॥ अनिष्टादिकारिणामपि च श्रुतम् ॥ 12 ॥ अवान्तरसङ्गतिमाह - केवलेति । प्रकृतिसम्बन्धतद्धेतुकर्मसम्बन्धयोरवर्जनीयत्वमुक्तम्, तत्र कर्मसम्बन्धेऽपि साधुकर्मसम्बन्धनियमो नास्तीत्युच्यत इति सङ्गतिरिति भावः । किमनिष्टादिकारिणो यमयातनामनुभूय चन्द्रमसङ्गत्वा निवर्त्तन्ते? उत
नेति,?,एकैकेचेति वाक्यं तेषां चन्द्रप्राप्तिं अवगमयति नेति किमत्र सर्वशब्दः प्रेतमात्रविषयः? उतेष्टादिकारिप्रेतविषयः? इति, किं पितृयाणगमनमनिष्टादिकारिणामपि? उतेष्टादिकारिणामेवेति? किम् “अथ य इमे ग्राम” इत्युपक्रमः पितृयाणस्येष्टादिकारिविषयतामवगमयति? नेति, किमनिष्टादिकारिणां पञ्चमाहुतिमन्तरेण पुरुषत्वसंपत्तिरस्ति? नेति । किं तृतीयस्थानमुपन्यस्योद्र्ध्वलोकासम्पूर्णवचनं तृतीयस्थानस्यपञ्चमाहुत्यनपेक्षतां पुरुषत्वनिष्पत्तेरवगमयति? नेति? यदा नावगमयति तदा पुरुषत्वसम्पत्तेः पञ्चमाहुतिसापेक्षत्वेन ये इमे ग्राम इत्युपक्रमस्य पितृयाणस्येष्टादिकारिविषयत्वानवगमकतया पितृयाणस्य सर्वसाधारणत्वादनिष्टादिकारिणामपि प्राप्तत्वात् “सर्वे गच्छन्ती"ति सर्वशब्दस्य प्रेतमात्रविषयतया ये वै केचेत्यादिवाक्येन सर्वेषां चन्द्रप्राप्त्यवगमादनिष्टादिकारिणोपि यातनानुभवादनन्तरं चन्द्रमसं गत्वा निवर्त्तन्त इति, यदा परलोकासम्पूरणवाक्यं तृतीयस्थानस्य पञ्चमाहुत्यनेपेक्षतां देहनिष्पत्तेरवगमयति तदा पुरुषत्वसम्पत्तेः पञ्चमाहुत्यनपेक्षतया य इमे ग्राम इत्युपक्रमस्यापि पितृयाणस्य इष्टादिकारिविषयत्वावगमकतया पितृयाणस्य सर्वसाधारणत्वाभावदनिष्टादिकारिणामप्राप्तत्वात् सर्वे गच्छन्तीति सर्वशब्दस्येष्टादिकारिप्रतविषयतया ये वै केचेत्यादिवाक्येन सर्वेषां चन्द्रप्राप्त्यनवगमादनिष्टादिकारिणो न चन्द्रमसं गच्छन्तीति सिध्यति, इष्टादिशब्देन इष्टापूर्त्ते उच्येते, अत्र देहारम्भस्य पञ्चमाहुत्यपेक्षारूपश्रुत्यर्थापत्तिश्चाभिप्रेता ॥ * ॥ अनन्तरसूत्रशङ्कामवतारयति - एवं तर्हीति । अविशिष्टैवगतिः स्यादिति - पापस्य निष्फलत्वं स्यादित्यर्थः।
॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ 13 ॥ संयमन इति निमित्ते सप्तमी, यमाज्ञयेत्यर्थः, अयं लोको नास्ति न पर इति- अत्रामुत्र च सुखं नास्तीत्यर्थः । तद्गतिदर्शनादित्यत्रोदाहृते वाक्ये पापफलानुभवाश्रयणाच्चोद्यं तदवस्थमिति शङ्कायामाह॥
स्मरन्ति च ॥ 14 ॥ पूर्वसूत्रे प्रकृतेष्वारोहादिषु सम्वादकस्मृतिविषयांशं दर्शयति - यमवश्यतामिति ।
॥ अपि सप्त ॥ 15 ॥ नरकविषयवचनानां प्रसिध्द्यतिशयादनुपादानम् ॥ * ॥ अनन्तरसूत्रशङ्कामाह - नन्विति । सप्तसु लोकेषु - स्थानेष्वित्यर्थः, यमसदनप्राप्तिवचनानि पुराणादिषु पठ्यन्ते- तन्निबन्धनेयं शङ्का ।
