॥ तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ 7 ॥ इदानीमित्यादिना सङ्गतिरुक्ताभवति, नाडीपुरितद्व्रह्माणि जीवस्य सुषुप्तौ विकल्पेन स्थानानि? उत समुच्चयेन? । किमेषां प्रासादखट्वापर्यङ्कवत्कार्यभेदोऽस्ति नेति “सत आगच्छामहे” इति ब्रह्मणः प्रबोधश्रवणं ब्रह्मणः पर्यङ्कस्थानीयतामवगमयत् किं कार्यभेदमवगमयति? नेति? । अनवगमकत्वे तुल्यकायर्तया युगपदनेकस्थानवृत्त्ययोगाच्च विकल्पः स्यात्, कायभेदावगमकत्वे तु प्रासादखट्वापर्यङ्कानामिव
कार्यभेदात् समुच्चयः स्यात्, ततश्च परमात्मनः सुषुप्तौ जीवविश्रमस्थानत्वरूपगुणनियमसिद्धिः । युगपदनेकस्थानवृत्त्यसम्भवादिति - अणुत्वादिति भावः । तदभाव इति, “यदा सुप्तः स्वप्नं न कथञ्चन पश्यति”
इति श्रुत्यनुसारात्तदभाव इति व्यपदेशः, सूत्रस्थचशब्दात् पुरीतद्विवक्षितम् । पूर्वपक्षयुक्तिव्युदासार्थमाह - न चेति । पाक्षिकेति - विकल्पश्चाष्टदोषदुष्ट इति शाबरभाष्यम्, एकैकशिरसि चत्वारो दोषा इति शिरोद्वयेऽप्यष्टौ दोषोः, दोषाश्च बाधरूपाः प्रथमं फलसाधनताप्रतिपत्तिबाधः, अनुष्ठानबाधोऽपूर्वोत्पत्तिबाधः, फलबाधश्चेत्येकैकशिरसि चत्वारो दोषोः, अत्र तु यथासम्भवं बाधः, न चतुर्विधोऽपीत्येतदभिप्रेत्य पाक्षिकबाधगर्भविकल्प इति सामान्यनिर्देशः कृतः । कार्यभेदः कथमित्यत्राह - सम्भवति चेति । सुषुप्तौ नाड्या हृदयान्निष्क्रम्य पुरीतति शयनं प्रत्यवसृप्येति श्रुतेः ॥ 7 ॥
॥ अतः प्रवोधोऽस्मात् ॥ 8 ॥ अतोऽस्मादिति पदद्वयं व्याख्येयं नाड्यादीनामेकार्थत्वाद् व्रीहियवादीनामिव विकल्प इति पूर्वपक्षयुक्तं परे वदन्ति, परम्परयैकप्रयोजनत्वे समुच्चयः स्यादिति निरपेक्षत्वाप्रतीतिरेव विवक्षितेति तैरपि वक्तव्यं, “तासु तदा भवति यदा सुक्तः स्वप्नं न कथञ्चन पश्यति । अथास्मिन् प्राण एवैकधा भवति ताभिः प्रत्यवसृप्य पुरीतति शेते” इति नाड्यादिसमुच्चयश्च श्रुत्या प्रदर्श्यत इति सिद्दान्तयुक्तिरुक्ता, तत्र नाडीनां प्रत्यवसर्पणमार्गत्त्वमात्रं प्रतिपन्नमिति तासां सुषुप्तिस्थानत्वे समुच्चयाप्रतीतेस्तदनादरः, नाडीपुरीततोर्जीवाधारत्वव्यपदेशस्तदुपाध्याधारतया, व्रह्माधारत्वं नाम व्रह्मात्मकत्वमेवेति चायुक्तं सुषुप्त्युत्क्रान्त्योर्भेदेनेति सूत्रितत्वाद्वैयधिकरण्यश्रुतीनामस्वारस्याच्च । ननु “यत्रैष एतत्सुषुप्तोऽभूत् य एष विज्ञानमयः पुरुषस्तदैषां प्राणानां विमानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते” इति “पुरितति शेते” इति च श्रुत्योः कथमविरोधः, अत्राकाशे परमात्मनीति परे, तथाऽपि हृदय इति वचः पुरीतच्छयने न विरुद्धम्, अतः आकाशशब्दवाच्यपुरीतदाख्यधर्मैक्यादविरोध इति वाच्यं हृदयवेष्टनमांसं पुरीतच्च हृदयाधारः अतो न विरोध इत्यन्ये, तच्चायुक्तं हृदयान्नाडीभिः प्रत्यवसृष्य पुरीतति शयनस्य हृदि शयनस्य च विरोधात् । अन्ये तु स्वप्ने सान्तर्यामिकः परमात्मानमुपैतीति वदन्ति, तच्चायुक्तम् - अन्तर्यामिण ईश्वराद्वयातिरिक्तस्य परमात्मनोऽप्रामाणिकत्वात् “प्राज्ञेनात्मना सम्परिष्वक्तः” इति श्रुतिविरोधाच्च अन्यत्सर्वं तुल्यम् ॥
॥ तदभावाधिकरणं समाप्तम् ॥