॥ अन्तरा भूतग्रावत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ 35 ॥ हेयप्रत्यनीकत्वं ब्रह्मणोऽसाधारणं चेत्- अशनायाद्यतीत्वविशिष्टं ब्रह्म स्यात्, प्राणितृत्वादिविशिष्टस्तु जीवः स्यादिति शङ्कया सङ्गतिः । उषस्तप्रश्नशब्देन तत्प्रकरणं विवक्षितम्, किमुषस्तकहोलप्रश्नप्रतिवचनश्रुत्योर्विद्याभेदः उत विद्यैक्यम्? किं पूर्वत्र
जीव उपास्येऽन्यत्र परः? उतोभय िपर एवेति, किमत्र सर्वान्तरत्वप्राणितृत्वे देहादिजाग्रदाद्यस्थापेक्षे? उतानवच्छिन्ने, “न दृष्टेद्रेष्टार"मिति दृष्टिव्यतिरिक्तत्वनिषेधः? उत श्रवणादिकर्त्तुजर्ीवस्य मन्तव्यत्वनिषेध इति, यदा दृष्टिरूपताव्यतिरेकनिषेधः, तदा तथात्वस्य जींवे सम्भवात् सर्वान्तरत्वप्राणितृत्वयोरप्यापेक्षिकत्वेन पूर्वत्र जीव उपास्य इति विद्या भिद्यते, यदा श्रवणादिकर्त्तुरुपास्यत्वनिषेधः, तदा सर्वान्तरत्वप्राणितृत्त्वयोप्यनवच्छिन्नतया पूर्वत्रापि पर एवोपास्य इति विद्यैक्यमिति, रूपभेदादिति कथमुच्यते- प्रश्नो ह्येकरूप इत्यत्राह - प्रतिवचनभेदादिति । प्रतिवचनप्रकारेण हि प्रश्नार्थो ज्ञायत इति भावः । ततः किमित्यत्राह - अत इति । सर्वान्तरत्वं कथमित्यत्राह - भूतग्रामवतश्चेति । आत्मशब्दस्य परमात्मवाचित्वव्यावृत्त्यर्थं स्वात्मन इत्युक्तम्, स्वमेवात्मा स्वात्मा, सर्वान्तरत्वमप्यापेक्षिकमस्य सम्भवतीति दर्शयितुं भूतग्रामवच्छब्दः प्रयुक्तः । यद्यपीत्यादि - आपेक्षिकं सम्भवतु नाम, तथाऽप्यस्वरसमिति भावः । परिहरति - तथाऽपीति । अनेकपदविरोधेनैकपदस्वारस्यमनुपपन्नमित्यर्थः । शङ्काया अनुत्सूत्रत्वमाह - तदिदमिति । सूत्रखण्डं व्याचष्टे - अन्तरेत्यादिना । सर्वान्तरत्वेन प्रतिवचनं भूतग्रामवत्स्वात्मसम्बन्धीत्यर्थः । भूतग्रामवत्स्वात्मन इति पूर्वपक्षमुकत्वा नेत्युक्ते परस्येत्यर्थादुक्तं भवतीत्यभिप्रयन्नार्थं हेतुमाह - उभयत्रेति । कथमित्यपेक्षायां तं विवृणोति - तथा हीति । साक्षाद्व्रह्मशब्दवाच्यत्वमेको हेतुः हेत्व
न्तरमाह - अपरोक्षत्वमपीति । देशकालसन्निकर्षो ह्यापरोक्ष्ये विद्यते, तस्माद्व्रह्मणोऽपरोक्षत्वं नाम सर्वदेशसर्वकालसन्निहितत्वमित्यर्थः । निरुपाधिकं प्राणनस्य कर्तृत्वमिति - प्राणयितृत्वं विवक्षितम्, निरुपाधिकशब्देन जीव्यावृत्तिः । स हि कर्मानुगुणदेहेन्द्रियादीनामधिषांतृत्त्वेन कदाचित् प्राणयिता, निरुपाधिकप्राणयितृत्वं