॥ तत्रापि तद्वयापारादविरोधः ॥ 16 ॥ व्यापारः प्रशासनरूप इति दर्शयति । यमाज्ञयेति - यमसदननरकप्राप्त्योः क्रमादविरोधं इत्यर्थः । पूर्वपक्षमुपसंहरति - अत इति ।
॥ विद्याकमर्णोरिति तु प्रकृतत्वात् ॥ 17 ॥ फलभोगार्थत्वादिति - सम्बन्धसामान्यविषया षष्ठी तादर्थ्यपर्यवसायिनी, तादर्थ्यं च तत्फलभोगार्थत्वं, इतिश्च हेतावित्यर्थः ॥ विद्याप्रसङ्गः किमर्थः इत्यत्राह - एतदुक्तमिति । दृष्टान्ततयेत्यर्थः आ- विद्याविषयत्वं पुण्यकमर्विषयत्वं चेति । विषयशब्देन फलं विवक्षितम्, विशिम्षन् हि विषयः, परिणेयं निर्वाह्यम् ॥ * ॥ अनन्तरसूत्रमवतारयति - नन्विति ।
॥ विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ सम्बन्धसामान्यविषया षष्ठीति - अयमत्र सौपिदान्वयक्रमः देवयानपितृयाने इति प्रथमानावचनान्तं पदमध्याहार्य्यम्, ततश्च यतो देवयानपितृयाने विद्याकर्मणोः विद्याकर्मसम्बन्धिनी विद्याकर्मार्थे इति यावत्, तादर्थ्यञ्च तत्फलानुभावार्थत्वमेव, इतिर्हेतौ, ततश्च यतो देवयानपितृयाने विद्याकमर्फलार्थे, अतो विद्याकर्मविधुरेषु न देवयानपितृयाने विद्याकर्मफलायै अतो विद्यार्मविद्युरेषु
न देवयानपितृयाने इत्यर्थः । ननु कुतो देवयानापितृयानयोर्विद्याकर्मार्थत्वमित्यत्राह - प्रकृतत्वादिति । विद्वांसमिष्टादिकारिणञ्च प्रकृत्याम्नानादित्यर्थः, यद्यपि विद्याकर्मणोरिति साध्यसाधनभावे षष्ठी, देवयानपितृयानयोः विद्याकर्मसाध्यत्वादित्यर्थाश्रयणे प्रतीतिसौकर्यं भवति, अत एव हि “देवयानपितृयानयोः विद्याविषयत्वं पुण्यविषयत्व"मिति वक्ष्यति, ततश्चोक्तक्लिष्टगतिमन्तरेणैव विवक्षितार्थस्य प्रतिपत्तिस्सुलभा, तथापि देवयानपितृयानयोः फलभूतयोः फलान्तरशेषत्वमप्यस्तीति सूचयितुं तथोक्तमिति द्रष्टव्यम् । विशिंषन् हि विषय इति पाठः समीचीनः, “विशब्दो हि विशेषार्थ सिनोतिर्बन्ध उच्यते विशेषेण सिनोतीति विषयोऽतो नियामक” इत्यभियुक्तोक्तेः, सिञ् बन्धने,कर्त्तर्युत् सृष्टोऽच्प्रत्ययः, (कतर्रि रनुः. शतृ प्रत्ययः विषिष्वन्?) यद्वा विशिंषन् इत्येतत् फलितार्थकथनम्, ननु देवयानपितृयानयोर्विद्याकमर्फलार्थत्वात् विद्याभावेन देवयानाभाववत् कर्माभावेन पितृयानाभाव इति सूत्रार्थाश्रयणमस्थानविजृम्भणम्, न हि पूर्वपक्षिणा देवयानेन पितृयानेन वा चन्द्रप्राप्तिराशङ्किता “ये वै केचास्माल्लोकात् प्रयन्ति चन्द्रसमेव ते सर्वे गच्छन्ति” इति कौषीतकीवचनानुसारेण चन्द्रप्राप्तिमात्रमाशङ्कितम् नैतस्य पितृयानप्रापकं किञ्चिदस्ति नियामकम्, येनात्र पूर्वपक्ष्यभिमतं स्यात्, अत एव आचार्यः स्वयमेव यादवमिश्रमतदूषणावसरे वक्ष्यति, “गन्तव्यैक्येपि गन्तृभेदेन मार्गनियमश्च