॥ उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ 26 ॥ अवान्तरसङ्गतिमाह - मूर्त्तामूर्त्तेति । अचित्प्रपञ्चस्ये - चिदचिदात्मकप्रपञ्चकथने अचित्प्रपञ्चोऽपि कथितः स्यादित्यर्थः । न त्वन्ययोगव्यवच्छेदः, सङ्गत्युपयोगित्वेनाचित्प्रपञ्चोपादानं कृतम्, न हि रूपविधिः, किन्तु निषेधार्थमनुवाद इत्यत्राह - अथात इति । तथा प्रधानक्षेत्रज्ञेत्यादिना रूपत्त्वं विवृतं भवति, ईश्वरत्वादिकथनान्नियाम्यत्वलक्षणविभूतित्वमेव रूपत्वमिति रूपत्त्वविशदीकारात्, अहिकुण्डलन्यायेन एकद्रव्यावस्थाविशेषेणेत्यर्थः, एकजातियोगस्य खण्डादिदृष्टान्ते सत्यपि प्रभाप्रभावद्दृष्टान्तोपादानं गुणप्रधानभावाभिप्रायेण, “अंशो नानाव्यपदेशा” दित्यत्र जीवब्रह्मणोरंशाशिभाव उक्तः, अत्र त्वचिद्ब्रह्मणोरिति भिदेत्यभिप्रायेण जीवस्येवेत्युक्तम्, पौनरुकत्यशङ्कानिरासार्थमाह - इह स्थाप्यमानमिति । उभयव्यपदेशात्किमचिद्वस्तुनो ब्रह्मरूपत्वमहिकुण्डलन्यायेन? उत प्रभातदाश्रययोरिवैकजातियोगेन? उत विशेषणविशेष्यभावरूपेणांशांशित्वेनेति “महानज आत्मा” इत्यादिषु ब्रह्मण्यचिद्धर्मप्रतिषेधः कृत्स्नोपादानतादि प्रतिपादनं च विशेषणविशेष्यभावेन ब्रह्मरूपत्वं प्रपञ्चस्यावगमयति नेति, न चेत्पूर्वोक्तपक्षद्वयसिद्धिः, अवगमयति चेत् - तृतीयपक्षसिद्धिः, अस्य पृथगधिकरणत्वे निदानं श्रोतव्यं, प्रकृतैतावत्त्वमित्यादेः पूर्वाधिकरणानुप्रविष्टत्वे हेतुश्च श्रोतव्यः, ततो भूय इति पदयोरर्थश्च श्रोतव्यः ॥ 26 ॥
॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ 27 ॥
॥ पूर्ववद्वा ॥ 28 ॥ पूर्ववदित्युक्ते प्रथमपक्षपरिग्रहशङ्का स्यादितितद्वयावृत्यर्थं पक्षद्वयव्यावृत्यर्थ इत्युक्तम्, उक्तदोषात् अपरिणामित्वभेदश्रुतिबाधादित्यर्थः ॥ अथेत्यादि - चिदचिदीश्वरेषु ब्रह्मणि च ब्रह्मत्वं नाम जातिः किमनुवर्तते? उत ब्रह्मैव जातिश्चिदचिदीश्वरेष्वनुवर्तत इति विकल्पः, प्रथमे पक्षे ईश्वरवाचिपदैर्जगत्सामानाधिकरण्यं न स्यात्,जातिवाचिपदैर्हि सामानाधिकरण्यं न व्यक्तिवाचिभिः, न हि स्वण्डो गौरितिवत् खण्डो मुण्ड इति सामानाधिकरण्यं, द्वितीये जगत्कारणत्वतदाधारत्वसर्वज्ञत्वादिगुणाश्रयत्वादि नोपपद्यत इत्यर्थः । सकलश्रुतिस्मृतिव्यवहारविरोध इति- अनेन शिरोद्वयेऽपि दूषणद्वयं विवक्षितम्, ब्रह्मजातियोगमात्रमिति पाठे ब्रह्मत्वं जातिरिति विकल्पशिरोऽभिप्रेतं स्यात्, ब्रह्मत्वजातियोगमात्रमिति पाठे शिरोन्तरमभिप्रेतं स्यात्, ब्रह्मापीत्यत्र भावप्रधानो निर्देशः स्यात्, पाठो निरीक्ष्यः । पूर्ववदेवेत्यादि - अपृथक्सिद्धविशेषणतयांऽशत्वं किं दृष्टमित्यत्राह - तदेवमिति ॥ 28 ॥
॥ प्रतिषेधाच्च ॥ 29 ॥ स्वरूपपरिणामाभावे कथं कारणात्कार्यस्यानन्यत्वमित्यादय उपपद्यन्त इत्यत्राह - अतः सूक्ष्मेति । ज्ञाततेत्यादीति - आदिशब्देन समानाधिकरणशब्दादिर्विवक्षितः । परे तु “न स्थानतः” इत्यादिसूत्राणि व्याचक्षाणा एवमधिकरणं वर्णयन्ति, काश्चित् “सर्वकर्मा सर्वकामः” इत्यादिश्रुतयः सविशेषलिङ्गाः, “अस्थूलम्” मित्यादयश्च निर्विशेषलिङ्गाः, तासु किमुभयलिङ्गं ब्रह्म प्रतिपत्तव्यम्? उतान्यतरलिङ्गम्, अन्यतरपरिग्रहे च