05 नातिचिराधिकरणम्

॥ नातिचिरेण विशेषात् ॥ आकाशप्राप्तीत्यादिना सङ्गतिसूचनम्, आकाशादिषुकञ्चित्कालं तिष्ठति उतानति

चिरेणं निष्क्रामतीति ब्रीह्यादिभावे दुर्न्निष्प्रपततरत्वाभिधानं किमन्यत्र नातिचिरानिष्क्रमणमवगमयति नेति? अनवगमकत्वे नियमाभावः, अवगमकत्वे नातिचिरनियमः, नातिचिरशब्देनाकाशादौ किञ्चिद्विलम्बो व्रीह्यादावतिविलम्बश्च द्योतितौ ॥ 23 ॥

॥ नातिचिराधिकरणं समाप्तम् ॥