27 अनियमाधिकरणम्

॥ अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् ॥ 32 ॥ अर्च्चिरादिगतेः सुतत्वात्तन्नियमानियमचिन्तेत्यवान्तरसङ्गतिः, किमर्चिरादिगतिस्तत्सन्निधिराम्नातोपासननिषांनामेव? उत सर्वविद्यानिष्ठानां? किं छन्दोग्यवाजसनेययोः “तद्य इत्थं विदुः “य एवमेतद्विदुः” इति वाक्ययोः पञ्चाग्निविद्यानिष्ठामेवार्च्चिरादिगतिश्रवणम्? उत सर्वब्रह्मविद्यानिष्ठानां, ये चेमेऽरण्ये श्रद्धाय इत्युपासते3 ये चामी अरण्ये श्रद्धां सत्यमुपासते” इति किं पञ्चाग्निश्शब्दैरुपास्यब्रह्मोपस्यापननुस्वेन उपासनान्तरप्रतिपत्तरस्ति, नेति, किम्, उपकोसलविद्यायाम्, “आचार्यस्तु ते गतिं वक्ता” इति गत्यनुवादः उपासनान्तरप्रतिपत्तिमुपोद्वलयति? नेति, यदा नोपोद्वलयति तदा ब्रह्मोपस्थापनमुखेन उपासनान्तराप्रतिपत्तेः सतरोपासकानामनुद्दिष्टत्वात् पञ्चाग्निविद्यानिष्ठानेवोद्दिश्य गतिविधानात् छान्दोग्यादौ पञ्चाग्निविद्यानिष्ठव्यतिरिक्तानामर्चिरादिगतिश्रवणाभावात् न सर्वब्रह्मविद्यानिष्ठानामिति स्यात्, यदोषोद्वलयति, तदा ब्रह्मोपस्थापनमुखेनोपासनान्तरप्रतिपत्तेरितरानप्युद्दिश्य विहितत्वेन छान्दोग्यादौ पञ्चाग्निविद्यानिष्ठव्यतिरिक्तानामप्यर्चिरादिगतिश्रवणात्सर्वब्रह्मनिष्ठानामपि अर्चिरादिगतिः स्यादिति, सिद्धान्त्यभिमतवाक्यस्य निर्वाहमाह - ये चेमे इति । प्रमाणाभावादिति - सत्यतपःशब्दयोर्ब्रह्मवाचकत्वे कारणाभावोऽभिप्रेतः । इति प्राप्त इति - गमने हि सतीति । हि शब्दः सूत्रयोजनाशेषः - अविरोध इति । श्रुतिस्मृतिभ्यामस्यार्थस्याविरोध इत्यर्थः । उदाहृतवाक्यैः

सर्वब्रह्मविद्यानिष्ठानामर्चिरादिगतिमत्त्वप्रतिपादनं दर्शयति । छन्दोग्य इत्थं विदुरिति - सत्यशब्दस्य ब्रह्मवाचकत्वं दर्शयँस्त्मुखेन तपःशब्दस्यापि तद्वाचित्वं दर्शयति । सत्यं ज्ञानमिति - तपश्शब्दस्यापि परमं यो महत्तपः" इत्यादिषु द्रष्टव्यम् । परैरस्तु विद्यामन्तरेण केवलश्रद्धातपोभ्यामर्चिरादिगतिलामा भवस्य “विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यान्ति नाविद्वांसस्तपस्विनः” इत्यादिश्रुतिसिद्धत्वात् श्रद्धातपःपरायणानां विद्यानिष्ठत्वमार्थमित्युक्तम्, तदचिरुद्धम्, आर्थत्वादपि शाब्दत्वं सम्भवद्युक्ततमम् “स एनान् ब्रह्म गमयति” इति ब्रह्मप्राप्तिफलत्वात्, फलस्य च यथोपासनभावित्वात्, तत्रोपास्यतया प्रतीतं सत्यतपश्शब्दवाच्यं ब्रह्मैवेति च सिद्धम् । श्रद्धापूर्वकं ब्रह्मोपासनस्य श्रुत्यन्तरसिद्धतां दर्शयति । श्रद्धापूर्वकमिति - स्मृतिवचने “ब्रह्म ब्रह्मविदो जनाः” इत्यत्र तात्पर्यं, न विद्याविशेष उक्तः । एवं जातीयका इति - “तयोर्ध्वमायन्नमृतत्वमेति” “सूर्यद्वारेण ते विरजाः प्रयान्ति” “अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्यया वाऽध्वानमन्विप्यादित्यमेवाभियान्ति” इत्यादयः श्रुतयः, “स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवमेव तु । द्रष्टव्यस्त्वनुमन्तव्यः श्रोतव्यश्च द्विजातिभिः । य एवमेनं जानन्ति ये चारण्यकमाश्रिताः । उपासते तपः सत्यं श्रुद्धया षरया युताः । क्रमात्ते सन्भवन्त्यर्चिरहः शुक्लं तथोत्तरम् । अयनं देवलोकं च सवितारं सवैद्युतम् । तत्र तत्पुरुषो दिव्योऽमानवो ब्रह्म लौकिकान् । करोति पुनरावृत्तिस्तेषामिह न विद्यते” इत्यादिस्मृतयश्च विवक्षिताः, सर्वविद्यास्वर्चिरादिगतिः प्राप्ता चेत् छान्दोग्ये प्रदेशद्वयेऽर्चिरादिगतेर्द्विरुक्तिः कथमित्यत्राह - एवं सर्वेति । पूर्वपक्षे “तद्य इत्थ ं विदु"रित्यादिवाक्यस्य सङ्कोचोऽनुवादत्वं च, सिद्धान्त े तु