परमात्मन एवेत्युपपादयति । प्रत्यगात्मन इति - पुनः प्रश्नस्यार्तान्तरविषयत्वशङ्कां परिहरति । एवमिति - इन्द्रियाधीनानामिति । “दृष्टेर्द्रष्टार"मिति व्यपदेशः ओदनपाकं पचतीतिवदिति भावः । परमात्मनः सर्वदा सर्वप्राणिप्राणयितृत्वे श्रुतिमाह - को ह्येवान्यादिति । उत्तरे अपि - कहोलप्रश्नप्रतिवचने इत्यर्थः । प्रष्ट्टभेदाच्चेति - अत्र प्रष्ट्टद्वयसद्भावाद्विद्याभेदः सम्भवतीत्यर्थः ॥ 35 ॥
॥ व्यतिहारो विशिठषन्ति हीतरवत् ॥ 36 ॥ प्रश्नप्रतिवचनैकरूप्यं विधिपदैक्यं च विवृणोति । प्रश्नद्वयमित्यादिना - विधिप्रत्ययश्चेति - अविशेषपुष्टश्रवणं हि भेदहेतुः, अत्र तदभावात् विद्यैक्यमिति भावः । तिष्ठासेत्- ब्रह्मणि तिष्टासेत्- निष्ठां लभेत उपासीतेत्यर्थः । द्वयोरवधृत इति । द्वयोः- उपषस्तप्रश्नप्रतिवचनकहोलप्रश्नप्रतिवचनरूपवाक्ययोः । कर्तव्य इति - व्यतिहारस्य कर्तव्यत्वं श्रुत्यभिप्रेतमिति सूत्रकाराभिप्राय इत्यर्थः । व्यतिहारं विवृणोति - उषस्तस्येति । व्यतिहास्य प्रयोजनमाह - एवमिति । व्यावृत्तिषुद्धि जननार्थं प्रतिवचनमिति वदन् विशिंषन्तीति सौत्रं पदं व्याचष्टे । एनंसर्वान्तरात्मानमिति - अत इत्यादि । सर्वान्तरात्मत्वस्य गुणस्य एकस्योपास्यत्वाद्रूपभेदः परिहृतः, विद्यैक्येऽपि वैश्वानरविद्यायामौपमन्यवादिवत् प्रष्ट्टभेदः सम्भवतीति स्पष्टत्वान्न कण्ठोक्तम् । व्यावृत्तिबुद्धिजननाय परस्परं बुद्धिव्यतिहार उक्तः, तत्र सर्वप्राणिप्राणनहेतुत्वाशनायाद्यतीत्वयोरन्यतरेणैव व्यावृत्तिबुद्धिः स्यादित्यन्यतरेण किमित्याभिप्रायेण चोदयति - नन्विति । परिहरति - तदुच्यत इति । कहोलस्य पुनः प्रश्नः सम्भवति, सर्वप्राणिप्राणनहेतुतेवज्ञानेन व्यावृत्तबुद्धयनुदयात्, यथोषस्तस्य सर्वप्राणिप्राणनहेतुत्ववैशद्याय पुनः प्रशनस्तद्वत, अन्यतरेण व्यावृत्तबुद्धौ द्वयोर्जातायां परस्परबुद्धिव्यतिहारो द्वयोरपि व्यावर्त्तकधर्मभूयस्त्वहेतुकव्यावृत्तबुद्धयतिशयजननार्थमित्यभिप्रायेणाह - सर्वप्राणीति । अतः- कहोलप्रश्नस्य व्यावृत्तिवैशद्यार्थत्वदशर्नात्,
व्यावृत्तिप्रतीतिसिद्धयर्थंव्यावर्तकधर्मभूयस्तया व्यावृत्तिबुद्धयतिशयार्थमित्यर्थः । एवं धर्मभेदेन च रूपभेदाशङ्काकृतो विद्याभेदो निरस्तः । अथ दृष्टान्ते विद्यैक्यं स्थापयिष्यन् सूत्रमवतारयितुं शङ्कामाह - तत्रापीति ॥ 36 ॥
