॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ 30 ॥ अवान्तरसङ्गतिमाह - इदानीमिति । अस्मादिति अतश्शब्दस्य व्याख्यानं, प्रकृतश्च “न स्थानतोऽपि परस्ये"ति सूत्रे परशब्दनिर्दिष्ट इति ज्ञापयितुं परस्मादित्युक्तं, परमकारणत्वप्रयुक्तोत्कर्षवाची परब्रह्मण इत्यत्र परशब्दः । यद्वा परस्मादिति पदेन प्राप्यतया परत्वं विवक्षितं, परब्रह्मण इत्यत्र स्वकार्य्यापेक्षया परत्वमुच्यते, परमकारणादिति कारणान्तरराहित्यम् । अस्योपास्यस्येति - उभयलिङ्गत्वस्थेम्ने इत्यत्रः, अन्यथा प्राप्यत्वतदुपयोगिभोग्यगुणजातवैकल्ये सति न ह्युभयलिङ्गत्वपौष्कल्यसिद्धिरिति भावः । पूर्वाधिकरणे उभयलिङ्गकत्वस्थेम्ने निर्दोषत्वविषयनिरूपणं कृतम्, अत्र तु कल्याणगुणास्पदत्वविषयनिरूपणमित्युक्तम् भवति । उभयलिङ्गाद् ब्रह्मणः परं किमस्ति नेति, अस्य परत्वे सेतून्मानादिव्यप देशा उपपन्ना नवेति, अनुपपन्नत्वे परान्तरमस्ति, उपपन्नत्वे परान्तरं नास्तीति सिध्यति । तत्रेयमित्यादि - असङ्करकरत्वाभिप्रायः सेतुव्यपदेशः स्यादिति शङ्कायामाह - तथा एतं सेतुमिति । सम्बन्धव्यपदेश इत्यादि- पूर्वं केवले सेतुशब्दः अत्र प्रतिसम्बन्धिनिर्देशसहितसेतुशब्दनिर्देशः । भेदेन चेति । परात्- जगत्कारणात् श्रुतावपि पञ्चम्यन्तः परशब्दः कारणविषय इति पूर्वपक्षिणो हृदयम् ॥ 30 ॥ राद्धान्तसूत्रमुपादत्ते -
सामान्यात्तु ॥ 31 ॥ अवयवार्थेनाप्यसङ्करकरत्वं दर्शयति । सिनोति बध्नातीति - “एतं सेतुं तीर्त्त्वे"त्यस्य कोऽर्थ इत्यत्राह - एतं सेतुमिति ॥ 31 ॥
॥ बुद्ध्यर्थः पादवत् ॥ 32 ॥ अपरिच्छेदवाक्यं न जगत्कारणविषयं, किन्तु तदतिरिक्ततत्त्वविषयमित्यत्राह - जगत्कारणत्वं हीति । “पाद"वदिति सूत्रखण्डं व्याचष्टे - अतो यथेति । न हि निखिलजगत्कारणस्येश्वरस्य वाक्पाणचक्षुरादिकतिपयवस्तुपरिच्छिन्नत्वं सम्भवति, अतस्तस्योपासनार्थत्वं संप्रतिपन्नमिति भावः । अनन्तरसूत्रशङ्कामाह - स्वयमनुन्मितस्येति ॥ 32 ॥
स्थानविशेषात्प्रकाशादिवत् ॥ 32 ॥ ॥ दृष्टान्तभूतवागादिविषयमिदं सूत्रम् ।
॥ उपपत्तेश्च ॥ 34 ॥ अनन्योपायत्वश्रवणात् प्राप्यस्यैवोपायत्त्वश्रवणादित्यर्थः । “विवृणुते तनूं “स्वा"मित्यनेन प्रपाकत्वं च गम्यते ॥ 34 ॥
॥ तथान्यप्रतिषेधात् ॥ 35 ॥ दूष्यांशं व्यञ्जयन् व्याचष्टे । यत्पुनरित्यादिना - तत्रैव- श्वेताश्वतरोपनिषदि, उपात्तवाक्यस्यान्वयमाह - यस्मादपरमिति । तस्यार्थमाह - न केनापीति । “यस्मात्” इतिपञ्चम्यन्तपदेनापरशब्दस्य अन्वये सति समाधिकनिषेधः कृतः स्यात्, परशब्दस्यान्वये सति समनिषेधो न कृतः स्यात्, तच्छानिष्टं, तथा सति परमपुरुषवेदनस्यैकस्यैवापवगर्ोपायत्वं पूर्वोक्तं न सिध्यति, समाभ्यिधिकनिषेधपरश्रुत्यन्तरविरोधश्च, अपरशब्दवैयर्थ्यं च स्यात्, परत्वेन विवक्षितरुद्रव्यतिरिक्तविषयोऽयम् अपरशब्द इति चेत् न, कार्त्स्न्ेन परत्वनिषेधे स्वतः प्राप्ते तस्यानन्यथासिद्धसङ्कोचकभावात् “ततो यदुत्तरतर” मित्या