न तत्सङ्कोच, अन्येषामनुवादत्वमात्रमेव, इदमधिकरणम् अचिर्रादिगतिचिन्तनस्य तत्सिद्धयर्थत्वात् अर्चिरादिगतेः सर्वविद्यासु चिन्तनीयतया कृतं तद्वयक्तभिविषयति । इतरे सर्वेऽपि “यावदधिकार"मिति सूत्रमतः परस्तात् पठित्वा अधिकरणान्तरमाहुः । तत्र परे तु विदुषस्तद्देहपासानन्तरं देहान्तरमुत्पद्यते न वेति संशय्य ब्रह्मविदामपि वसिष्ठादीनामितिहासपुराणेषु देहान्तरोत्पत्त्यवगमाद्विद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेति पूर्वपक्षं कृत्वा वर्त्तमानब्रह्मविदां पारव्धभोगक्षय इवाधिकारिकपुरुषाणामपि प्रारब्धाधिकारहेतुकमर्क्षये मोक्ष इति न पाक्षिकहेतुत्वाहेतुत्वे इति सिद्धान्तयन्ति; तदयुक्तम् प्रत्यक्षया नुत्या विद्याया अपवर्गहेतुत्वे श्रुते तद्वरुद्धेतिहासपुराणवचसामप्रमाणतया विद्याया अपवगर्साधनत्वे संशयानुत्थानात् । किञ्च “यावदधिकारमवस्थिति"रिथति"रित्युक्ते कथमहेतुत्वपरिहारः, यावदधिकारमवस्थानेन वर्त्तमानदेहानन्तरमप्यवर्गाभावस्थ सिद्धत्वादहेतुत्वमेव समर्थितं भवति । नन्वधिकारस्य प्रारब्धकर्मकृतत्वात् तदवसाने मोक्षहेतुत्वमेव विद्याया मोक्षहेतुत्वमिति चेत्- न, प्रारब्धकर्मणोऽपि स्वाप्नार्थवन्मिथ्यात्वेन निवर्त्तकज्ञाने सति स्थित्यनुपपत्तेः, प्रवृत्तफलस्य कर्माशयस्य मुक्तेषोर्वेगक्षयादिव फलक्षयान्निवृत्तिरिति चेत्- न, स्वाप्नशरवेगस्येव मिथ्यात्वेन बोधादनन्तरं भोगानुपपत्तेः, न हीषुमोक्षणक्षण एव पुरुषे प्रबुद्धे शरश्च वेगश्चाबाधितौ तिष्ठतः, यदि वसिष्ठादीनां न निवर्त्तकज्ञानमुदितम्, तर्ह्यहेतुत्वशङ्काया अभावात्सुतरामनारम्भणीयता । अपरे तु वसिष्ठादीनां देहान्तरोत्पत्तिदर्शनेन विद्याया अर्च्चिरादिनाऽपर्वर्गहेतुत्वव्यभिचारशङ्कानिवारकं सूत्रं व्याचक्षते, तन्मतेऽपि श्रुतिविरोधे स्मृत्यप्राकाण्येन संशयाभावात अधिकरणानारम्भस्तुल्यः । अन्ये तु अर्चिरादिमार्गस्य ॠजुत्वादादित्यादीनां परिभ्रमणशीलत्वेन अत्र नियमेनानवस्थानादार्जवेन न सदा देवाश्चिन्त्याः, किन्तु यदा यत्र यस्तिष्ठति स तत्र तदा चिन्त्य इति विचार्य भ्रमतामपि सूर्यादीनं शरीरान्तरेण मार्गानुगुणस्थ्यिुपपत्तेर्मार्गानुगुण्येन सदा ते देवाश्चिन्तनीया इति सिद्धान्तयन्ति, तदयुक्तं- कृतकरत्वात्, देवताऽधिकरणे अनेकप्रतिपत्तिदर्शना"दिति युगपदनेकत्र प्रवृत्तिविरोधो हि शरीरभेदेन परिहृतः, यतो विचारान्तराण्ययुक्तानि, अत एवास्य सूत्रस्य विदुषो देहात्यये सकलकर्मक्षयस्य व्यभिचारशङ्काव्युदासपरत्वमेव युक्तम्, यतस्तदेव युक्तम् । अत एव साम्परायाधिकरणशेषत्वमेव घटत इति अनियमसूत्रात् प्रागेव पाठः समीचीनः । ननु अनियमसूत्रात् परत्वमुपपद्यते, विदुषे अर्चिरादिनाऽपवर्गप्राप्त्यदर्शनपरिहारपरत्वेऽपि सङ्गत्युपपत्तेः, नैवम्, अर्चिरादिगतेर्देहानन्तरभावित्वचिन्तनपत्वाभावादनियमसूत्रस्य, सर्वविद्यानिषंसाधारणत्वं हि तेन सूत्रेण निरूपितम् । अतो विद्याफलविशेषस्य देहपातानन्तरभावित्वचिन्तनपरस्य “यावदधिकार"मिति सूत्रस्य साम्परायाधिकरणशेषतया पूर्वमेव पठनं युक्तम् ॥ 32 ॥

॥ अनियमाधिकरणं समाप्तम् ॥ 13 ॥