किं सविशेषम्? उत निर्विशेषमिति विचारः । श्रुतिबलादुभयलिङ्गे प्राप्ते विरोधात् स्वतस्तावत्तदुभयलिङ्गत्वमयुक्तम्, पृथिव्यादिस्थानरूपोपाधितोऽपि नोभयरूपत्वं स्वतो निर्विशेषस्याग्निसंपर्काल्लौहित्यवत् सविशेषत्वोत्त्पत्तौ निर्विकारत्वश्रुतिको पात्, साकारत्वं प्रतीतिमात्रसिद्धमिति नोभयलिङ्गत्वं, अन्यतरलिङ्गपरिग्रहे निर्विशेषमेव प्रतिपत्तव्यम्, सर्वत्र “अशब्दमस्पर्श” मित्यादिषु निर्विशेषं हि ब्रह्मोपदिश्यते, भेदादिति चेदिति, ननु प्रतिविद्यं ब्रह्मणश्चतुष्पात्त्ववामनीत्वभामनीत्वत्रैलोक्यरूपवत्त्वाद्याकारभेदोपदेशादुभयलिङ्गत्वमविरुद्धमभ्युपगन्तव्यम्, अन्यथा सविशेषत्वश्रुतेनिर्विषयत्वप्रसङ्गादिति चेत्- न, मधुविद्यायां “यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषः” पश्चायमध्यात्मशरीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा" इति प्रत्युपाधिभेदमभेदवचनात् अपि च- एवमेके शाखिनो भेदनिन्दापूर्वकमभेदमामनन्ति " नेहनानास्ति किञ्चन मृत्योः स मृत्युमाप्नोति" इत्यादिष्विति । साकारनिराकारश्रुत्योः को विशेषः, येन निराकारमेव ब्रह्माङ्गीकार्यं तत्राह “अरूपव"दिति रूपादिरहितमेव ब्रह्म “अस्थूल"मित्यादिवाक्यानां निष्प्रपञ्चब्रह्मतत्त्वप्रधानत्वात्, सति विरोधे तत्प्रधानान्यतत्प्रधानेभ्यो बलीयांसीति । तर्हि साकारश्रुतेः का गतिरित्यत्राह “प्रकाशवच्चे"ति व्यापक्रोपि सूर्यादिप्रकाशोऽङ्गुल्याद्युपाधिसम्बन्धादृजुवक्रादिभावमापद्यते, एवं ब्रह्माप्युपाधिना सविशेषमिव भवति; तदुपदेशस्तयोपासनार्थ इति साकारश्रुत्यवैयर्थ्यम्, तर्हि
निष्प्रपञ्चं ब्रह्म कीदृशम्- तत्राह “आहु च” इति “स यथा सैन्धवधन” इत्यादिश्रुतिः चैतन्यमात्रं ब्रह्म विर्विशेषमाह, “दशर्यति च” इति “अथात आदेशो नेति नेति”, “अन्यदेव तद्विदितात्, न सत्तन्नासदुच्चते” इत्यन्यव्यावृत्तिमुखेन बोधनं निर्विशेषत्वगमकम्, अन्यथा स्वगतविशेषप्रतिपादनोपपत्तावितरव्यावृत्त्यसामञ्जस्यं स्यात्, विशिष्यदृष्टान्तोपादानाच्च निर्विशेषत्वमुच्यते, “अत एव चोपमा” इति “अम्बुवत्” इति मूर्त्तत्वविप्रकृष्टदेशत्वाभावान्न सूर्यादितुल्यत्वमिति शङ्का “वृद्धिह्रासभाक्त्व"मिति सर्वसारूप्ये दृष्टान्तदार्ष्टान्तिकभावोच्छेदः, अत उपाध्यन्तर्भावात् वृद्धिहासादीन् सूर्यादिवद् ब्रह्म भजते, अतो दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यमिति “दर्शनाच्च” इति पृथक् सूत्रम् पाधिष्वन्वयादन्तर्भावं दशर्यति “पुरश्चके द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षीभूत्वा परः पुरुष आविशत्” इति श्रुतिः- अतो नोभयलिङ्गम्, न च सविशेषलिङ्गमिति “प्रकृतैतावत्व"मित्यादि प्रतिषेधाच्चेत्यन्तमेकमधिकरणान्तरं वर्णयन्ति “द्वे वाव ब्रह्मण” इत्यादिश्रुतिर्विषयः, रूपद्वयं रूपवद् ब्रह्म च प्रकृतत्वाविशेषान्निषेधतीति; यद्वा ब्रह्मैव निषेधति
