॥ न स्थानतोऽपि परस्येभयलिङ्ग सर्वत्र हि ॥ 11 ॥ सङ्गतिमाह - दोषेति । प्रथमपादप्रतिपाद्यं जीवस्य सदोषत्वं, द्वितीयपादप्रतिपाद्यं हि परमात्मनो निर्दोषत्वकल्याणगुणाकरत्वे, तत्कथं स्वप्नाद्यवस्थाऽस्मिन् पादे निरूपप्यत इति चेत्, उच्यते- स्वप्नसुषुप्तिनिरूपणेन परमात्मनः स्वाप्नविचित्रार्थस्त्रष्ट्टत्त्वं सुषुप्तिस्थानत्वं चाकारद्वयं प्रतिपादितं भवतीति परमात्मगुणसिद्धेरस्मिन् पादे तन्निरूपणम्, मूर्च्छादिनिरूपणन्तु पूर्वपादे निरवकाशत्वात् सुषुप्तिनिरूपणसापेक्षत्वाच्चात्र कृतम् । आरभत इति - सूत्रकार इति शेषः । मुग्ध्युत्कान्तिषु स्थानेषु - अवस्थास्वित्यर्थः, सुषुप्त्यादिस्थानेषु स्थितस्य जीवशरीरकस्य परस्य जीवगता अपुरुषार्थाः किं प्रसज्यन्ते नेति चिन्त्यते, देहादिसम्बन्धस्यापुरुषार्थहेतुत्वं किं तद्वस्तुस्वभावप्रयुक्तम्- उत कर्माविशेषकृतमिति? किं परमात्मविषयोभयलिङ्गत्वश्रुतिरपुरुषार्थस्य वस्तुस्वभाव प्रयुक्ततां व्युदस्य कर्मनिबन्धनतामवगमयितुं प्रभवति नेति? । परस्योभयलिङ्गत्वश्रुतिः किमन्यथा सिद्धा नेति? । परस्योभयलिङ्गत्वं जीववदवस्थाभेदेने वा अतात्त्विकत्वेन वा निर्वोदुं शक्यं नेति; तत्रावस्थाभेदेन निर्वहणार्थं चिन्त्यते परस्योभयलिङ्गत्वं किं तिरोधानार्हं नेति? नामरूपव्याकरणश्रुत्यवगतं ब्राह्मणादिशब्दानां ब्रह्मपर्यन्तत्वं किं परस्य कमर्वश्यतामवगमयति नेति, अतात्त्विकत्त्वेन निर्वाहार्थमित्थं त्रेधा चिन्त्यते; जलसूर्यादिदृष्टान्तः परस्य किमध्यासमूलाविद्यादिदोषसम्बन्धमवगमयति नेति, अथात आदेशो नेति नेतीति निषेधः किं प्रकृतसर्वाकारविषयः उत सङ्कुचित इति च, ज्ञानानन्दस्वरूपत्वव्यपदेश किं परस्य सार्वज्ञ्यसत्त्यसङ्कल्पत्वादिगुणाश्रयत्वं प्रतिक्षिपति नेतीति च यदा ब्राह्मणादिशब्दानां ब्रह्मपर्यन्तत्वं परस्यकर्मवश्यताभवगमयति तदा परस्यो भयलिङ्गत्वंतिरोधानर्हमवस्थाभेदेने निर्वाह्मं स्यात्, यदा जलसूर्यादिदृष्टा
न्तः परस्याविद्यादिदोषसंसर्गज्ञापकः, यदा च नेति नेतीति निषेधः प्रकृतसर्वाकारविषयः, यदा च ज्ञानानन्दस्वरूपत्वव्यपदेशः सार्वज्ञ्यादिप्रतिक्षेपकः तदोभयलिङ्गत्वमतात्त्विकत्त्वेन निर्वोढुं शक्यं स्यात्, एवमुभयथानिर्वाहसम्भवादुभयलिङ्गत्वश्रुतिरन्यथासिद्धेत्यपुरुषार्थस्य वस्तुस्वभावप्रयुक्ततां व्युदस्य कर्मकृतत्वं व्यवस्थापयितुं सा न प्रभवतीत्यकर्मवश्यत्वेऽपि परस्य देहादिसम्बन्धादपुरुषार्थान्वयः स्यात्, यदा तु ब्राह्मणादिशब्दानां ब्रह्मपर्यन्तत्वं न परस्य कर्मवश्यत्वमवगमयति, तदा तस्योभयलिङ्गत्वं तिरोधानानर्हतयाऽवस्थाभेदेन निर्वोढुमशक्यं स्यात्, यदा जलसूर्यादिदृष्टान्तः