दिवाक्यं हेत्वर्थत्वेनान्यथासिद्धमिति भावः । “न तस्येशे” इति वाक्यं जगत्कारणातिरिक्तविषयं स्यादित्यत्राह - तद्धीति । “हिरण्यगर्भः समवर्त्तताग्रे” “प्रजापतिः प्रजा असृजत” “धाता यथापूर्वमकल्पय” दित्यादिभिर्हिरण्यगर्भस्य कारणत्वप्रतिपादनात्सद्व्रह्मात्मादिशब्दैरपि स एव कारणतयोच्यते, “शम्भुराकाशमध्ये” इत्यादिभिरपि स एवोच्यते “शम्भुः स्वयंभूर्द्रुहिण” इति नैघण्टुकोक्तेरिति शङ्कायामाह - अद्भयः सम्भूत इति । अत्रैव “विद्युतः पुरुषादधी"ति पुरुषशब्दाद्विद्युद्वर्णत्वादतिदिष्टेषु “अद्भयः सम्भूतः” इत्यादिवाक्येषु लक्ष्मीपतित्वश्रवणात् “यमन्तः समुद्रे कवयो वयन्ती"ति समुद्रशायित्वश्रवणात् “तदक्षरे परमे व्योम"न्निति परमव्योमसम्बन्धाच्चावगतपरमपुरुषभावजगत्कारणप्रतिपादकप्रकरणेनैकप्रकरणम्, “हिरण्यभर्गः समवर्त्तताग्रे” इत्यादिवाक्यमपि परमपुरुषस्यैव जगत्कारणत्वमाहेत्यर्थः, अन्यथा ब्रह्मशिवयोः सृज्यत्वसंहार्यत्वश्रुतिविरोधश्च । ततो यदुत्तरतरमिति किमुच्यत इति - “यस्मात्पर"मित्यादिवाक्यस्य सङ्कोचकत्वेन परोक्तमिदं वाक्यमन्यथासिद्धमिति इममर्थं हृदि निधाय तस्यान्यथासिद्धिः कथमित्याह - किमुच्यत इति । “तस्मात्सर्वगतः शिवः” इत्यस्य पूर्वपठितं “तेनेदं पूर्णं पुरु षेण” इति वाक्य, ततः पश्चात् “महान् प्रभुर्वैपुरुषः” इति वाक्यं, तदुभयानुरोधेन सर्वाननशिरोग्रीवत्वगुहाशयत्वभगवच्छब्दाद्यनुरोधेन च वर्णनीयम्, सर्वाननशिरोग्रीवत्वादिकं हि “सहस्त्रशीर्षं देव"मित्यादिषु पुरुषोत्तमासाधारणत्वेनावगतमित्यर्थः । ततः- तस्माद्धेतोरित्यर्थः । अरूपमनामयं कर्मकृतदेहतत्कृतदुःखविरोधि, तापत्रयप्रतिभटमित्यर्थः । उपक्रमविरोधः- “नान्यः पन्था” इतिवाक्यविरोधः, “य एनं विदु"रिति वाक्यस्य परमपुरुषेतरवेदनपरत्वं हि “नान्यः पन्था” इत्यनेन विरुद्धम् । अनन्तरोक्तिविरोधश्च - “यस्मात्परं नापर"मित्यदिवाक्यविरोधश्चेत्यर्थः । परात्परमित्यादि - परात्परमित्यादिवाक्येऽपि समष्टिपुरुषात्परत्वेन परमपुरुष उच्यत इति प्रतिज्ञा, पूर्ववाक्ये समष्टिपुरुषविलक्षणतया प्रतिपाद्यत्वेन निश्चितस्यादृश्यत्वादिगुणकस्य परात्परशब्देनात्र प्रत्यभिज्ञानादित्यर्थः ॥ 35 ॥
॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ 36 ॥ पूर्वसूत्रैरधिकवस्तुवादे दूषणमुक्तम्, इह स्वपक्षे प्रमाणमुच्यते,
नियन्तृत्वेन व्याप्तिज्ञापनार्थं “नित्यं विभु"मिति श्रुतिरुपात्ता, विभु- प्रभुम्, इयं श्रुतिः परमपुरुषविषया “परात्परं पुरुषमुपैति दिव्यं” “दिव्यो ह्यमूर्तः पुरुषः” इति पुरुषविषयप्रकरणस्थत्वात्, सूत्रस्थमादिशब्दं व्याचष्टे । आदिशब्दादिति - इत्यादयो गृह्यन्त इति । आदिशब्देन व्यतिरिक्तत्वनिषेधपरवाक्यानि धारकत्वनियन्तृत्वादिपूर्वकव्याप्तिपरवाक्यानि समानाधिकरणवाक्यानि च विविक्षितानि, सर्वविद्योपास्यविशेषनिर्णयपरनारायणानुवाकेनियन्तृतया व्याप्तिः “अन्तबहि"श्चेत्यादिना, धारकत्वम् “तद्विश्चमुपजीवती"ति, शेषित्वं “पतिं विश्वस्य” इति चोक्तम्, नियमनार्थव्यापनधारणशेषित्वैः कृत्स्नप्रपञ्चशरीरकत्वं ब्रह्मणः सिद्धम् । एवमीश्वरस्य कृत्स्न प्रपञ्चशरीकत्वसिध्द्या तदधिकत्तत्त्वं नास्तीत्यधिकतत्त्वाभावे प्रमाणमुक्तं स्यात्, तत्वान्तरसद्भावे सति कृत्स्नशरीरकत्वायोगात् । किञ्च “विश्वतः परमं नित्यम्” “अन्तर्बहिश्च तत्सर्वं व्याप्य” “विश्वमेवेदं पुरुषः” इति त्रिविधपरिच्छेदराहित्यमुक्तम्, तथा च सहस्त्रशीर्षत्वादिविशिष्टपुरुषप्रतिपादकतयैतत्समानार्थे च पुरुषनारायणे “यद् भूतं यच्च भव्यम्” “स मूमिं विश्वतो वृत्वा” “पुरुष एवेदं सर्वम्” इति त्रिविधपरिच्छेदराहित्यमुक्तम्, अतश्चाधिकवस्तुनिषेधसिद्धिः- अधिकवस्तुसद्भावे सति परिच्छेदाभावायोगात्, अत ईदृशानि वाक्यान्यनुसन्धेयानीति भावः ॥
परैस्तु- सम्बन्धव्यपदेशो नाम “सता सोम्य तदा संपन्नो भवति” “प्राज्ञेनात्मना संपरिषवक्तः” इति दर्शितः । भेदव्यपदेशश्च “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” “य एषोऽन्तरक्षिणि पुरुषः” इति दर्शितः, स्थानविशेषा"दित्यादि सूत्राणि सम्बन्धभेदव्यपदेशपरिहारपराणि व्याख्यातानि,उपाधिभेदापेक्षया भेदव्यपदेशो न स्वरूपतः, भेदोपशम एव सम्बन्धे ईदृशः सम्बन्ध उपपद्यते, “स्वमपीतः” इति स्वरूपसम्बन्धश्रवणात्, “सर्वं तं परादा"दित्यादिरन्यप्रतिषेधः, अनेन सेत्वादिव्यपदेशनिराकरणे सर्वगतत्वं सिद्धं भवति, अन्यथा वस्त्वन्तराद्वयावृत्तत्वेनात्मनः परिच्छेदः स्यात्, सर्वगतत्वं चास्यायामशब्दादिभिर्ज्ञायते इति व्याचक्षते, तत्र न तावज्जगत्कारणद्व्रह्मणो विलक्षणवस्तुमात्रमिहनिषेध्यम्, किन्तूत्कृष्टं तत्त्वान्तरम्, प्रामाणिकस्य प्रधानजीवेश्वरवैलक्षण्यस्यानिषेध्यत्वात्, कार्यकारणभेदनिषेधस्य चारम्भणाधिकरणे कृतत्वात्, सेतून्मानभेदव्यपदेशादीनां कार्यकारकारणभेदसाधकत्वाभावाच्च, न हि कारणमेव