तस्यानुपलभ्यमानस्य निषेधे प्रमाणाविरोधादिति प्राप्ते प्रकृतं रूपद्वयं निषिध्यत, अन्यथा महता प्रबन्धेन प्रतिपादितस्य ब्रह्मणो निषेधायोगात् “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” न चानेनैव न्यायेन रूपद्वयनिषेधानुपपत्तिः- प्रतिषेधार्थं लोकसिद्धस्यानूदितत्वात्, अतो ब्रह्मपरिशिष्यते, ब्रवीति च भूयः, “न ह्येतस्मादिति नेत्यन्यत् परमस्ति” इति अन्यस्य नास्तित्वं “नेति नेती"ति वाक्यस्य ब्रह्मव्यतिरिक्तनास्तितापरत्वेन व्याख्यानरूपमिदं वाक्यम् । यद्वा निषेधरूपादादेशादन्यदादेशनं नास्तीत्यर्थः । तदा “भूयो ब्रवीती"ति सूत्रखण्डम् “अथ नामधेय"मिति वाक्यविषयम् । अस्ति चेत् ब्रह्म कस्मान्न गृह्यते अत्राह तदव्यक्तमाहहीति, “न चक्षुषा गृह्यते” इत्यादिवाक्यविषयमिदम्, गृह्यते चेत्याह “अपि संराधने” इति, संराधनं भक्तिध्यानादि ततस्तु तं पश्यति निष्कलं ध्यायमानः” “योगिनस्तं प्रपश्यन्ति” इत्यादिर्विषयः, संराध्यसंराधकभावेन जीवब्रह्मभेदप्रसङ्गव्युदासकं “प्रकाशादिव” दिति सूत्रम्, कर्मशब्दोऽङ्गुल्याद्युपाधिपरः तेन सूर्यादिप्रकाशः सविशेष इव भाति- न तु वस्तुतस्तथाभूतः, ब्रह्मणोऽपि सूयर्प्रकाशाद्यवैशेष्यं तत्तुल्यत्वम्; जीवप्राज्ञयोरभेदस्याभ्यासेन प्रतिपादनात् “अत इति” अभेदस्य
स्वाभाविकत्वात् भेदस्याविद्यकत्वादनन्तेनप्राज्ञेनैकतां गच्छति जीवः, तथा हि ब्रह्मैव भवतीत्यादिलिङ्गम्, अस्मिन्नेव संराध्यसंराधकभावे मतान्तरं स्वमतविशुद्वयर्थमुपन्यस्यति “उभयव्यपदेशा"दिति अवस्थाभेवादंशभेदाश्चाविरोधः सूत्रद्वयोक्तः “पूर्ववद्वे"ति “प्रकाशादिवच्चावैशेष्य"मिति सूत्रार्थसाम्यमर्थः, बन्धपारमार्थ्ये ज्ञानानिवर्त्यतया मोक्षास्त्रवैयर्थ्यात्,भेदस्तु लोकसिद्धोऽनूदित इति तात्पर्यम्, “प्रतिषेधाच्च” “अथात आदेशो नेति नेती"त्यादिभिः प्रपञ्चप्रतिषेधाच्च निष्प्रपञ्चब्रह्ममात्रपरिशेषणाद्यथोक्तः सिद्धान्त इति, अत्र व्रूमः सकलविशेषमिथ्यात्वमारम्भणाधिकरणसिद्धं भवताम्, यदि श्रुतिविप्रतिपत्तिशमनार्थमारम्भः- सोऽपि त्वदुदाहृतवाक्येषु संशयाभावादनुपपन्नः, न हि “सर्वकर्मा सर्वकामः” “अस्थूलमन"ण्वित्यादिविधिनिषेधानां विषयभेदेनाविरोधात् प्राबल्यदौर्बल्यसंशयः, यदि “निर्गुण"मित्यादिवाक्यैर्विरोधः तर्हि सामान्यनिषेधस्य विहितेतरविषयत्वादपच्छेदन्यायाविषयत्वाच्च न ब्रह्मगुणमिथ्यात्वमिति प्रागेवोपपादितत्वात् सिद्धान्तोऽनुपपन्नः,
“सर्वगन्धः सर्वरसः” “अगन्धमरस"मित्यादिष्वप्येकस्यैकत्र विधिनिषेधविषयत्वायोगादेव विधेयतया निषेध्यतया च प्रतिपन्नानां गन्धरसादीनाम् अर्थान्तरत्वमङ्गीकार्यम्, न च निषेधार्थं गुणानुवादः गन्धरसादीनां परमात्मधर्मत्वेन लोकप्रसिद्धयभावात्, न चोपासनार्थमारोपः- सार्वज्ञ्यादीनां स्वरूपपरवाक्यसिद्धत्वात् , उपासनप्रकरणानधीतानामप्युपासनार्थत्वे जीवब्रह्मैक्यस्याप्युपासनार्थत्वप्रसङ्गात्, प्रकरणाधीतानामपि प्रकरणस्थतामात्रेणोपासनाशेषत्वे सत्यैक्यस्यापि “आत्मेत्येवोपासीत” इत्युपासनप्रकरणस्थस्य मिथ्यात्वप्रसङ्गाच्च । किञ्च मिथ्यात्वपक्षे श्रुतिविरोधश्च न शामितस्यात्, किन्तु विरोधादन्यतराप्रामाण्यमेवोक्तं स्यात्, यथार्थ विषयत्वाभावात् । सूत्रशैलीविरुद्धश्च सिद्धान्तः “अदृश्यत्वादिगुणकः” “सुखविशिष्टाभिधानादेव च” इति अदृश्यत्वादीनामपि गुणत्वं सुखादिवाचिशब्दानां तद्विशिष्टविषयत्वं च वदन् सूत्रकारः कथं निर्विशेषत्वं सिद्धान्तयेत् । किञ्च “धर्मोक्तेः"“सर्वधर्मोपप त्तेश्चे"ति धर्मविशेषैः सार्वज्ञ्यादिभिः परमात्मत्वं प्रसाध्य कथं साधकधर्माणां मिथ्यात्वं वदेत्, न हि धूमाभावे ऽग्निवत्साधकाभावे साध्यं सिध्येत् । किञ्च सूत्रयोजनाऽपि क्लिष्टतरा, लिङ्गशब्दस्तावत् ज्ञाप्यस्वरूपातिरिक्तज्ञापकपरः प्रसिद्धः निर्विशेषत्वधर्मानभ्युपगमात्, तस्य लिङ्गशब्दवाच्यान्तर्गतत्वमयुक्तम् । किञ्च उभयलिङ्गं नेत्येतावदुक्तम्, अन्यतरपरिग्रहे सविशेषं न भवतीति त्वशाब्दं “सर्वत्र ही"त्युक्ते निर्विशेषत्वप्रतिपादनादिति चाध्याहार्यम्, सविशेषत्वप्रतिपादनादिति चाध्याहारे को निवारकः, प्रतिज्ञानुगुण्याभाव इति चेन्न, अन्यतरपरिग्रहे सविशेषमिति प्रति
ज्ञाया अध्याहर्त्तुं शक्यत्वात्, हेत्वानुगुण्याभावान्नेति चेन्न, अन्योन्याश्रयस्य स्फुटत्वात्, उपरितनसूत्रानुगुण्यं न भवत्पक्ष इिीत वक्ष्यामः । अथ स्यात्- साकारत्वमेकं लिङ्गं साकारनिराकारत्वमप्येकमिति तदुभयमुभयशब्दवाच्यमतो न द्वितीयप्रतिज्ञाध्याहारः, प्रतिज्ञानुगुणहेतुसिद्धौ च नान्योन्याश्रय इति, तदयुक्तं सूत्रास्वारस्यात्, साकारनिराकारत्वयोः परस्परविरुद्धयोरेकत्वेन निर्देशस्तावत् क्लिष्टः, द्वयोरन्यतरविवक्षायां नियामकविशेषाश्रवणेऽपि स्वेच्छया कस्यचिद्विवक्षितत्वकथनमपि क्लिष्टम्, प्रत्युपाधिभेदमतद्वचनत्वं च तदुदाहृतश्रुतौ नास्ति “तेजोमयोऽमृतमयः पुरुषः” इति तेजस्वित्वनिर्विकारत्वानन्दरूपत्वादिबहुविशेषप्रतीतेः, आत्मशब्दश्च देहप्रतिसम्बन्धिनि व्यापिनि नियन्तरि धारके शेषिणि रूढः इति सोऽपि निर्विशेषत्वविरोधी यतो निर्विशेषत्वप्रतिपादनमयुक्तम्, अत एव “अपि चैवमेके” इति सूत्रं च न भेदव्युदासकश्रुतिविषयम्, श्रुतिषु च न प्रामाणिकभेदव्युदास इत्युक्तम्, “अरूपव"दित्यत्र वच्छब्दवैयर्थ्यम्, अतत्प्रधानेभ्यस्तत्प्रधानप्राबल्यनयोऽप्यत्र निर्विषयः, साकारश्रुतीनामतत्प्रधानत्वाभावात्, तासां च तत्प्रधानत्वमनुवादत्वोपासनार्थत्वव्युदासात् तात्पर्यलिङ्गावगमाच्च स्थितम्, उपासनशेषत्वव्युदासादेव “प्रकाशवत्” इति सूत्रे भवदुक्तावैयर्थ्यमप्ययुक्तं
प्रकाशस्यौपाधिकाकारयोगे दृष्टान्तत्वादवैयर्थ्यसमर्थने दृष्टान्ततयाऽन्वयो न घटते, प्रकाशतुल्यं ब्रह्म, अतः साकारश्रुतिरौपाधिकाकारोपासनार्था, तस्मादवैयर्थ्यमिति वाक्यभेदोऽध्याहारश्च, “आह चे"ति सूत्रं च न विर्विशेषसमर्पणक्षमं विषयवाक्ये ज्ञानघनत्वावधारणस्य रसघनत्वावधारणवत् प्रामाणिकविशेषान्तरप्रतिक्षेपासमर्थत्वात्, निर्विशेषत्वप्रतिपादनायोगादेव “दशर्यति चे” ति सूत्रं च न निर्विशेषार्थश्रुतिविषयम्, श्रुतौ चान्यव्यावृत्तिमुखेन प्रतिपादनं न निर्विशेषत्वं गमयेत्, व्यावृत्तिमात्रस्य शाब्दत्वात्, स्वगतिविशेषप्रतिपादने सम्भवत्यपि “नेति नेती"त्यन्यव्यावृत्तिकथनं निविर्शेषाभिप्रायमिति चेत्- न, व्यावर्त्यभूतान्यगतविशेषविरहाभिप्रायतया तदुपपत्तौ प्रामाणिकविशेषबाधकत्वकल्पनायोगात्, अत