परस्याविद्यादोषसंसर्गं न ज्ञापयति, यदा च नेति नेतीति निषेधः सङ्कुचितविषयः, यदा च ज्ञानानन्दस्वरूपत्वव्यपदेशो ज्ञातृत्त्वादिगुणाश्रयत्वं न प्रतिक्षिपति, तदा अतात्त्विकत्वेन निर्वोढुमशक्यं स्यात्, अत उभयलिङ्गत्वश्रुतेरुभयथाऽप्यन्यथासिद्धत्वाभावादपुरुषार्थस्य वस्तुस्वभावप्रयुक्ततां व्युदस्य कर्मविशेषप्रयुक्तत्वं सा व्यवस्थापयितुं प्रभवतीत्यकर्मवश्यस्य परमात्मनो देहादिष्ववस्थितस्यापि नापुरुषार्थादिदोषान्वयप्रसङ्ग इति । तत्तदवस्थ शरीर इति - तच्छब्दो जागरादिपरः जागरादिहेतुता शरीरस्यावस्था । पौनरुकत्यं शङ्कते - नन्विति । परिहरति - इत्थमिति । कर्मणां दुःखावहत्वं देहद्वारकमस्तु, ततः किमित्यत्राह - तच्चेति । द्वारभूतस्य साक्षादपुरुषार्थहेतुत्वं भवति यथा राजकोपस्य वधादिहेतुत्वेऽपि तस्य खङ्गप्रहारादिद्वारकत्वाद् द्वारभूतखङ्गप्रहारस्य वधं प्रति साक्षाद्धेतुत्वं तथेहापीति, इममर्थमभिप्रेत्याह - अपुरुषार्थत्वे न भवतीति । तदुपपादयति - इतरथेति । तस्माद् द्वारभूतदेहसम्बन्धोऽपुरुषार्थ इत्याह - अत इति । कर्मवश्यत्वादृते स्वेच्छया प्रवेशेऽप्यपुरुषार्थसम्बन्धो वस्तुस्वभावायत्तत्वादवर्जनीयः, यथाऽनन्याधीनस्य स्वयमेवासिना स्वच्छन्दतोऽपि शिरश्छेदोऽपुरुषार्थ एव तद्वदित्याह - अतस्तदिति । दृष्टान्तमाह - पूयेति । अकमर्वश्यत्वेऽपि वस्तुस्वभावायत्तापुरुषार्थसम्बन्धः स्यादेवेति पूर्वपक्षोत्थानमित्यर्थः । राद्धान्तमाह - एवं प्राप्त इति । निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वलक्षणोपेतमित्यर्थ इति - निर्दोषत्वश्रुतिवत्कल्याणगुणाकरत्वश्रुतिरपि दोषशङ्का निरासोपयोगिनि, कल्याणगुणानां दोषप्रतिपक्षरूपत्वादिति भावः ॥ 11 ॥
॥ भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ 12 ॥ उभयलिङ्गत्वश्रुतिजीर्वस्याप्यस्ति, तत्रावस्थाभेदेन हि तन्निर्वाहस्तद्वत्परमात्मनोऽपीत्यर्थः, परिहरति - तन्नेति । प्रतिपर्यायमिति - अमृतशब्दस्य सकृदुक्तिश्चेत् नित्यत्वपरत्वं स्यात्, असकृदावृत्तत्वात् प्रतिपर्यायमुक्तततद्वस्तुगतदोषविशेषसम्बन्धराहित्यमेवामृतशब्देनाभिप्रेतमित्यर्थः । जीवस्योभयलिङ्गत्वश्रुतिसद्भावेऽपि कथं तस्यापुरुषार्थसम्बन्ध इत्यत्राह - जीवस्येति । तिरोधानादेः श्रुतिसिद्धत्वाज्जीवविषयोभयलिङ्गत्वश्रुतिः सङ्कोचिता परमात्मनस्त्वनन्याधीनतिरोधानादिश्रुत्यभावात्तद्विषयोभयलिङ्गत्वश्रुतिरसङ्कुचितवृत्तिरित्यर्थः । नन्वित्यादिना चो दिते परिहरति - नैतदिति । वस्तुस्वभावायत्तत्वे सति ह्यपुरुषार्थत्वप्रसङ्गः- तदेव नास्तीत्याह - नहीति । न केवलं क्षेत्रज्ञस्यैवापुरुषार्थसम्बन्ध