॥ सम्भृतिद्युव्याप्त्यपि चातः ॥ 23 ॥ पूर्वाधिकरणे नाम्नोः स्थानभेदाद्वयवस्था कृता, तथाऽनारभ्याधीतसम्भृ
त्यादिकस्यापि स्थानभेदाद्वयवस्थेति सङ्गतिः । उपासनविशेषमनारभ्य - अप्रस्तुत्येर्थः, किं सम्भृत्यादिगुणानां सर्वासु उपसंहारः? उत कासुचित्?, किमनारभ्याधीतानां कासुचिद्विनियोगः? उत सर्वासु?, किं सामर्थ्यं कासुचिदेव विनियुङ्क्ते; नेति, न चेत्- क्कचिद्विनियोगाभावात् सर्वासूपसंहारः, सामर्थ्यं क्कचिद्विनियोजकं चेत्- विनियोगलाभात् कासुचिदेवोपसंहारः, सम्भृतिद्युव्याप्य इति वक्तव्यमित्याशङ्कयाह - समाहारेति हृदयस्थस्य द्युव्याप्त्यादिकमनुपपन्नं चेत् कथं दहरविद्यादिष्वर्भकसोऽपि ज्यायस्त्वाद्युक्तिरित्यत्राह - शाण्डिल्येति । माहात्म्यप्रतिपादनपराः - स्वातेऽनन्तत्वरूपमहात्म्यप्रतिपादनपरा इत्यर्थः । न त्वेतद्विद्याया उपास्याकारपरा इत्यर्थः, अल्पस्थानविषयदहरविद्यादिषु द्युव्याप्त्यादेरनुपसंहारश्चेत् कथं सर्वविद्यानुयायिष्वानन्दादिष्वन्तर्भूतस्यानन्त्यस्यानुसन्धेयत्वम्, इत्थम्- औपाधिकाल्पत्ववतो ब्रह्मणस्तस्मिन्नेव स्थान औपाइिकमहत्त्वं विरुद्धमिति तदनुपसंहार उक्तः, आनन्दाद्यन्तर्भूतमानन्त्यं स्ताभाविकमिति न विरोधः, औपाधिकाल्पत्वानुसन्धानं स्वाभाविकमहत्त्वानुसन्धानं चाविरुद्धम्, स्वतोऽपरिच्छिन्नं ब्रह्मास्मदनुग्रहायौपाधिकाल्पत्ववत्स्थितमिति ह्यनुसन्धातुं शक्यम्, अल्पत्वमहव्वयोरौपाधिकयोर्युगपदेकत्रान्वयो विरुद्ध इत्यर्थः । उययत्र् समानमनोमयत्वादिगुणवत्सम्भृत्यार्दानामुपास्यप्रत्यभिज्ञापनाक्षमत्वादाधिदैविक्यः सम्भृत्यादयो नाध्यात्मं भवन्तीति परैरुच्यते, तद्गुणविशिष्यताभेदादप्रत्यभिज्ञापनं चेत् क्कचिदपि गुणोपबसंहारो न स्यात्, अतो विरुद्धगुणविशिष्टब्रह्मविषयविद्यासु नोपसंहार इत्येव युक्तम् ॥ 23 ॥
॥ सम्भृत्यधिकरणं समाप्तम् ॥