एव सूर्यादिदृष्टान्तोपन्यासोऽपि निर्दोषतयोपपद्यमानो न प्रामाणिकविशेषबाधकः, “अम्बुव” दित्यादिसूत्रद्वयस्य दृष्टान्तदार्ष्टान्तिकयोः सर्वथा सारूप्यशङ्का तद्व्युदासमात्रपरत्वमतिमन्दम्, तयोः सर्वधा सारूप्यविरहस्यास्त्रीबालं प्रसिद्धत्वात्, अवश्यनिरसनीयशङ्कान्तरतत्परिहारपरत्वस्य स्वारसिकत्वाच्च परोक्तार्थपरत्वमयुक्तं । “दर्शनाच्चे"ति पृथक् सूत्रं कृत्त्वा तस्य देहाद्युपाध्यन्तरानुप्रवेशदर्शनादिति व्याख्यानमप्यफलम्, व्यापकस्य परमात्मनः सर्वत्रावस्थाने “गुहां प्रविष्टा"वित्यादिषु बहुश उक्ते विप्रतिपत्त्यभावात्, “प्रकृतैतावत्त्व"मित्यादेः पृथगधिकरणत्वमप्ययुक्तं तादर्थ्याव्यवधानाभ्यां तदनुपपत्तेः, हिशब्देन पूर्वप्रतिज्ञोपपादकत्वावगमात्, “उभयलिङ्गं सर्वत्र हि” “तथा हि लिङ्ग"मिति स्वतः सूत्राणामेकोपक्रमोपसंहारत्वप्रतीतेश्च निषेध्योपस्थापकस्येतिशब्दस्य प्रकारवाचित्वात्प्रकारिणो ब्रह्मणो निषेध्यत्वशङ्का च नोदेति, ततश्च रूपद्वयं प्रतिषेध्यं चेत् त्वप्रत्ययवैयर्थ्यम् । यस्तु ब्रह्मप्रतिषेधबाधकत्वेन “प्रक्षालनाद्धि पङ्कस्ये"ति न्याय उक्तः, स रूपद्वयप्रतिषेधमपि निरुणद्धि, रूपोक्तिर्लोकसिद्धानुवाद इति न
दोष इत्यपि दुरुक्तं प्रपञ्चस्य ब्रह्मकार्यत्वतद्वयाप्यत्वतन्नियाम्यत्वतद्धार्यत्वादिमुखेन ब्रह्मरूपतायाः प्रमाणान्तरप्र सिध्द्यभावेनानुवाद्यत्वायोगात्, अतस्त्वदुक्तन्यायस्तवैव बाधकः, “न ह्येतस्मादिति नेत्यन्यत् परमस्ती"ति वाक्यं च न ब्रह्मव्यतिरिक्तं निषेधति, नापि प्रतिषेधरूपादेशादन्यदादेशनं प्रतिषेधति परान्यशब्दयोरन्यतरस्य वैयर्थ्यात्, अप्रतिषेधरूपाणां बह्रूनामुपदेशदर्शनाच्चः अत उत्कृष्टान्तरनिषेधतस्तयार्थः,वेद्यत्वमनभ्युपगच्छता अनन्तरसूत्रद्वयस्याग्राह्यत्वग्राह्यत्वपरस्याविरोधो दुर्वचः, यतो जीवब्रह्मणो र्व्याप्यव्यापकत्वादिलक्षणोऽन्योन्यभेदः शास्त्रैकगम्यो न प्रतिषेध्यः, अत एव च “प्रकाशादिवच्चे"ति सूत्रस्य च संराध्यसंराधकभावनिमित्तभेदव्युदासपरत्वमयुक्तम्, अक्षराननुगुणत्वाच्च कर्मशब्दस्याङ्गुल्याद्युपाधिवाचित्वं क्लिष्टं, कर्मण्यभ्यासािादत्यन्वयस्वारस्यं च त्यक्तम्, अभ्यासेनासकृज्जीवप्राज्ञयोरभेदः प्रतिपाद्यत इति निरङ्कुशाध्याहारसाम्राज्यं वाक्यभेदश्च, तदुभयरहितनिर्वाहे सम्भवति तदुभयाश्रयणमयुक्तं यतः पूर्वसूत्राणां त्वदुक्तार्थपरत्वानुपपत्तिः,अत एव “अतोऽनन्तेने"ति सूत्रं च न ब्रह्मणो जीवैक्यापत्तिविषयम्, लिङ्गशब्दस्य श्रुतिवाचित्वं चायुक्तं “प्रत्यक्षानुमानाभ्या"मिति श्रुतेः प्रत्यक्षशब्दनिर्दिष्टत्वात्, लिङ्गशब्दस्य चिह्नपर्यायत्वाच्च, “उभयव्यपदेशा"दिति सूत्रद्वयस्य संराध्यसंराधकभावे मतान्तरोपन्यासपरत्वमप्ययुक्तं “प्रकाशादिव"दिति सूत्रस्य तत्प्रयुक्तजीवभेदव्युदासकत्वाभावात् “प्रकाशाश्रयवद्वे"ति सूत्रं न ब्रह्मैकदेशत्वपरं “तेजस्त्वा"दिति जातियोगस्य हेतुतया प्रतिपादनात्, “प्रकाशादिव"दिति सूत्रस्य परोक्तार्थपरत्वाभावादेव “पूर्ववद्वे"ति सूत्रं च न तदर्थातिदेशपरम् । ननु “अंशो नाने"ति सूत्रस्य पादान्तरस्थतया विप्रकर्षान्न तत्परामर्श इति चेन्न, उभयव्यपदेशनिर्वहणार्थातिदेशसूत्रेण उभयनिर्वाहपरसूत्रार्थस्यैव प्रत्यभिज्ञापितत्वात्, “अल्पश्रुते"रिति चेतदुक्त"मित्यनेन हि पादान्तरस्थमपि “अर्यकौकस्त्वा"दिति सूत्रं प्रत्यभिज्ञाप्यते, एवं निर्विशेषप्रतिपादनानुपपत्तेरेव प्रतिषेधाच्चेति सूत्रमपि न भेदनिषेधपरं, किन्तु ब्रह्मण्यचिद्धर्मर्विशेषप्रतिषेधवाक्यविषयमिति युक्तम् । अपरे तु “प्रतिषेधाच्चे"त्यन्तं सूत्रगणमेकाधिकरणं कुवर्न्ति, निर्गुण
