04 तत्स्वाभाव्यापत्त्यधिकरणम्

॥ तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ 22 ॥ मार्गविषयविचारे कृते तदेकदेशविचारविषयतया पेटिकाभेदेन सङ्गत्यर्थमनुवदति । इष्टादीति अपो बिमर्त्तीत्यभ्रम्, मिह सेचन इति धातोर्मेध इति रूपं जलधारणावस्था वर्षोन्मुखोवस्या च विवक्षिता, आकाशादिभावः- आकाशादिशरीकत्वम् सादृश्यापत्तिः- आकाशात् पृथङ्निर्देशानर्हतत्संसर्गः, किमाकाशादिभावो देवमनुष्यादिभाववदाकाशादिशरीरत्वापत्तिः? उत तत्सादृश्यापत्तिमात्रमिति, किमत्र सामानाधिकरण्यं मुख्यम् उत गौणमिति मुख्यत्वापवादोऽस्ति नेति अपवादाभावे मुख्यत्वादाकाशादिहेतुत्वं स्यात्, अपवादसद्भावे सामानाधिकरण्यस्य अमुख्यत्वादाकाशादिसादृश्यापत्तिमात्रमिति भवति । अविशेषात्- प्रकरणस्थत्त्वाविशेषात् । तत्संसर्गकृतसादृश्यापत्त्यभिप्रायमिति - तत्संसर्गहेतुकभेदकस्थूलाकाराभावपरमित्यर्थः । परे तु व्यपदेशस्य मुख्यत्वादाकाशादिस्वरूपापत्तिं पूर्वपक्षीकुर्वन्ति, तदयुक्तं नित्यत्वज्ञत्वादिभिराकाशादिवैलक्षण्यस्य स्थितत्वाच्छङ्कानुपपत्तेः, अन्ये तु सर्वस्य वस्तुनो ब्रह्मानन्यतया सर्वविधपरिणामशक्तियोगादाकाशाद्यवस्थापत्तिरिति पूर्वपक्षयन्ति तदप्युक्तन्यायादयुक्तम्, पूर्वसिद्धार्थाक्षेपेणाधिकरणमुत्थितमिति चेत्, गत्यभावे हि तथा वक्तव्यम्, उक्तानाक्षेपेण सम्भवति पूर्वपक्षन्याये स एव निरसनीयः ॥ 22 ॥

॥ तत्स्वाभाव्यापत्त्यधिकरणं समाप्तम् ॥