भवति” इति, तथा घूमादिनिरपेक्षापितृलोकप्राप्तिः सम्भवति इति, अत एव देवयानस्य दृष्टान्तीकरणमप्ययुक्तम्, तदभावस्य सम्प्रतिपन्नत्वे हेत्वभावादिति चेन्न, द्वे सृती अृणवं पितृणामुत देवानामुत मर्त्यानां ताभ्गयामिदं विश्वं एतत् समेति” इति बृहदारण्यकश्रुत्यनुसारेण गतिद्वयव्यतिरिक्तगत्यन्तराभावात्, “एतेन प्रतिपद्यमानाः इमं मानवमावर्त्तं नावर्त्तन्ते” इति देवयानस्यानावृत्तिहेतुत्वात्, पितृयानेन पथा चन्द्रमसं गच्छन्तीत्येवं पूर्वपक्षीकत्तर्व्यतया भाष्यकारोक्तरीत्या विद्याकर्मणोरिति सूत्रार्थाश्रयणस्य स्थानविजृम्भणत्वा भावात् ॥17॥
॥ न तृतीये तथोपलब्धेः ॥ 18 ॥ वेत्थेत्यादि । सम्पूर्यते-प्राप्यत इत्यर्थः, कतरेण च- न केनचिदित्यर्थः, जायस्व म्रियस्य इति- ईश्वरशासनानुवत्तिर्नीत्यर्थः । जायन्ते म्रियन्ते इति वार्थः- वेदस्वातन्त्रात् जज्ञे मम्रे इति भूतार्थता वा- “पुरीमवस्कन्द लुनीहि नन्दन” मित्यादिवत् कर्मफलानुभवाश्रयतया स्थानशब्दवाच्यत्वम् । पञ्चम्यामिति - अत्यन्तायोगव्न्यवच्छेद एव- नान्ययोगव्यवच्छेद इत्यर्थः, कुत इत्यत्राह - अवधारणाश्रवणादिति ॥18॥
॥ स्मयेतेऽपि च लोके ॥ अपिशब्दसूचितमाह - पुण्यकर्मणामिति । पुण्यकर्मस्वप्ययं नियमो भज्यते, किं पुनः पापकर्मस्विति भावः, सूत्रार्थसमुच्चयपरश्चशब्द इति स्फुटत्वादनुक्तिः, लोकशब्दः प्रसिध्द्यतिशयद्योतनार्थः ॥19॥
॥ दर्शनाच्च ॥ 20 ॥ बीजत्रैविध्यं तत्कार्यभूतत्रैविध्येन श्रुतिर्विवृणोति अण्डजमिति । जीवजं- जरायुजम् उद्भिज्जशब्दार्थ एव वक्ष्यमाणसूत्रानुरोधेन विवृतः - उद्भिज्जस्वेदजयोरिति ॥ * ॥ अनन्तरसूत्रमवतारयति - नन्विति ।
॥ तृतीयशब्दाव रोधः संशोकजस्य ॥ 21 ॥ उद्भिज्जस्य पञ्चमाहुतिनिरपेक्षत्वसम्प्रतिपत्तेः, पृथिव्यूष्मजत्वायोनिजत्वपापोत्तरत्वसाम्याच्च तृतीयशब्देन सङ्ग्रहः- न तु प्रथमेन द्वितीयेन चेति भावः अधिकरणार्थमुपसंहरति ॥ अत इति ॥ * ॥ परे तु- संयमने त्वित्यादिनि सिद्धान्तसूत्राणि वर्णयन्ति तु शब्दानुरोधात् यमवश्यतास्मरणसप्तनरकस्मरणपरयोः सूत्रयोश्च साफल्यात्, ते हि चन्द्रप्राप्तिप्रतिषेधसमर्थे पूर्वपक्षविषयत्वे तु तयोस्सूत्रयर्ोन किञ्चित्प्रयोजनं, रौरवादिषु चित्रगुप्तादीनामधिष्ठातृत्वं स्मर्यमाणं यमाज्ञामूलमित्यधिष्ठातृद्वयाविरोधपरं “तत्रापि तद्वयापारादविरोधः” इति सूत्रं च व्याक्यातम्, अत्रोच्यते- विद्याकर्मणोरिति सूत्रस्थतुशब्दस्य सिद्धान्तद्योतकत्वाभावे प्रयोजनाभावात् द्वितीयसूत्रस्थतुशब्दस्य शङ्कविशेषव्यावर्त्तकतयाऽपि सफलत्वात् सूत्रपञ्चकं पूर्वपक्षविषयं भवितुमर्हतीति विद्याकर्मणोरित्यत्र तु शब्दः शङ्कामात्रव्यवच्छेदक इति चेन्न, तदसम्भवात्, विद्यया देवयाने कर्मणा पितृयाणे च पथ्यनधिकृतानां तृतीयस्थानसम्बन्धप्रतिपादनाच्च अनिष्टादिकारिणां चन्द्रप्राप्त्यभाव इति हि सूत्रार्थो व्याख्यातः, न हि तत्र व्युदसनीया काचिच्छङ्का सम्भवति, श्रुत्या सर्वेषां चन्द्रप्राप्तिशङ्का व्युदसनीयेति चेत्तर्हि पूर्वपक्ष