स्वकार्यप्राप्त्यै सेतुरितिनियमः, सर्वगतत्वस्य सिद्धान्तहेतुतयोक्तत्वाच्च नान्यमात्रं प्रतिक्षेप्यम्, तस्य भेदसाधकत्वात्, व्याप्तिर्हि व्याप्यव्यापकभेदमवगयति, अत उत्कृष्टतत्त्वनिषेधार्थत्वे अधिकरणस्य सिद्धे सुषुप्तिवाक्यप्रतिवाक्यप्रतिपन्नस्सम्बन्धो न पूर्वपक्षबीजं भवति, कारणाद्व्रह्मणः सुषुप्तस्योत्कषर्ाभावात्, अत एवादित्यादिरूपस्थानकृतो भेदश्च न पूर्वपक्षयुक्तिः, अत एव “स्थानविशेषा"दिति सूत्रं न सम्बन्धभेदव्यपदेशपरम्, “कतम आत्मेति” “योऽयं विज्ञानमयः” इत्यादिप्रकरणे सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात् परमेश्वरो विवक्षित इति समर्थितत्वात् तन्निरासश्चानुपपन्नः “तथान्यप्रतिषेधा"दिति सूत्रं च “यस्मात्पर” मित्यादिवाक्यः विषयम्, न तु “सर्वं तं परादा"दित्यादिवाक्यविषयम्, उत्कृष्टान्यनिषेधस्यैवाधिकरणकृत्यवात्, अनेन- सेत्वादिनिर्देशनिराकरणेन अन्यप्रतिषेधाश्रवणेन च सर्वगतत्वं सिध्यति, तच्चायामशब्दादिभिः सिध्यतीति योजनायां वाक्यभेदः तच्छब्दाध्याहारश्च, सर्वगतत्वं च भेदसाधकत्वात् भवतां विरुद्धम्, न च भेदे सति वस्तुतः परिच्छेदः स्यात् तस्य भेदरूपत्वाभावात् । अन्ये तु- सम्बन्धभेदव्यपदेशौ वयमिव वर्णयन्त एव “स्थानविशेषा” दिति सूत्रमपि तयोः परिहारपरमाहुः, विकारवर्त्तिनो ब्रह्मणो बहिर्विकारमवस्थितं ब्रह्म प्रति सेतुत्वम्, “ततो यदुत्तरतर"मिति च परमाकाशवर्त्तिन ईश्वरस्य विकारस्थादीश्चरात् भेदव्यपदेश इति न स्वरूपभेद इति, उपपद्यते चैवम्- अन्यथेश्वरद्वयप्रसङ्गात् “तस्मात्सर्वगतः शिवः” इत्युक्तं सर्वगतत्वम् । अनेन सेत्वादिव्यपदेशनिर्वाहेणोपपादितं भवति, तच्च “ज्यायान् पृथिव्या” इत्यादिभिरायामशब्दादिभिः सिद्धमिति, तदपि न साधीयः- अनवछिन्नब्रह्मानुभवस्य ब्रह्मोपासनलभ्यत्वशास्त्रान्न देशभेदापेक्षं सेतुत्वं वाच्यम्, “सर्वं ह पश्यः पश्यति” “इमान्
लोकान् कामान्नीकारूप्यनुसञ्चरन्” इति हि श्रूयते, विकारावस्थितादीश्वरात्परमाकाशस्थस्योत्तरत्वमिति निर्वाहोऽप्ययुक्तः” “वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । ततो यदुत्तरतर"मिति परमाकाशस्थात् पुरुषादुत्तरत्वप्रतीतेः, अनेन- सेतुत्वादिव्यपदेन्यपरत्वकथनेन “तस्मात्सर्वगतः शिवः” इत्युत्तरवाक्यस्थ सर्वगतत्वमुपपादितं भवतीत्यप्ययुक्तम् पूर्वपक्षदृष्टया पूर्ववाक्योक्तात् कारणपुरुषात्
परत्वेऽप्युत्तरवाक्यप्रतिपाद्यस्य सर्वगतत्वे विरोधदाभावात्, अतो वाक्यान्तरसिद्धायाः कारणवस्तुनो व्याप्तेरसङ्कोच एव तत उत्कृष्टस्याभावे हेतुत्वेन विवक्षितः ॥
॥ पराधिकरणं समाप्तम् ॥