औपाधिकः, अचेतनस्याप्यपुरुषार्थत्वं न स्वभावप्रयुक्तमित्यपिशब्दस्य भावः । अग्न्यादिषु हेमन्तादिकालापेक्षया सुखदुःखहेतुत्वं दृष्टम्, पुरुषभेदेन एकमेव वस्तु स्वकीयत्वपरकीयत्वबुध्द्या सुखदुःखकरं दृष्टम्, यथा धान्यादिषु तद्वादित्यर्थः । वस्तुस्वभावयत्तत्वे दूषणमाह - वस्तुस्वरूपेति । ताद्रॄप्येसुखदुःखादिहेतुत्व इत्यर्थः, न ह्येकस्य विरुद्धस्वभावद्वयान्वय उपपन्न इति भावः, न केवलं सुखादिहेतुतायाः कर्मकृतत्वमुपपत्त्या कल्प्यं, कण्ठोक्तमपीत्याह - तथा चोक्तमिति । पुरुषभेदेनैकस्य वस्तुनः सुखादिहेतुत्वमाह - नरकस्वर्गेति । नरकस्वर्गसंज्ञत्वं प्राप्ताप्राप्तविवेकेन पापपुण्यकृतत्वमित्यर्थः । एकस्यैव वस्तुन एकपुरुषं प्रति कालभेदेन सुखादिहेतुत्वमाह - तदेव प्रीतय इति । तस्मात्परतन्त्रस्य जीवस्य कर्मानुगुणभगवत्सङ्कल्पायत्तोऽपुरुषार्थसम्बन्ध इत्याह - अत इति । स्वतन्त्रस्य स्वयं स्वापुरुषार्थापादानायोगादीश्वरस्येदं लीलोपकरणतया पुरुषार्थभूतमित्याह - परस्य त्विति ॥ 12 ॥
॥ अपि चैवमेके ॥ 13 ॥ पूर्वसूत्रे अनिगदव्याख्याना श्रुतिरुदाहृता, अत्र स्पष्टार्थ श्रुतिरुदाह्रियत इत्यभिप्रायेण स्वशब्देनेत्युक्तम्, द्वा सुपर्णा इत्यत्र पर्णशब्देन अप्राकृतविग्रहो ज्ञानं वाऽभिधीयते । अनन्तरसूत्रमवतारयति - अथ स्यादिति । अपुरुषार्थसम्बन्धः कर्माधीनोऽस्तु कर्मवश्यत्वं परमात्मनोऽपि सम्भवतीत्यर्थः ।
॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ 14 ॥ केनाकारेणारूपतुल्पत्वमित्यत्राह - जीवदिति । वक्ष्यमाणश्रुत्यभिप्रायेणाह - निर्वाहकत्वेन प्रधानत्वादिति । ते यदन्तरेत्यस्यार्थमाह - नामरूपेति । कार्यविशेषभुत्सया चोदयति - नन्विति । शरीरित्वेन अनुप्रवेशो हि तन्नियमनादिकार्याथ एवतत्कथं कार्यास्पर्श इत्यर्थः, यद्वा तत्तद्बुद्धिशब्दपर्यवसानं हि तत्तदनुप्रवेशकार्यम्, बुद्धिशब्दविषयत्वेन कर्मवश्यत्वं चावश्यं भावितत्कथं कार्यास्पर्श इत्यर्थः परिहरति - इत्थमिति । सुखदुःखादिकार्यविशेषस्यास्पर्श उच्यते न तु नियमनादेरित्यर्थः । तर्हि ब्राह्मणो यजेतेत्येवमादीनां कोऽर्थ इत्यत्राह - विधिनिषेधेति । यथा शुक्लशब्दस्य गुणिपर्यन्ताभिधानस्वारस्येऽपि पटस्य शुक्ल इति वाक्येऽर्थानुपपत्त्या शुक्लशब्दोधर्ममात्रपरः, तथा ब्राह्मणो यजेतेत्यादिेष्वप्यर्थानुपपत्त्या जीवमात्रपर्यन्तत्वमाश्रीयत इत्यर्थः । तथा च “यस्य पृथिवी शरीर"मित्यादिषु दृष्टमिति भावः । यद्वा ब्राह्मणादिशब्दानां ब्रह्मपर्यन्तत्वेऽपि ब्राह्मणः शुक्ल इतिवद्विशेषणमूतजीवमात्र कर्मवश्यत्वान्वयात् ब्रह्मणः सद्वारकं कर्मवश्यत्वमिति । अधिकुर्वन्ति - अधिकारस्तादर्थ्यबोधनम्, तस्मादिति सूत्रार्थमुपसंहरति, परमप्रवृतार्थेनान्वयमाह - ततश्चेति । अनन्तरसूत्रं चोद्येनावतारयति - ननु चेति । सत्यं ज्ञानमित्यार्थ गुण निषेधः- ज्ञानमात्रस्य सङ्कल्पाद्याश्रयत्वायोगात्, ज्ञातुरेव हि तदाश्रयत्वम्, श्रौतनिषेधमाह - नेति