विद्यासु किं कारणात्मना निराकारं कार्यप्रपञ्चरूपेण साकारं च ब्रह्मोपास्यम्? उत निराकारमेवेति विचार्य नोभयलिङ्गमुपास्यम्, अस्थूलमिति प्रपञ्चाकारस्य निवर्त्तितत्वात्, सृष्टिवाक्यानां निराकारप्रतिपत्तावैदम्पर्य्यादिति सिद्धान्तयन्ति, “सर्वाणि च भूतानि सर्व एवात्मानः समर्पिता” इति नाभिस्थानीये ब्रह्मणि जीवानामरस्थानीयताश्रयणेन भेदमाशङ्कय परिहरति “भेदादिति चे"दिति, कारणात्मकं सल्लक्षणमेव ब्रह्मोपास्यं चेत्- न । बोधलक्षणमुपास्यं स्यादित्याशङ्कयाह “प्रकाशवच्चावैयर्थ्या"दिति, प्रकाशः- अवभासः सोऽस्यास्तीति प्रकाशवत्, सत्यज्ञानादिवाक्यावैयर्थ्यात्, भेदस्यौपाधिकत्वे दृष्टान्तः “सूर्यकादिव"दिति “प्रकाशादिवच्चावैशेष्य"मिति च तदुच्यत इति योजयन्ति, तदयुक्तं पादसङ्गत्यभावात्, विद्याविशेषेषूपास्याकारनिरूपणं हि तृतीयपादकृत्यं, नोभयलिङ्गन्निर्गुणविद्यासूपास्यमित्यध्याहारबाहुल्यं च, तत्रान्योन्याश्रयादीन्यनुपपत्त्यन्तराणि पूर्ववत्, भेदशब्दस्य साधारणत्वेऽपि स्वापाद्यवस्थानां
प्रकृतत्वादवस्थाभेदादिति व्याख्यानमुचितम्, सल्लक्षणमेवोपास्यमित्यसमर्थितत्वादेव न बोधलक्षणमिति शङ्काऽनुचिता, “आनन्दादयः प्रधानस्ये"ति ज्ञानानन्दादीनां सर्वब्रह्मविद्यास्वनुवृत्तेर्वक्ष्यमाणत्वाच्च नात्र वक्तव्यता, प्राप्स्यदर्थवचनमपि हि पुनरुक्तमिति नीतिविदः । अन्ये तु “न स्थानतः” इत्यारभ्य “प्रतिषेधाच्चे"त्येवमन्तमधिकरणचतुष्टयं वर्णयन्ति, कार्यावस्था निरूपिताः; कारणावस्था निरूप्यन्ते, उभयलिङ्गं नाम रूपात्मकं रूपं खण्डत्वादि, नाम शब्दप्रवृत्तिहेतुर्गोत्वादि, अध्यात्ममधिदैवं चासंख्येषु स्था नेष्वन्तःकरणेषु बहिश्च स्थिस्येश्वरस्य स्थानतः स्वरूपपरिणामेन वा स्वरूपभेदोऽस्ति नेति विचारः, “य एषोऽन्तरादित्ये” “य एषोऽन्तरक्षिणी"ति स्थतानभेदात्, “तावन्योन्यं प्रतिष्ठिता"विति सम्बन्धामननात् “एतान्यष्टावायतनानि अष्टौ लोका अष्टौ देव अष्टौ पुरुषाः स यस्मात् पुरुषान्निरूह्य प्रत्यूह्यात्यक्रामत् तं त्वौपनिषदं पुरुषं पृच्छामी"ति संख्यामननात् “रूपं रूपं प्रतिरूपो वभूवे"त्यादि श्रवणात् प्रलयकाल्रेपि जीवानामिव सूक्ष्यभेदोपपत्तेः “भोक्ता भोग्यं प्रेरितार"मितिवत् “एकस्तथा सर्वभूतान्तरात्मे"त्यादिष्वेकत्वव्यपदेशस्य जात्यभिप्रायत्वोपपत्तेश्चेश्वरस्य स्थानिनः स्वरूपभेदोऽस्तीति प्राप्ते नेत्युच्यते, सर्वत्र हि ब्रह्मानुकृष्य प्रतिपाद्यते “एतं ह्येव वह्वृचा महत्युक्थे मीमांसन्ते एतमग्नावध्वर्यव एतं महाव्रते छन्दोगा एतमस्यामेतं दिव्येतं वायावेतमाकाश एतमप्स्वेतमौषधीष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते” इति । ननु “येचामुष्मात् पराञ्चो लोकास्तेषां चेष्टे देवकामानां च” “ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च, “तस्यैतस्य तदेव रूपं यदमुप्यरूपं तस्योपनिषदहरित्यधिदैवतं, तस्योपनिषदहमित्यध्यात्म"मिति ऐश्वर्यनामरूपभेदात्स्वरूपभेद