॥ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ सङ्गतिः स्फुटा, किं सुषुप्तादन्य प्रबोध उत्तिष्ठति- उत स एवेति, किं सुषुप्तौ सकलोपाधिविनिर्मोकोऽस्ति, उत नेति, किं कर्मानुस्मृतिशब्दविधयः सकलोपाधिविनिर्मोकाभावमवगमयन्ति- नेति, न गमयन्ति चेत्- सकलोपाध्यभावाद्व्रह्मणि सम्पन्न इत्यन्य उत्तिष्ठति गमयन्ति चेत्- सर्वोपाधिविनिर्मुक्तब्रह्मसम्पत्त्यभावात्स एवोत्तिष्ठतीति स्यात् । सकलोपाधिविनिर्मुक्तस्येति - अत्र “न कञ्चन पाप्मानं स्पृशति” इति श्रुतिरभिप्रेता, सता सोम्य तदा सम्पन्नो भवतीति वाक्यमभिप्रेत्य ब्रह्मणि सम्पन्नस्येत्युक्तम् । यद्यद्भवन्ति
तथा भवन्तीति - पूर्वं ये यथा भवन्ति ते तथा भवन्तीत्यर्थः । न चासाविति - अत्र विनाशमेवापीतो भवतीति वाक्ये ज्ञानसङ्कोचो विवक्षितः, एतद्वचनात्सुषुप्तस्य सर्वोपाधिविनिर्मोक्षाभावः कथमित्यत्राह - मुक्तस्येति । सुषुप्ते सर्वप्रवृत्तिशून्यत्वज्ञानसङ्कोचावभिहितौ, मुक्तस्य तु तदुभयं विपरीतमित्यर्थः, “न कंचन पाष्मानं स्पृशति” इति श्रुतेः कोऽर्थ इत्यत्राह - अत इति । ज्ञानभोगाद्यशक्त इति - आदिशब्देनानुष्ठानमुक्तम्, “न कञ्चन पाप्मानं स्पृशति” इत्यत्रानुष्ठानाशक्तिर्विवक्षिता, सुखदुःखानुभयादिकालुष्यराहित्यं, विश्रार्न्त्थं परमात्मनि सम्पत्तिः, कर्मानुष्ठानवैधुर्यं चाभिहितं न तु सर्वोपाधिविनिर्मोक्षपूर्वकब्रह्मप्राप्तिरित्यर्थः । सति सम्पत्तिर्नाम शरीरेन्द्रियाधिष्ठातृत्वादिव्यापारान्तरराहित्येन ब्रह्मणि स्थितिमात्रं विवक्षितम् सदा सति सम्पन्नत्वादात्मस्वरूपस्य । पूर्वेद्युः प्रक्रान्तस्य कर्मणोऽपरिसमाप्तस्यअपरेद्युरनुष्ठानात् स एवेति कर्मशब्दं परे सर्वे व्याचक्षते, तदयुक्तम्- अन्येनोपक्रान्तस्य रथनिर्माणदेवताप्रतिष्ठापनादेरन्यैः समापनदर्शनात्, मयेदं प्रक्रान्तमिति प्रत्यभिज्ञापूर्वकसमापनं विवक्षितं चेत्, अस्यानुस्मृतेः को भेदः, अर्थान्तरप्रत्यभिज्ञाधारत्वं, स्वविषयप्रत्यभिज्ञानं चेति वैषम्यमिति चेत्, न- अनुस्मृतिशब्देनैवोभयविधप्रतिसन्धानस्य वक्तुं शक्यत्वात्, न च गोबलीवर्द्दन्यायेन सङ्कोचः, अर्थान्तरसम्भवेनान्यथासिद्धत्वात् अनन्थासिद्धं हि सङ्कोचकम् । ननु कर्मविधयो विद्याविधयश्च विधिशब्देन वक्तुं शक्याः- अतस्तत्सङ्कोचे तवापि त्वदुक्तदोष इति चेन्न- कर्मशब्दस्य तत्फलभोगतत्त्वज्ञानाभ्यां विना कर्मक्षये विनाशस्य निर्हेतुकत्वप्रसङ्गाभिप्रायत्वात्, तस्य च विधिशब्देनाभिधातुमशक्यत्वात्, एवं सति कर्मविधिवैयर्थ्यमप्यार्थो हेतुः स्यात्, अतो विधिशब्दः पारिशेष्याद्विद्याविधिविषय इति युक्तम् । इदं निरूपणं मरणेऽपि तुल्यमित्यन्ते वदन्ति, तदयुक्तम्- शङ्काहेत्वभावात् “यत्र त्वस्य सर्वमात्मैवाभूत्” इत्यादिवाक्यस्य ब्रह्मानुभवविषयत्वान्न तेन शङ्का अनुस्मृतेःसिद्धान्तहेतुतया सूत्रितत्वात् भूमृतजातानां प्रत्यभिसन्धानाभावाच्च मरणविषयत्वानुपपत्तेः ॥9॥
॥ कर्मानुस्मृतिशब्दविध्यधिकरणं समाप्तम् ॥