नेतीति ॥ 14 ॥
॥ प्रकाशवच्चावैयर्थ्यात् ॥ 15 ॥ ज्ञानस्य सर्वज्ञत्वाद्ययोगः किं व्याप्त्याऽभिधीयते- तर्हि ज्ञानं कस्यचिदुगुणभूतं दृष्टमिति ब्रह्मापिकस्यचिद् गुणभूतं स्यात्, प्राधान्येन श्रुतिप्रतिपन्नत्वान्न गुणभूतमिति चेत्, तर्हि श्रुतिप्रतिपन्नत्वादेव सर्वज्ञत्वादयोऽपि स्वीक्रीयन्ताम्, व्याप्तिविरोधोऽपि नास्ति, गुणभूतज्ञानस्यैव ज्ञानाद्यनाश्रयत्वदर्शनात्, अतः सर्वमुपपन्नमिति भावः ॥ 15 ॥
॥ आह च तन्मात्रम् ॥ 16 ॥ मात्रशब्दविवक्षितमाह - नान्यदिति । इतरनिषेधव्यवच्छेदपरो मात्रशब्दः इत्यर्थः ॥ 16 ॥ एवं सूत्रद्वयेन आर्थनिषेधः परिहृतः,अथ श्रौतनिषेधमपि परिहरन्नार्थनिषेधपरिहारोपयोगिप्रमाणमुपन्यस्यति, ॥
॥ दर्शयति चाथो अपि स्मर्यते ॥ 17 ॥ वेदान्तगण इति पदेनाथोशब्दार्थ उक्तः, अथोशब्दः कार्त्स्न्यपर इत्यर्थः, “निष्कलं निष्क्रियं निरवद्य” मित्याद्युपादानेन श्रौतनिषेधः परिहृतः, गुणविशेषविधाने सति सामान्यनिषेधस्य विहितव्यतिरिक्तविषयत्वात्, गुणविशेषनिषेधे सति सामान्यनिषेधस्य तत्पर्यवसायित्वाच्च ॥ 17 ॥
॥ अत एव चोपमा सूर्यकादिवत् ॥ 18 ॥ तथाऽऽत्मैक इत्यत्रैकशब्दस्यैकस्वभाव इत्यर्थः ॥ 18 ॥ अनन्तरसूत्रमवतारयति - अत्र चोदयतीति ।
॥ अम्बुवदग्रहणात्तु न तथात्वम् ॥ 19 ॥ पृथिव्यादिषु परमार्थतः स्थित्यभ्युपगमे दार्ष्टान्तिकस्य परमात्मनो दृष्टान्ततुल्यत्वाभावात् तुल्यत्वसिद्धयर्थं पृथिव्यादिषु स्थितेरपरमार्थत्वमभ्युपेत्यमिति तात्पर्यम् ॥ 19 ॥ सिद्धान्तसूत्रमवतारयति - परिहरतीति ।
॥ वृद्धिह्रासभावत्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च ॥ 20 ॥ सर्वत्र स्थितेर परमार्थत्वे सति आकाशदृटान्तो न घटते, पारमार्थो तु जलसूर्यादिदृष्टान्तो न घटते,तस्मादुभयदृष्टान्तानुयाय्याकारो वृद्धिह्रासादिदोषाभावः स्वीकार्य इत्यर्थः । एवमित्यन्तं सूत्रांशं समञ्जसं भवतीत्यन्तेन भाष्येण योजयित्वा स्मृतिवचनस्यार्थं योजयति । घयकरकादिष्वपीत्यादिना - तर्हि जलसूर्यादिदृष्टान्तः किमर्थः- दोषाननुषङ्गे परमार्थापरमार्थयोरुभयत्राप्यनुयायी हेतुः क इत्यपेक्षायामाह - एतदुक्तं भवतीति । देशविप्रकर्षः कालविप्रकर्षः स्वभाविप्रकर्षश्चेति त्रेधा विप्रकर्षः, अत्रैकैकविप्रकर्षोऽपि दोषास्पर्शस्य हेतुः, तत्र देशविप्रकर्षस्योदाहरणं जलसूर्यादि, स्वभावविप्रकर्षस्योदाहरणम् आकाशः, तत्र देशविप्रकर्षवत् स्वभावविप्रकर्षोऽपि दोषास्पर्शहेतुरिति दर्शयितुं दृष्टान्तद्वयोपादानमित्यर्थः, दृष्टान्तद्वयेऽपि देशकालस्वभाव सन्निकर्षत्रयसमुदायाभावो दोषास्पर्शे अनुयायी - हेतुः, सन्निकर्षत्रयसमुदायो दोषसंस्पर्शहेतुः । व्याख्येयसूत्रखण्डं व्याचष्टे - दृश्यते चेति ॥ 