इति चेत् न, मधुविद्यावाक्ये प्रत्येकं प्रतिस्थानमतद्वचनात् एकत्ववचनात्, अपि चैवमेके शाखिनस्तयोः स्थानद्वयववर्तिनोः परमभेदमधींयते “यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्यु"मित्यादिना, सतीष्वप्युभयीषु श्रुतिषु हिरण्यश्मश्रुत्वादिरहितमेव परस्वरूपं तद्धि प्रधानं नित्यम्, इतरत्तु कार्यार्थमागन्तुकमिति, अतो न परमात्मनि स्वरूपभेद इति सोऽयमारम्भः कृतकरत्वनिरस्तः- अन्तर्याभ्यधिकरणेन सिद्धसाध्यत्वात् । तत्र हि “य इमं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयती"ति, तत्र तत्रावस्थितस्यैकतया पर
मात्मत्वं दर्शितम्, न च वाच्यम्- अन्तर्यामिणः परमात्मत्वमात्रं तत्र सिद्धं, न तु पृथिव्यादिष्ववस्थिस्यैकत्वमिति एकतया विना परत्वासिद्धेः, एकैकस्थानावच्छिन्नमैश्वर्यं हि जीवेष्वपि सम्भवतीति तस्येश्वरत्वानिर्णय एव स्यात्, तत्तत्स्तानावच्छिन्नैश्वर्यभेदसम्बन्धसंख्यादिहेतव इह परिहर्त्तव्या इति चेन्न, परिहारादर्शनात्, न हि तत्परिहार एषु सूत्रेषु कण्ठोक्तः, साध्यौपयिकः कृत्स्न्ोप्यर्थ आभिप्रायिको व्याख्येय इति चेत्- तर्हि तत्परिहाराः सर्वे तत्र तत्र समन्वयलक्षणाधिकरणेष्वेवाभिप्रेततया व्याख्यातव्याः, अन्यथा तेषां वाक्यानां परमात्मनि समन्वयासिद्धेः, यत्र स्वपक्षे साधकयुक्तिरेकत्वावगमरूपा प्रतीता तस्याः स्थेम्ने तत्रैव तद्विरुद्धयुक्तिपरिहारो ह्यभिप्रेतो भवितुमर्हति, यथेक्षणेनागौणेन सतः प्रधानवैलक्षण्ये साधिते दृष्टान्तोक्तेः सम्भवार्थतयाऽप्युपपत्तेरनुमानाकारताप्रतिक्षेपोऽभिप्रेतेः । आनन्दवल्लयां “स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इति पुरुषे आदित्ये चावस्थितस्यैकत्वावगमात् आदित्याख्यदेवताविशेषस्यैवानन्दमयत्वप्रत्याख्यानार्थमन्तरादित्यविद्यारम्भ इति तैरेव व्याख्यतत्त्वात्, स्थानभेदेऽपि स्थानिन एकत्वं पूर्वसिद्धं, सूत्राक्षराननुगुणता च । सूत्रे नञ्शब्दस्य किं निषेध्यं, किं नामरूपम्? उत स्वरूपभेदः? । नामरूपं चेत्- अनिषेध्यं तत्र विहितत्वात्; स्वरूपभेदश्चेत् अशाब्दत्वं, जीवावस्थाऽन्वयिनां
दोषाणां निषेध्यतयाऽध्याहारस्तु प्रकृतानुसारादुचितः, “सर्वत्र ही"त्यत्र अनुकृष्य प्रतिपादनादित्यशाब्दम् । अस्माकन्तु हेत्वंशः शाब्द एव अतद्वचनात् एकत्ववचनादिति चायुक्तं, मधुविद्यावाक्ये “यश्चाय"मिति मुहुर्निर्देशस्य यश्चायं देवदत्तः यश्चायं यज्ञदत्त इतिवद्भेदेऽप्युपपत्तेरात्मत्वव्यपदेशस्य प्रत्येकं युक्तत्वाच्च । ईश्वरैकत्वस्यासमर्थनीयत्वादेव सूत्रान्तरयोरप्यर्थोऽनुपपन्नः “प्रकाशवच्चे"त्यादिकमधिकरणान्तरं, तत्र “आदित्यवर्णं, रुक्माभं, भारूपः” इत्यादीनां बोधलक्षणपरत्वं पूर्वपक्षीकृत्यदीप्तिमत्ताप्रतिपादनं सिद्धान्तयन्ति, न तेजसि बोधत्वं न बोधे तिमितरापहत्वम् अतः सादृश्याभावाद्वैयर्थ्यं, तदभावश्चावैयर्थ्यं, तन्मात्रं तेजोमात्रं भारूप इत्युक्तम्, तेजोरूपस्य परस्य भोक्तृहृदयेऽवस्थानाभिप्राया जलसूर्याद्युपमा, दर्पणस्थानीयस्य कस्यचिदभावादम्बुवदग्रहणं, नात्र मुख्यप्रतिबिम्बभावः; जलस्थानीयमन्तःकरणं तत्र यथा भोक्तृणां वृद्धिह्रासभाकत्वं अन्तःकरण