…
तत्र तावत् पादानुगतार्थ-तत्-सङ्गती अनुपपन्ने,
जीवत्वावस्था-निरूपणं चेत्
पाद-कृत्यं “फलम् अत” इत्य् अधिकरणासङ्गतिः।
न चेश्वरो जीवावस्था तस्य ब्रह्मणि कल्पितस्य जीवाध्यस्तत्वाभावात्।
परमात्म-निरूपणं पाद-कृत्यं चेत्
स्वाप्नार्थानां जीव-कर्तृकतया मिथ्यात्वोक्तिर् इह न सङ्गच्छते।
पूर्व-पक्षश् चानुपपन्नः, मिथ्यात्वस्य सिद्धान्तीकरणायोगात्।
मिथ्यात्वं ह्य् आरम्भणाधिकरणे कृत्स्न-प्रपञ्चस्य समर्थितं।
यदा वियदादेर् अपि मिथ्यात्व-सिद्धिस्
तदा कैमुत्य-सिद्धं स्वाप्नार्थ-मिथ्यात्वम् इत्य् अधिकरण-वैयर्थ्यम्।
वियदादीनां व्यावहारिकं सत्यत्वम् अस्ति,
स्वाप्नार्थानां तद् अपि नास्ति व्यवहार-विसंवादाद्इति वियद्-आदि-वैलक्षण्य-प्रतिपादनार्थो ऽयम् आरम्भ
इति चेन् न,
व्यवहार-विसंवादस्य
प्रबोध-समये सर्व-लोक-संप्रतिपन्नत्वाद् वैधर्म्याच् च
“न स्वपनादिवद्” इत्य्-अत्र तद्-वैषम्यस्य उक्तत्वाच् च।
श्रुति-वाक्य-कृत-सत्यत्व-शङ्का-व्युदसनार्थ आरम्भ
इति चेन् न
सूत्र-श्रुति-वाक्यासामञ्जस्यात्।
तथा हि, मिथ्यात्वं समर्थनीयं चेत्
सर्व-लोकाश्रयत्वादिभिः स्व-रस-प्रतिपन्नम् ईश्वर-स्रष्टृत्वं न बाधितव्यम्,
ईश्वर-सृष्टत्वस्य व्यावहारिक-सत्यत्व-निवृत्त्य्-अ-विरोधात्, उपासन-विशेष-प्रती-परा-वर-देवता-प्रसाद-लब्धानां स्वप्नानां ब्रह्म-दत्तोषादि-दृष्टानाम् अपि व्यावहारिक-सत्यत्व-निवृत्तेस् त्वद्-इष्टत्वात्।
व्यावहारिक-सत्यत्वाभावस् साध्यश् चेत्-
जीव-कर्तृत्वाश्रयणम् अपि विरुद्धम्,
जीव-कर्तृक-घटादीनाम् इव व्यावहारिक-सत्यत्व-प्रसङ्गात्, जीव-स्रष्टृत्वस्यान्तिम-सूत्र-द्वय-व्युदस्तत्वाच् च।
जीवस्य मुख्यं स्रष्टृत्वं व्युदस्तम्, सुखाद्यवभास-मूलादृष्ट-कर्तृत्वाद् औपचारिकं कर्तृत्वम्
इति न विरोध
इति चेत्- जीवादृष्ट-मूलानां देहेन्द्रिय-सर्गादीनाम् इव व्यावहारिक-सत्यत्व-प्रसङ्गात्।
जीवादृष्ट-मूलत्वे ऽपि देह-सर्गादीनाम् ईश्वराधीनत्वम् अस्ति
इति चेत्-
तादृशम् ईश्वराधीनत्वं स्वाप्नार्थानाम् अप्य् अस्ति
तद्-ईशनस्यासङ्कुचितत्वात्
तादधीन्यस्य भवद्-अनुमतत्वाच् च।
सर्व-देश-सर्व-काल-वर्ति-सर्व-जन्तु-दृष्ट-स्वाप्न-प्रपञ्चानां
जाग्रत्-प्रपञ्चाद् अपि महत्तरतया
तेषाम् अन्याधीनत्वे पारमैश्वर्यम् ईश्वरस्य न स्यात्।+++(4)+++
उभय-विध-प्रपञ्चस्यापि हि प्रतीति-सत्त्वम् अविशिष्टम्।
बाधस्य आशुतरत्व-विलम्बौ हि वैषम्यम्।