॥ सैव हि सत्यादयः ॥ 37 ॥ सैव हीति - सेति निर्देशः “सेयं देवतैक्षत” इति सद्विद्यावाक्यानुरोधानिति भावः । उपपाद्यते - प्रश्नप्रतिवचनमुखेन प्रतिपाद्यत इत्यर्थः । तत्रापि कारणभूतायाः परस्या देवताया एवोपास्यत्वमुपपादयति । यत इति परमकारणत्वविशिष्यदेवतैवोपास्या, कारणत्वोपयोगिगुणानां सत्यत्वात्मत्वजीवविशेषान्तर्यामित्वादिगुणाना प्रतिपर्यायमावृत्तत्वेन तत्र तात्पर्यादित्यर्थः । परोक्तप्रकाणमनूद्य दूषयति - केचित्विति । तस्य
कथमर्थं वर्णयन्तीत्यत्राह - तत्रेति । सोऽपि वक्तव्य एवेत्यत्राह - तत्तु वक्ष्यत इति । ननु “सर्वत्र प्रसिद्धोपदेशा” दिति जगत्तादात्म्यपरवाक्यविषयम्, “आत्मेती"त्यादिकं तु जीवतावात्म्यपरम्, नात्र सर्वात्मभाव उच्यते; अपि तु जीवब्रह्मणोरन्योन्यभावारोपणमिति चेत् तत्राह - न चेति । तथ्यं न सम्भवतीति - गरुडादिध्यानवदसदारोपणं
चेत्- न तदपवर्गोपायः, तत्त्वज्ञानं ह्यपवर्गोपाय इति भावः । “त्वं वा अहमस्मि” इत्यादेरयमर्थः- त्वं वाऽहमस्मि, त्वांब्दबुद्धिविषयः परमात्मैवाहंशब्दबुद्धिविषयः, अहं वै त्वमसि- अहंशब्दबुद्धिविषय एव त्वंशब्दबुद्धिविषयः, अस्मि- अस्तीति निर्देशावहंत्वंशब्दप्रयुक्तौ, अहं, त्वं, शब्दौ प्रवृविनिमित्तभेदात् ब्रह्मपयर्न्तौ, तद्योऽहमित्यादेरप्ययमर्थः । अनन्तरसूत्रस्य परोक्तार्थमनुवदति - उत्तरेण चेति । दूषयति - तदपीति । ततः किमित्यत्राह - न चेति । “जहाति च” शरीरमित्यध्याहारः, प्रथमं द्वयोरिति पदं वाक्यपरम्, द्वितीयं तूपासनपरम्, द्वयोर्मध्ये उत्तरवाक्यप्रतिपाद्योपासनयोर्विद्याभेदस्य साधितत्वात् परस्परभिन्नविद्याद्वयेन पूर्ववाक्योक्तस्योपासनस्यैक्यं न सम्भवति, एकविद्यात्वे साकाङ्क्षतयाऽन्वयः स्यात्, पृथक्पृथक्संयोगादीनामुक्तत्वेन निराकाङ्क्षत्वाच्च नैकविद्यात्वमित्यर्थः । न चेति । गुणफलम्- अङ्गफलम्, प्रमाणाभावात् हेत्वभावात्, उत्तरयोः फलयोः- पापहननशरीरप्रहाणयोः, संयोगभेदाभावात्- प्रधानफलसंयोगभेदाभावात् । इत्येवमादिभिरिति - आदिशब्देन स्वोक्तार्थोपपत्तयोऽभिप्रेताः । एवं व्यतिहार इत्यादिसूत्रद्वयस्य योजनान्तरं निरस्तम्, आद्यसूत्रस्य योजनान्तरं परैःकृतम्, ते हि अन्तराभूतग्रामवत्स्वात्मन” इति सूत्रं भङ्क्तवा सिद्धान्तविषयं वर्णयन्ति, अत्र द्विराम्नानाविशेषपुनश्श्रवणन्यायेन विद्याना