विसर्पणे हि भोचगरो विसर्पन्ति याव दणुभाव एवं परोऽपि आत्मान्तः करणेषु वृद्धिह्रासभाक्त्वं भजते, एवं दृष्टान्तदार्ष्टान्तिकसामञ्जस्यम्, दर्शनात् जीववदनुप्रवेशदर्शनं “पुरुष आविश"दिति इदमप्यन्तरादित्यज्योतिरधिकरणादिष्वीश्वरस्य दीप्तिमत्त्वस्य सिद्धतया कृतकरत्वादयुक्तम्, ईश्वरस्य स्वरूपविसर्पणे निर्विकारत्वश्रुतिवैयर्थ्यं च “प्रकृतैतावत्त्व"मित्यत्र चतुर्धा संशय्य रूपद्वयातिरिक्तं ब्रह्मेति सिद्धान्तयन्ति, तत्र ब्रह्मप्रतिषेधशङ्काऽनुपपन्नेत्युक्ता इतिशब्दस्य प्रकारवाचितया ब्रह्मोपस्थापकत्वाभावात्, रूपद्वयस्य ब्रह्मणा तादात्म्यत्म्यं निषेधतीति च न शङ्कनीयं “ब्रह्मणो रूपे” इति व्यतिरेकनिर्देशे तादात्म्यप्रसङ्गाभावात्प्रसक्तस्य हि प्रतिषेधशङ्कानिरासपरत्वं युक्तं, तादर्थ्यनैरन्तर्यादिभिरधिकरणान्तरत्वमप्ययुक्तमित्युक्तम्, एतावत्त्वं च रूपद्वयमात्रत्वं तन्निषेधेन प्रपञ्चातिरिक्तं कारणरूपमस्तीति प्रतिपाद्य इति चायुक्तं, “व्रवीति च भूयोऽपी"त्युपपादनात् , “अथ नामधेय"मिति वाक्यं ह्यत्राभिप्रतमुक्तं, प्रपञ्चानतिवर्तित्वेपि हि सत्यस्य सत्यमित्युपपद्यते, अत उक्तगुणविभूतिविशिष्टतामात्रनिषेध इति युक्तं यतो ब्रह्मनिषेधो न शङ्कयः, अत एव “तदव्यक्त"मित्यादीनि सूत्राणि सर्वगतस्यातीन्द्रियत्वादिभिरनुपलम्भनिमित्ता भावव्युदासपराणि, यथा प्रकाशः प्रकाशान्तरेण, जलं शुद्धजलेन च संसृष्टमेकीभवति एवं संराधयितुः संराध्येन अविभागश्रवणाच्च प्रपञ्चातिरिक्तब्रह्मसद्भावो खटिति ब्रह्मसाक्षात्काराभावश्च न दोषः- अभ्याससाध्यत्वात्तस्येति योजनायां “प्रकाशश्चे"ति प्रकाशशब्दस्य स्वसूत्रस्थप्रकाशशब्दसरूपार्थत्वं स्वरससिद्धं बाध्येत, यस्मादणोरप्यस्य जीवस्य संराध्येनावैशेष्यम्, अतोऽस्य “ब्रह्मणा सह सोऽश्नुते” इति सर्वकामावाप्तिराम्नायते, अणोरप्यस्यानन्त्याय स्वरूपविसर्पणे लिङ्गं “वालाग्रे"त्यादिनुतिरिति योजना चाध्याहारबाहुल्यबहिष्कृतेति स्फुटम्, प्रपञ्चातिरिक्तस्य परमात्मनो भोक्तृभोग्यवगर्योश्च कार्यकारणभावप्रकार “उभयव्यपदेशा"दित्यधिकरणे चिन्त्यते, असौ द्रव्यतदवस्थारूपेणोपादानोपादेयात्मक इत्यहिकुण्हलवदित्युक्तम्, भेदाभेदयोर्मुख्यत्वाय ः अनेनेश्वरस्य परिणामः पूर्वपक्षितः शक्तिमच्छक्तिविक्षेपरूपेणोपादानोपादेयात्मकः कार्यकारणभाव ईश्वरस्य निर्विकारत्वायेत्युक्तम्, “प्रकाशाश्रये"ति सूर्यकान्तचन्द्रकान्ततप्तायःपिण्डादीनां हि कारणानां रश्मिदहनसलिलादिनिष्पादने प्रवेशे वा न स्वरूपविकारः, तर्हि कथमभेदव्यपदेश इत्यत्राह “तेजस्त्वा"दिति, भानुमरीच्योस्तेजस्त्वेनैव सत्त्वद्रव्यत्वादिना परमात्मनो जगतश्चैकत्वमिति, अहिकुण्हलपक्षस्य अप्रतिक्षेप्यत्वायाह “पूर्ववद्वे"ति, अहिकुण्डलन्यायेन अत्यन्ताभेदो ब्रह्मापेक्षया जगतोऽभ्युपगतः, ईश्वरस्य तु निर्विकारत्वात् तस्य जगतश्च मणिप्रभयोरिव शक्तिविक्षेपरूपेणैव कार्यकारणभाव इति सिद्धान्तमाहुः, तदिदमसम्बद्धं ब्रह्मण ईश्वरातिरिक्तत्वे प्रमाणाभावात्, सकलप्रमाणन्यायविरोधाच्च, बह्वध्याहारापेक्षत्वाच्च मध्यमसूत्रस्य सूत्रकाराविवक्षितोऽयमर्थ इत्यवगम्यते । ॥ अहिकुण्डलाधिकरणं समाप्तम् ॥