एवं जीवानां साक्षात् स्वप्नार्थ-कर्तृत्वाभावंस्य मिथ्यात्वानुपयुक्तस्य सूत्रितत्वाद् एव सूत्र-कारेण मिथ्यात्वस्य सिषाधयिषितत्वाभावो ऽवगम्यते।
सूचकश् च इति विरुद्ध-सूत्र-प्रणयनाच् च विरुद्धत्वं वक्ष्यामः ।
अतो यस्मिन् साध्ये सूत्राण्य् उपयुक्तानि स्युः
न त्व् अनुपयुक्तविरुद्धानि,
तद् एव साध्यं भवितुम् अर्हति।
ईश्वर-सृष्टत्वं पूर्व-पक्ष-युक्तिश् चेत् “पुत्रादयश् च” इति सूत्र-अंशो निष्फलः, पुत्रादि-स्रष्टृत्वस्य जीवेषु सम्भवत ईश्वर-साधकत्वायोगात्, माया-शब्दस्य मिथ्यात्व-वाचित्वाभावाच् चाक्षराननुगुणत्वं, सूचकश् च इति सूत्रं विरुद्धं, मिथ्यात्व-विरोधित्वाद् अर्थ-क्रियायाः, सूच्यस्यैव पारमार्थ्यं न सूचकस्येत्य् अभिप्राय
इति चेन् न, अशाब्दत्वात्,
उत्सूत्र-अभिप्राय-कल्पने च श्रुति-विरुद्ध-कल्पनायोगात्।
पराभिध्यानात् तिरोधान-निवृत्तिर् इति योजनायाम् अध्याहार-व्युत्क्रमान्वयौ स्फुटतरौ। सो ऽपि इति तिरोभाव-परामर्शश् चायुक्तः- तिरोभाव-शब्दस्य अप्रकृतत्वात्, तिरोहितम् इति निर्दिष्टे तिरोधान-रूप-धात्वर्थ-मात्रस्य तद् इति परामर्शार्हस्य स इति परामर्शायोग्यत्वाच् च। पुल्ँलिङ्ग-पदेषु प्रयुक्तेषु कस्यचिद् अर्थ उचितः परामर्शनीयः,
श्रुति-वाक्यं च निरूप्यम्।
“न भवन्ति” इति श्रुतिर् मुख्य-तद्-अनुरोधेन सृजतिर् भाक्त इति हि भवतां निर्वाहः,
सृजतेर् भक्तत्वं स्थितं,
पूर्व-वाक्यम् अपि विफलं,
लोक-प्रसिद्धत्वात् स्वाप्न-मिथ्यात्वस्य अप्राप्ते हि शास्त्रम् अर्थववत्।
अतो वैयर्थ्य-भक्तत्वाभ्यां वाक्य-द्वयम् अपि दुःस्थम् मिथ्याभूतं स्वाप्नार्थ-जातम् अनूद्य भाक्तेन सृजतिना
जीवादृष्ट-मूलत्वं प्रतिपाद्यत इति वाक्यैकत्वम्
इति चेन् न- उद्देश्य-विशेषण-भूत-मिथ्यात्वानुरोधेन उपादेय-वचन-स्वारस्य-भङ्गस्य न्याय-विदाम् अनभिमतत्वात्, उभय-मुख्यत्व-सम्भवे ऽन्यतर-अमुख्यत्वाश्रयणानुपपत्तेश् च, न च न भवन्ति इति जागरित-अनुभूतार्थाभाव-परः प्रबोधे दृश्यानां रथादीनां स्वप्न-समये विद्यमानत्वात् न च स्वप्नार्थानां प्राक्-कालीन-अभाव-परः- स्वप्न-कल्पितानां पूर्वम् अभावस्य लोक-सिद्धत्वात्, न च न भवन्ति इति स्वापन-जाग्रद्-दृष्टानाम् अन्योन्याभावोक्तिः- लोक-प्रसिद्धत्वाद् एव, अतः स्वप्नार्थानां प्रसिद्ध-रथादि-भाव-प्रतिषेधेन तद्-वैजात्यं प्रतिपाद्यते, तेन तदेकानुभाव्यत्व-तत्-तत्-काल-अवसायित्व-रूप-वैलक्षण्यम् [[उक्तं|उक्तं]] स्यात्, अतो वैलक्षण्य-विशिष्टम् ईश्वर-सृष्टत्वं प्रतिपिपादयिषितम् इति वाक्यैकत्वम् अवैयर्थ्यम् [[अभाक्तत्वं|अभक्तत्वं]] न्यायाविरोधश् च भवति, “बहिष्कुलायाद् अमृतश् चरित्वा” इति मुख्यं स्यात्, तपो-बल-सृष्टैर् देहान्तरैस् सौभरेर् इव ईश्वर-सृष्ट-देहान्तरेण ज्ञान-अधिष्ठितेन बहिर्-वृत्त्युपपत्तेः, तस्मिँश् च देहान्तरे चक्षुरादीनां विद्यमानत्वान् न दुर्निरूप-निमित्तत्वम्,
