14 फलाधिकरणम्

फलमत उपपत्तेः ॥ 37 ॥ सिद्धान्तोपक्रममिदमधिकरणम्, अवान्तरसङ्गत्यर्थमनुवदति । उक्तमिति - सर्वस्मात्परत्वं प्राप्यत्वम्, तत्कल्याणगुणाकरत्वान्तर्भूतमपि पृथगधिकरणनिरूपितत्वात् पृथगुक्तम्, सूत्रे मुक्तिरिति न निर्दिष्टम्, अपि तु फलमिति साधारणनिर्देशः कृतः, अतस्तस्य प्रयोजनमाह - तुल्यन्यायतयेति । त्रिवर्गप्रदकर्माराध्यत्वफलप्रदत्वयोरपि मुमुक्षोरनुसन्धेयत्वात्तदप्यत्र निरूपितम्, अत उपासनोपयोग्यर्थविचारानन्तरं तदुपयोग्यर्थान्तरं निरूप्यत इति सङ्गतिरित्यर्थः । फलत्वमुक्तम्, फलप्रदत्वं निरूप्यत इति च सङ्गतिः, तच्च कल्या णगुण इति पादान्तर्भावः, पूर्वमीमांसायाम् अपूर्वाधिकरणे द्वारमात्रं निरूपितम्, अत्र तु द्वारविशेषो निरूप्यत इति भिदा, किं सापूर्वात्कर्मोपासनात् स्वर्गापवर्गफलोत्पत्तिः? उत कर्मोपासनाराधितात् वाय्वादिदेवतारूपात्केवलाच्च ब्रह्मण इति, किं “स एवैनं भूतिं गमयति” “यमेवैष वृणुते तेन लभ्य” इत्यादिवाक्यशेषो वाय्वादिरूपस्य केवलस्य च ब्रह्मणः फलप्रदत्वमवगमयति नेति, किं वाक्यशेषो यथाप्रतीतार्थपरः? उतातत्पर? इति, अतत्परत्वे तत्तद्देवतारूपस्य च केवलस्य ब्रह्मणः फलप्रदत्वाभावात् स पूर्वात्कर्मोपासनात्फलसिद्धिः स्यात्, अनन्यपरत्वे तु देवतारूपस्य केवलस्य चेश्वरस्य फलप्रदत्वावगमकत्वात् कर्मापासनाराधितात् तत्तद्देवतारूपात् केवलाच्च ब्रह्मणः फलसिद्धिः । सर्वज्ञत्वम् अर्थिनामपेक्षिततद्विरोधितन्निरासादिज्ञानोपयोगि, सर्वशक्तित्वम्भा- ग्यभोगोपकरणादिनिष्पादनप्रतिबन्धनिरसनोपयोगि, द्वयमपि लुब्धस्याकिञ्चित्करमिति महोदारत्वोक्तिः, ईश्वरस्य योग्यत्वमुक्तं, कर्मणस्त्वयोग्यत्वमाह - न हीति ॥ 37 ॥ ॥ श्रुत्वाच्च ॥ 38 ॥

केवलकर्मणो योग्यत्वाभावादीश्वरस्यैव योग्यत्वात्तस्यैव फलप्रदत्वं कल्प्यमित्युक्तं - तत्कण्ठोक्तं चेत्यस्य सूत्रस्यार्थः । अन्नादः- अन्नदः । अनन्तरसूत्रं पूर्वपक्षपरमित्याह - संप्रतीति ॥ 38 ॥

॥ धर्मं जैमिनिरत एव ॥ 39 ॥ उपपत्तिं दर्शयति - लोके हीति । शास्त्रं दर्शयति - एवंवेदेऽपीति । “स्वर्गकामो यजेते"त्यत्र फलसाधनत्वं श्रुतमेव, तत्र सद्वारकत्वं कल्प्यमिति न विरोधः । सिद्धान्तसूत्रमुपादत्ते- ॥ 39 ॥

॥ पूर्वं तु वादरायणो हेतुव्यपदेशात् ॥ 40 ॥ यज देवेत्यादि - तथा व्यपदेशं दर्शयति । वायव्यमिति - मन्त्रार्थवादयोरनुष्ठेयार्थप्रकानस्तुत्योन्यपरत्वान्न स्वार्थे प्रमाण्यमित्यत्राह - विध्यपेक्षित एवेति । मन्त्रार्थवादयोः प्रतीयमानार्थे तात्पर्याभावेपि रात्रिसत्रप्रतिष्ठापगोरणशतयातनासाध्यसाधनभावशर्कराञ्जनद्रव्यपशुविशेषादिरर्थवादाद्युक्तोऽप्यर्थो विध्यपेक्षिततया भवद्धिरेव स्वीकृत इति भावः । देवतानामपि

फलप्रदत्वमस्तु ततः किमपूर्वस्य फलप्रदत्वानभ्युपगम इत्यत्राह - एवमिति । श्रुतहानमश्रुतकल्पनं चानुपपन्नमित्यर्थः । अश्रुतकल्पनं हि कल्प्यापूर्ववादे, वाच्यापूर्ववादे तन्नास्तीत्यत्राह - लिङादयोऽपीति । पूर्वास्मिन् पक्षे अपूर्वमेव कल्प्यम्, अन्यत्र त्वपूर्वं, तस्य लिङो वाच्यत्वं च कल्प्यमित्यर्थः, प्रागेव- प्रथमाधिकरण एवेत्यर्थः । ततः किमित्यत्राह - तदेवमिति । ततः किं परमपुरुषस्य फलप्रदत्व इत्यत्राह - वायवाद्यात्मना चेति । अयमर्थस्सम्भवतीति दर्शयति - लोके चेति । विग्रहाद्यभावं ये त्वनुमानादिभिः साधयन्ति, तन्मते तदुक्तानुमानं कालात्ययापदिष्टमित्यभिप्रायेणाह - वेदान्तास्त्विति । स्तुतिनमस्कारादीनामुपबृहणसिद्धत्वात्तेषां ध्यानेन सह कीर्त्त

नम्, सर्वं समञ्जसम्विध्यर्थवादमन्त्राणां सर्वेषां सामञ्जस्यमित्यर्थः ॥ 40 ॥

॥ फलाधिकरणं समाप्तम् ॥ 8 ॥

इति श्रीहारीतकुलतिलकवाग्विजयसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयेन

श्रीमद्वरदाचार्यपादसेवासमधिगतभगवद्रामानुजविरचितशारीरकमीमांसाभाष्यहृदयेन

श्रीसुदर्शनसूरिणा विलिखितायां श्रुतप्रकाशिकायां तृतीयस्याध्यायस्य द्वितीयः पादः ॥