैश्वानरोपासनं ह्यपकान्तय तत्कथं सूर्द्धमात्रोपसनोपदेश इत्यत्राह - वैश्वारनत्वं चाहेति । एतमेवमात्मानं वैश्वानरमुपास्ते इत्यादिष्वित्यर्थः, व्यस्तोपासनं विवक्षितं चेत् कथं समस्तस्योपसंहारः? इत्यत्राह - परत्रेति । वैश्वानर उक्तस्य - वैश्वानरविषयत्वेनोक्तस्येत्यर्थः । अपर आहेति - पृथक्फलनिर्देशात् व्यस्तोपानफलात् पृथक्फलनिर्देशाद्वाक्यभेदः, महावाक्यभेदः, अनेकार्थप्रतिपादने सत्यपि वाक्यैकत्वे दृष्टान्तमाह - यथा भूमेति । समस्तोपासनं प्रधानप्रतिपाद्यं व्यस्तोपासनं प्रासङ्गिकमिति न विरोध इति भावः ।

एवं प्राप्त इति - भूमशब्दो धर्मिपरः,वैश्वानरात्मजिज्ञासून् प्रति द्युपृथिव्याद्यवयवविशिष्टविषयोपासनतत्फलोपदेशादेकवाक्यत्वमवगतम् । अनुवादमात्रमिति - समुदायोपासनतत्फले विक्षिते तदन्तर्गततदेकदेशोपासनतदेकदेशफलकथनमनुवाद इत्यर्थः । समस्तोपासनफले सर्वदेशसर्वकालवत्तिर्समस्तभोग्य जातं ह्यन्तर्गतमिति दर्शयितुं फलैकदेशानुवादः कृतः, न तु तथाऽनुष्ठेयमिति ज्ञापयितुम्, इतरथा वाक्यभेदात्, व्यस्तोपासने प्रत्यवायकथनाच्च यथोक्त एवार्थः । अत इदमपीत्यादि - अनर्थाश्रवणमेकं वैषम्यमित्यर्थः । वैषम्यान्तरमाह - नामाद्युपासनेभ्य इति । नामाद्युपासनानां भूमविद्योपयोयित्वमस्ति, आधिक्यस्य प्रतियोगित्वेनापेक्षितत्वात् । अतिशयितफल

श्रवणमस्तु ततः किमित्यत्राह - तत एवेति । विवक्षितत्वमुपपादयति - अन्यथेति । एवमर्थान्तराणां प्रधानार्थोपयोगित्वान्न वाक्यभेदो भूमविद्यायाम्, अत्र तूपासनानामन्योन्योपयोगित्वाभावाद्वाक्यभेदस्तिष्ठत्येवेत्यर्श्नः । अत सत्यधिकरणार्थोपसंहारः, ज्यायस्त्वशब्दश्रवणात् व्यस्तोपासनपक्षेऽपि सूत्रकाराभिमत इति चेन्न, वाक्यभेदादिप्रसङ्गात्, ज्यायस्त्वशब्दस्तु प्रामाणिकत्वाभिप्रायेणाप्युपपन्नः । क्रतुवदिति- दर्शपौर्णमासप्रभृतिषु सामस्त्येन साङ्गस्य प्रधानस्यैकस्य विवक्षितत्ववदिति परे व्याचक्षते, ततोऽपि भाष्योक्तदृष्टान्त एवोचितः, सादृश्यप्रकर्षात्, क्रतोरङ्गोपचयात् फलोपचयवदित्यन्ये, ते व्यस्तोपासनस्य सूत्रानुमविमपि मन्यन्ते, तदयुक्तम्- ज्यायस्त्वशब्दस्यान्यथासिद्धेः पूर्वोक्तत्वात्, एकैकोपासननिन्दाया इतरप्रशंसार्थात्वाभिप्रायकल्पने गौरवात्तस्य च गतिशून्यत्वाभावेऽनुपपत्तेः ॥ 55 ॥

॥ भूमज्यायस्त्वाधिकरणं समाप्तम् ॥