06 अन्याधिष्ठिताधिकरणम्

॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ सङ्गतिं विषयं च दशर्यति । अवरोहन्त इति - अवरोहतां जीवानां व्रीहियवादिभावः किं देवमनुष्यादि भाववत्तच्छरीरकत्वमुत व्रीहियवादिसंश्लेषमात्रमिति “कपूयचरणाः” इत्यादिवत्कर्मनिर्देशाभावः किं संश्लेषमात्ररूपतामवगमति नेति अनवगमकत्वे व्रीह्यादिशरीरकत्वम्, अवगमकत्वे संश्लेषमात्रम् इति । केवलशब्दाभिप्रेतमर्थमाह - यत्र हीति । इष्टादिकर्म श्रुतं हीत्यत्राह - फलप्रदान इति । समाप्तत्वात् - यावत्सम्पातुमुषित्वेति हि वचनम्, मध्ये- प्रकरणमध्ये, कर्मान्तराभावात्- कर्मान्तरश्रवणाभावात् । यद्वा आकाशादिप्राप्तेर्मनुष्यजन्मनश्च मध्य इत्यर्थः । ननु व्रीह्यादिप्राप्तेरहेतुकत्वमयुक्तं तत्कथं कर्माभावः, सत्यं, मनुष्यादिजन्मनिमित्तं कर्मैव तदुपयोगित्वात्, व्रीह्यादिप्राप्तिहेतुः, न तु कर्मान्तरमित्याभिप्रायेण कर्मान्तराभावादित्युक्तं, न तु कर्माभावादिति, व्रीह्यादिशरीरकाश्च जीवास्तल्लवनदशायामेव अपक्रामन्ति- लवनशोषणपेषणपचनाभ्यवहाराद्यवस्थास्वनुवर्त्तमानत्वं न तच्छरीराणां जीवानाम्, किन्तु तत्संश्लिष्टानामेवेति ॥ 24 ॥

॥ अशुद्धमिति चेन्न शब्दात् ॥ अशुद्धशब्दस्याशुद्धियुक्तवाचित्वात्, पापस्य अशुद्धिरूपत्वाच्च पापमिश्रमित्युक्तम्, भाट्टोक्तं मृषावादिभिश्च तदनुरोधादुपन्यस्तम्, उत्सर्गापवादन्यायमनूद्य दूषयति । न चात्रेत्यादिना - भिन्नविषयत्वादिति । “आहवनीये जुहोती"ति वाक्येन होमत्वादाहवनीयस्य स्थानत्वं प्राप्तम्, एवमेकहोमविषयवाक्यद्वयेऽन्यतराननुष्ठानगर्मोऽन्यतरपरिग्रहविरोधोऽस्त्येव, अतस्तयोरुत्सर्गापवादभावसम्भवः । अत्र तु भिन्नविषयत्वाद्विरो