20 ॥ अनन्तरसूत्रशङ्कामाह - अथ स्यादिति । महारजनमिति - महारजनं कुसुम्भः ।
॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ 21 ॥ भेदस्य लोकसिद्धत्वेन अनूदितत्वात् तन्निषेधो न भ्रान्तजल्पितायत इत्यत्राह - न हि ब्रह्मण इति । अतस्तन्निषेधो नोपपद्यत इत्यन्तेन सूत्रस्य हि शब्दाभिप्रेतार्थः उक्तः । प्रकृतेत्यादिसूत्रं व्याचष्टे - ये ब्रह्मण इति । इति शब्दो हि प्रकृतप्रकारपरामर्शी तत्कथमियत्तानिषेध इत्यत्राह - नेति नेति नैवं नैवमिति । उक्तप्रकारमात्रविशिष्टतया ब्रह्मण इयत्ता प्रकृता, साऽपि प्रकार एवेति सा इति शब्देन परामृश्यत इत्यर्थः । ये तु प्रकारनिषेधं सूत्रार्थमाहुः- तत्पक्षे त्वप्रत्ययो न घटते, एतावदित्येव वक्तव्यम् । स्वत्र खण्डान्तरं व्याचष्टे यतश्चेति । अनन्तरशब्देन ततश्शब्दो व्याख्यातः । भूयश्शब्देन भूयिष्ठत्वमुच्यते, सार्थसङ्गहं वाक्यमुपादत्रे- ब्रवीतिहीति । तस्यार्थमाह - अयमर्थ इति । न ह्येतस्मादित्यत्र निषेधपरत्वं प्रतीयते, न गुणपरत्वं स्वरूपस्य सत्यत्वमात्रं चेति शङ्काव्यावृत्त्यर्थम् अयमर्थ इत्यारम्भः । स्वरूपतो गुणतश्चोत्कृष्टमिति - अनेन अचेतनजीवव्यावृत्तिः, उत्कर्षानुगुणं नामधेयमाह - तस्य चेति । सूत्रार्थमुपसंहरति - अत इति । अनन्तरसूत्रमवतारयन् सङ्गतिमाह - ब्रह्मणः प्रमाणान्तरेत्यादिना । ॥ 21 ॥
॥ तदव्यक्तमाह हि ॥ 22 ॥ प्रधानपरत्वव्यावृत्त्यर्थमव्यक्तशब्दं व्याचष्टे - तदिति ॥ 22 ॥
॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ 23 ॥ भक्त्या साक्षात्करोऽस्तु ततः किं संराधनेन साक्षात्कारस्येत्यत्राह - भक्तिरूपेति ॥ 23 ॥
॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ 24 ॥ मूर्त्तामूर्त्तादिप्रपञ्चविशिष्टप्रतीतिभ्रान्तिरिति शङ्कायां सूत्रस्योत्तरखण्डं व्याचष्टे - ब्रह्मस्वरूपभूतेति । उपासनेन साक्षात्कृतत्वादेव हि प्रकाशानन्दादेः पारमार्थ्यं, न तु भ्रान्तिसिद्धत्वं तद्वन्मूर्तामूर्त्तप्रपञ्चविशिष्टतादेरप्युपासनेन साक्षात्कृतत्वात्पारमार्थ्यमित्यर्थः ॥ 24 ॥ अनन्तरसूत्रमवतारयति - उक्तमिति ।
॥ अतोऽनन्तेन तथा हि लिङ्गम् ॥ 25 ॥ पूर्वपक्षीकुर्वन्ति, तन्मते इदं सूत्रं न घटते उभयलिङ्गत्वसमर्थनेनोपसंहारात् ॥ 25॥
॥ उभयलिङ्गाधिकरणं समाप्तम् ॥ 25 ॥