॥ मुग्धेऽर्द्धसम्पत्तिः परिशेषात् ॥ 10 ॥ किं मूर्छा नाम जाग्रत्स्वप्नसुषुप्तौनामन्यतभावस्था, उतावस्थान्तरम्, किं लक्षणतो भेदोऽध्यवसितुं शक्यते नेति, अशक्यत्वे तास्वन्यतमत्वं, शक्यत्त्वे अवस्थान्तरत्वम् । सुषुप्त्यादीनामिति - आदिशब्देन जागरस्वप्नमरणावस्था गृह्यन्ते, प्रसिद्धयुपपत्तेः- मूर्छाशब्दप्रयोगोपपत्तेरित्यर्थः । उपपत्तिश्च ज्ञानलोपस्याविशेषात् । निमित्तवैरूप्यं विवृणोति - निमित्तं हीति । आदिशब्देनात्यन्तानिष्टश्रवणाद्यभिप्रेतम्, तर्हि मरणान्तगर्तेति शङ्कायामाकारवैरूप्यं विवृणोति । मरणं हीति - निमित्तवैरूप्यात् सुषुप्तिव्यावृत्तिः, आकारवैरूप्यात् मरणव्यावृत्तिः न सुषुप्तिमरणे इत्युक्तेरासन्नतया सुषुप्तिमरणयोर्धीस्थत्वात्पारिशेष्यमुक्तवान्, पश्चान्मरणान्तर्भावशङ्कायामाकारवैरूप्यं विवृतम्, सुषुप्तौ प्राणो भूयिष्ठमुपलभ्यते मूर्छायामल्पः किञ्चिदुपलभ्यते, मृतौ न किञ्चिदपि, बाह्यवायुना भूयिष्ठमाप्यायितः सुषुक्तौ मूर्च्छायां किञ्चिदाप्यायितः, अनाप्यायितस्य प्राणस्योपलम्भानर्हत्वात् ॥ अन्ये तु मूर्छेतः किं मरणाय परमात्मानमभिसम्पन्नः? उत्त स्वाप्ने तस्मिन् मिलीनः? उत प्रकारान्तरगतः? इति विचारमाचक्षते, जाग्रदादिष्वन्यतमेत्येकविचारान्तर्भावात्, पृथक्करणे फलभावाद् द्वेधा विचार उचितः । विचारस्य परमात्मपर्यन्तत्वं च विफलं पारिशेष्यहेतोः परमात्मपर्यन्तत्वे अतत्पर्यन्तत्वे चाविशेषात् ॥ 10 ॥
॥ मुग्धाधिकरणं समाप्तम् ॥