नात्वं पूर्वपक्षीकृत्य स्वात्मनो विद्यैक्यं स्यात्, न हि द्वौ सर्वान्तरौ सम्भवतः, तदा ह्येकस्य सर्वान्तरत्वमापेक्षिकं स्यात्, यथा भूतग्रामे पृधिव्यादाववादानामापेक्षिकमन्तरत्वमिति, वैशद्यार्थं शङ्काविशेषनिरासार्थं च द्विराम्नानसम्भव इति सिद्धान्तयन्ति, अत्र व्यवहितान्वयोऽध्याहारबाहुल्यं च, अस्मन्मते हि प्रतिवचनशब्दमात्रमध्याहार्यम्, “अन्यथा भेदानुपपत्ति"रिति चेदित्यपि न घटते, अन्यथाशब्दो हि प्रकृतादन्यथात्वं व्रूते, सिद्धान्तस्य प्रकृतत्वे सत्यन्यथाशब्दः पूर्वपक्षविषयो भवितुमर्हति, ततश्चानभ्युपगम्यमाने विद्याभेदे द्विराम्नानानुपपत्तिरिति व्याख्यानमस्वरसम्, विद्यैक्यानभ्युपगम इति हि स्वरसार्थः, तदा चाम्नानभेदानुपपत्तेरिति हेतुर्न घटते, तस्मात “इति चे"दित्यन्तस्य पूर्वपक्षविषयत्वं तत एवाखण्डितत्वं च युक्तम्, भूतग्रावदितिपदस्य “एको देवः” इति श्रुत्यन्तरोक्तसर्वभूतान्तरात्मत्वनिदर्शनपरत्वेन योजनान्तरमप्यनुपपन्नम्, सिद्धान्तसूत्रत्वानुपपत्तेरेव, व्यतिहार इत्यादिसूत्रयोरधिकरणान्तरद्वयविषयत्वनिरासः कण्ठोक्तः । अपरे तूभयत्र प्रतिपाद्यभेदसमर्थनपरमधिकरणमिच्छन्तो जीप्रतिपादनस्य ब्रह्मोपासनार्थतया तत्र पर्यवसानात् विद्यैक्यं फलमिति वदन्ति, तदयुक्तम्- पूर्वत्राप्युक्तहेतुभिः परमात्मपरत्वसिद्धेर्जीवस्य प्रतिपाद्यत्वायोगात् स्वात्मनोऽन्तरा नान्यः सम्भवति, तदा भूतग्रामवदोपेक्षिकत्वं स्यात्, अत उपदेश्यभेदानुपपत्तिरिति चेन्न, उपदेशभेदवदुपदेश्यभेदेन भवितव्यम्, उपदेशद्वयानर्थक्यादिति योजनाऽपि क्लिष्टा, अश्रुतनञोऽध्याहारातः । अन्ये तु सम्भूत्युपासनेपूभयेषां
प्राणितृत्वादीनरामशनायाद्यतीतत्वादीनां च समुच्चयार्थं ब्रह्मैकत्वविषयत्वेन विद्यैक्यसमर्थनपरत्वमाहुः, तत्र समुच्चयसिद्धयर्थत्वमयुक्तम्- सम्भूतिविनाशसमुच्चयस्याप्रामाणिकत्वात्, व्यतिहार इत्यादिसूत्रद्वयस्य तत्कृतयोजना च भाष्येणैव निरस्ता । “तद्योऽहं सोऽसौ योऽसौ सोऽह"मिति सामानधिकरण्यं च घटशरावशब्दयोरिवाशद्वयवाचित्वादयुक्तम्, अत एव ब्रह्मणशे जीवत्वेऽहङ्कारहृद्देशदिग्कालदीनां ब्रह्मणि प्रतिपत्तिः, जीवस्य ब्रह्मत्वे तु जीवस्य ज्ञानानन्दैश्वर्यादीनां प्रतिपत्तिः प्रयोजनमिति चायुक्तम्- घटशरावयोरिव परस्परासाधारणगुणानामन्यत्रानुपपत्तेः साधारणगुणानां च द्रव्यत्वादीनामिव यत्तद्युष्मदस्मत्पदसामानाधिकरण्यप्रतिपाद्यत्वाभावाच्च ॥ 37 ॥
॥ अन्तरत्वाधिकरणं समाप्तम् ॥