तेषां चक्षुरादीनां स्वाप्नार्थ-मात्र-ग्रहण-योग्यत्वात्,
देशान्तर-गत-विशेषान्तर-प्रश्ने प्रतिवचन-अभावोपपत्तिः देश-काल-विपर्यासश् च घटते।
स्वप्ने ईश्वर-सृष्टैस् तदेकानुभाव्यैर् आदित्य-गत्याद्युपाधि-विशेषैर् अवच्छिन्नानां दिक्-कालानां
तत्-तत्-स्वप्न-द्रष्टृ-पुरुषापेक्षया तथाभावोपपत्तेः,
जागरित-अवस्थायाम् अपि हि प्राच्यादयः प्रातरादयश् च देश-काल-विशेषा आपेक्षिका भवन्ति ।
ननु यत्र प्रबोध-समये रथो दृश्यते
तत्रैव स्वप्ने कथं गज-अवस्थां मिथ्यात्वेन विना घटत
इति चेन् न -
स्वाप्नार्थानां जाग्रद्-दृश्य-पदार्थैः प्रतिघातानर्हत्वात् ।
अनिर्वाच्यस्य गजादेर् अपि तथात्वं वक्तव्यं,
तन् निर्वाच्य-पक्षे ऽपि समानम्।
कथं मूर्त्त-द्वयस्य मिथो ऽप्रतिघातकत्वम्
इति चेत्-
वयम् अप्य् अनिर्वचनीय-वादिनं त्वाम् एव पृच्छामः- “कथम्” इति,
अर्थाभावाद् उपपन्नम् इति चेत्,
अविषय-ख्यातिः स्यात्, अपसिद्धान्तश् च।
दोष-वशाद् अनिर्वचनीयम् अर्थान्तरं जातम् इति भवतां प्रकिया अतश् चोद्य-परिहारौ समानौ।
अनिर्वचनीयत्वाद् उपपन्नम् इति चेत् निर्वचनीयत्वान् ममाप्य् उपपत्तिः।
अनिर्वचनीय-निर्वचनीययोर् मिथः प्रतिघातकत्वाभावः शुक्ति-रजतादिषु दृश्यत
इति चेत् निर्वचनीययोर् अपि मिथो ऽभिद्यातत्त्वाभावो वाय्व्-आकाशादिषु दृष्टः।
सूक्ष्मत्वाद् अप्रतिघात
इति चेत्,
स्वाप्नार्थानाम् अपि सूक्ष्मत्व-सम्भवाद् अप्रतिघातः।
मूर्त्तं चेन् मूर्त्तान्तर-प्रतिघातार्हम् इति चायुक्तम्।
मूर्त्तत्वम् असर्वगतत्वं चेत्- गुणादिषु व्यभिचारः।
न हि रूप-रसादिकं परस्परेण वा द्रव्येण वा प्रतिहन्यते।
असर्वगत-द्रव्यत्वं मूर्तत्वं चेत्- गगने व्यभिचारः।
न हि गगनं घटादिभिः प्रतिहन्यते।
गगनं चासर्वगतं वेदान्तिनाम् - आद्यन्तवत्त्वात्।
दश-गुणावरणान्तर-परिच्छिन्नत्वाच् च स्पर्शवत्त्वं मूर्त्तत्वम्
इति चेत्- तदानीम् अपि न प्रतिहन्तव्यत्व-नियमः,
गगनेन घटस्याप्रतिघातात्।
“स्पर्शवद्-द्वयं मिथः-प्रतिघाती"ति चेन् न-
वायु-आलोकयोर् व्यभिचारात्।
“रूपि-द्वयं मिथः प्रतिघाती"ति चेन् न-
सलिल-आलोकयोर् व्यभिचारात्।