धाभावेन नोत्सर्गाषवादभाव इत्याह - अग्नीषोमीयेति । क्रतूपकारकत्वविषयमेकं वाक्यम्, अन्यत्तु प्रत्यवायफलविषयमतो न विरोधः, यथा क्षीरं पित्तोपहतस्य रक्षकं प्रमेहोपहतस्य बाधकमिति वाक्ये न विरोधः, तद्वद्यदि प्रत्यवायफलत्वतदभावपरं वाक्यद्वयं तदा विरोधः स्यात्, न तदस्ति, अतो नायमुत्सर्गापवादन्यायविषय इत्यर्थः । नन्वेवं सोमेपानेऽप्युच्छिष्टदोषः स्यात् सोमेपानविध्युच्छिनिषेधयोः क्रतूपकारकत्वप्रत्यवायकरत्वविषयतया विरोधाभावात्, नैवम्, सोमेनोछिष्टा भवन्तीत्युच्छिष्टताया एव निषिद्धत्वात्, उच्छिष्टदोषतदभावपरशास्त्रद्वयविरोधस्यावर्जनीयत्वे सति उत्सर्गापवादन्यायेन विशेषवचनप्राबल्यात् निर्दोषत्वसिद्धेः । प्राभाकरोक्तं परिहारं साङ्खयः शङ्कते - अथोच्यतेत्यादिना । दूषयति - नैवमिति । यागादौ प्रवृत्तिः फलरागादस्तु कथं हिसाया रागप्राप्तत्वमित्यत्राह - अग्नीषोमीयादिष्वपीति । हिसास्वित्यर्थः, तर्हि को विशेषो लौकिकवैदिकहिंसयोरित्यत्राह - लौकिक्यामपीति । फलसाधनभावग्राहिप्रमाणवैषम्यमेव, रागप्राप्तिस्तुल्येत्यर्थः, फलरागादृतेऽपि केषुचित्कर्मसु प्रवृत्तिर्दृश्यत इत्यत्राह - तदा नित्येष्वपीति । सर्ववर्णानामित्याद्यापस्तुम्बसूत्रं, श्रीविष्णुपुराणे च तत्तदाश्रमधर्मानुष्ठायिनां फलविशेषा उक्ताः । यद्वा प्रत्यवायपरिहारफलत्वं स्यात् तथाऽपि रागादेव प्रवृत्तिरिति भावः । तेषामप्यशुद्धियुक्तत्वं नित्यकर्मादीनामपि सम्बत्सरपश्वालम्भनादिभिरशुद्धियुक्तत्वमित्यर्थः । सिद्धान्तमाह - तन्नेति । दुःखहेतुः संज्ञपनं हिंसा स्यादित्यत्राह - अतिशयितेति । तथा च मन्त्रवर्ण इति - न केवलं स्वर्गलोकगमनेन अहिंसात्वकल्पनं, किन्तु अहिंसात्वं कण्ठोक्तं चेति भावः । अस्यार्थस्य लोकसिद्धत्वमाह - चिकित्सकञ्चेति । हिंसात्वे सति ह्युक्तदोषसम्भवः, हिसात्वाभावादेव दूरोत्सारितो दोषः । अयमेव समीचीनो दुष्प्रधर्षणः परिहारः, अतः श्येनाग्नीषोमीयवैषम्यं चेदमेव, अल्पदुःखदोऽप्यतिशयिताभ्युदयसाधको व्यापारो रक्षणम्, अनर्तोदर्को व्यापारो हिसेत्यर्थः । अन्ये तु यत्किञ्चिदपि कार्यं नियोगादेव कुर्वतां न प्रत्यवायः यथा राजशासनात्प्रवृत्तानां, श्येनादिवाक्यन्तु परहिंसायां स्वतः प्रवृत्तस्य तदुपायवोधनमात्रपरमिति वैषम्यमाहुः, तदयुक्तं, प्रायश्चित्तकाम्यपश्वलम्भनानां प्रत्यवायकरत्वप्रसङ्गात्, “अकुर्वन् विहितं कमर् निन्दितं च समाचरन् । प्रसजँश्चेन्द्रियार्थेषु प्राथिश्चित्ती भवेद् नरः” इत्यादिशास्त्रात् विहिताकरणादिनिमित्तप्रत्यवायभीतो ह्यास्तिकः प्रायश्चित्तमाकाङ्क्षति, कामी च पुत्रपश्वन्नभूत्यादिसाधने प्रवर्त्तितुमिच्छति, ततश्च शास्त्रस्योपायबोधनमात्रपरत्वं स्यादिति श्येन साम्यं दुष्परिहरम् ॥

॥ रेतःसिग्योगोऽथ॥ अनन्तरमित्यन्तेनाथशब्दो व्याख्यातः, तद्भूय एव भवति स इत्यध्याहारः, भूयः पश्चात् तद्भभवति, रेतःसिग् भवति, रेतःसिग्योगी भवतीत्यर्थः, तत्तद्भावस्यौपचारिकत्वप्रकरणविच्छिन्नमिति भावः ।

यानेश्शरीरम् ॥ योनिप्राप्तिः- योषिद्योनिप्राप्तिः - तत्रैवेति । संसारिजीवशरीरं चेत् भोगार्थमेव न चेद् भोगार्थं

तर्हि न तत्संसारिशरीरमिति भावः ॥

॥ अन्याधिष्ठिताधिकरणं समाप्तम् ॥

इति श्रीहारीतुकुलतिलकवाग्विजयसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयेन

श्रीमद्वरदाचार्यपादसेवासमधिगतभगवद्रामानुजविरचितशारीरकमीमांसाभाष्यहृदयेन

श्रीसुदशर्नुसूरिणा विलिखितायां श्रुतप्रकाशिकायां तृतीयस्याध्यायस्य प्रथमः पादः ॥