आलोको ह्य् अगाध-स्वच्छ-जलेनाप्रतिघातात्
तद्-अन्तर्गतान् पदार्थान् स्वयम् अन्तर्गतः प्रकाशयति।
न ह्य् आलोकम् अनपेक्ष्य
जल-गतं वस्तु द्रष्टुं शक्यं
तमसि तद्-दर्शनाभावात्।
न चाप्य् अवयवानां विरलत्वाद् आलोक इव आलोक-प्रवेशः।
ऊर्ध्वाधर-भावेन दक्षिण-उत्तर-आदि-भावेन च संयुक्तानां द्रव्याणां जल-अवयवानां निम्न-पातितया निरुध्यमानतया द्रवतया च सच्-छिद्रत्वानुपपत्तेः। अतो रूपि-द्वयस्य मिथः प्रतिघात-नियमाभावात् स्वाप्न-गजादीनां प्रतिघातानर्हत्व-सम्भवान् न दुर्निरूपत्वम्, अतः श्रुति-न्याय-सूत्र-अक्षर-सामञ्जस्यम् अस्मत्-पक्ष एवोपपन्नम् । अपरे ऽपि ईश्वर-सृष्टत्वात् सत्यत्वं पूर्व-पक्षीकृत्य देशादिभिर् अनभव्यक्ततया मिथ्यात्वम् आहुः, तत्रापि सूत्रास्वारस्यं परेषाम् इव स्यात्, माया-मात्र-शब्दो निरालम्बन-ज्ञान-वाचीत्य् अप्य् अयुक्तं श्रुतिस्थ-रथादि-शब्दानां रथादि-ज्ञान-वाचित्वाभावात्, दुःख-प्रतिभासात् स्वाप्न-सृष्टिर् जीवस्येति चासङ्गतं- जाग्रद्-द्रष्ट-पृथिव्याद्यर्थानां च दुःख-हेतुत्व-दर्शनेन जीव-सृष्टत्व-प्रसङ्गात्, ईश्वर-सृष्टत्व-श्रुति-स्वारस्यं तु स्वाप्नार्थेष्व् अपि तुल्यम् । अन्ये तु सृजत इति स्वातन्त्र्येण जीवस्य कर्तृत्वावगमात्, स्वस्य स्वयम् एव मायया मोहनायोगात् जीवस्य सत्य-सङ्कल्पत्वाच् च, सत्या सृष्टिर् इति पूर्व-पक्षं कृत्वा स्वातन्त्र्योपदेशस्य भ्रान्ति-सिद्ध-अनुवाद-रूपत्वात्, सङ्कल्पानाविर्भावात्, सूचकत्वादिभिः, पुरुष-शब्दाच् च, परो माया-रूपेण सृजति, जीवः प्रेक्षकः, माया-रूपेण सृष्टिश् च विषय-शून्य-प्रतिभास-मात्र-सृष्टिर् इति वदन्ति । तत्र “पराभिध्यानाद्” इत्यादि-सूत्र-द्वय-योजनायाम् अस्वारस्यं पूर्ववद् अनुसन्धेयम् । श्रुतौ चानुपयोग-विरोधाभावे ऽपि माया-शब्दस्य मन्त्रौषधादिषु [[प्रयुक्तस्य|प्रयुक्तस्य]] [[निविर्षयज्ञानवाचित्वाभावाच्छ्रुतिवाक्यगतरथादिशब्दानां|निर्विषय-ज्ञान-वाचित्वाभावाच् छ्रुति-वाक्य-गत-रथादि-शब्दानां]] प्रतिभास-वाचित्वाभावाच् च तन्-मतम् अनुपपन्नम्, सूत्र-क्रमश् च यथा-भाष्यम् एव समुचितः, मिथ्यात्व-समर्थन-परत्वे ऽनुपपन्ने ऽनभिव्यक्त-स्वरूपत्व-शब्दस्यापि जीवस्य तिरोहित-स्वरूपता-परत्वे तिरोधान-विषय-सूत्र-द्वयस्य तद्-आसत्तेर् उपपन्नत्वाद् धेत्वन्तर-अभिधायिनः “सूचकश् च” इति सूत्रस्य [[तद्वयवधायकत्वादपि|तद्-व्यवधायकत्वाद् अपि]] चरम-भावित्वोपपत्तेश् च ॥ ॥
॥ सन्ध्याधिकरणं समाप्तम् ॥