एवात्र तु शब्दव्युदसनीय इत्युक्तं स्यात्, द्वितीयसूत्रे तु व्युदसनीयशङ्कोपन्यस्ता । किञ्चारोहावरोहशब्दास्वारस्यं स्फुटम्, नरकेषु यामिर्यात्तना अनुभूयास्मिन् ,लोके जायमानानामुन्नतस्थानप्राप्तेस्ततोऽवरोहणस्य चाभावात् पूर्वं यमालयमारोहति ततो नरकप्राप्तिः पुनर्जन्मावधिको व्यापारोऽवरोह इति चेन्न, अनुभूयेति ल्यबन्दनिर्द्देशेनारोहावरोहयोरपि पश्चाद्भावित्वावगमात्, नरकानुभवादनन्तरं यमालयमारुह्य ततोऽवरोहन्तीति चेन्न, अश्रुतत्वात् कल्पकाभावाच्च भवतां ग्रन्थेषु तथाऽनुक्तत्वाच्च । यमप्राप्तिवाक्ये पापफलानुभवाश्रवणेन पापवैयर्थ्यचोद्यस्य तदवस्थत्वशङ्कापरिहारार्थतया “स्मरन्ति च” “अपि सप्त” इति सूत्रयोः साफल्यमित्युक्तम् । “तत्रापि तद्वयापारादविरोधः” इत्यत्र कस्याविरोध इत्याकांक्षायां नरकगमनाविरोध इति युक्तं पूर्वसूत्रोत्थापितत्वात्तद्विरोधस्य, चित्रगुप्ताद्यधिष्ठानस्याप्रकृतत्वाच्च, अन्ये तु न तृतीय इत्यतः पूवमेवाधिकरणसमाप्तिमिच्छन्त एवं वर्णयन्ति । अनिष्टादिकारिणोऽमुं लोकं धूमादिना मार्गेण गच्छन्ति नेति विषये तत्र पापफलभोगाभावात् कर्मणा विना भोगसम्भवे शास्त्रवैयर्थ्याच्च न गच्छन्तीति पूर्वः पक्षः । “द्वे सृती अृणवं पितृणामहं देवानामुत मर्त्यानां ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च” इति श्रुतेः आपितृलोकात्तेनैव मार्गेण गमनमिति सिद्धान्त इति भोगाभावव्युदासपरं द्वितीयं सूत्रमाहुः “अपि सप्त” इति सूत्रं च “मत्तो भीता यान्ति जना” इत्यादि मृत्युगीतश्लोकसप्तकविषयम्, तेषु पुण्यकर्मफलस्यापि यमाधीनत्वाम्नानाविरोधः पुण्यकर्मस्वपि पुरुषेषु यमव्यापराभ्युपगमादिति तत्रापीत्यादिसूत्रस्यार्थ इत्याहुः । यद्वा आरोगभ्राजादिसूर्यसप्तकविषयम् “अपि सप्ते"ति सूत्रं “कश्यपादुदिताः सूर्याः पापान्निध्नन्ति सर्वदा” इति पापकृतां यातयितृत्वश्रवणात् “सप्तसूर्या दिवमनुप्रविष्टाः तानन्वेति पथिनिर्दक्षिणावान्” इति तेषां पुण्यकृत्प्राप्यत्वाविरोधश्च” पुण्यकृत्स्वपि तद्वयापाराभ्युपगमादिति तदनन्तरसूत्रार्थ इति योज नान्तरं कृतं सूत्रद्वयस्य । “अथैतयोः पथोः न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनी"ति मार्गद्वयभ्रष्टानां
तृतीयस्थानप्राप्तिवचनादनिष्टादिकृतां पितृयाणप्राप्तिनर्ास्तीति शङ्कापरिहारपरं विद्याकर्मणोरिति सूत्रम्, एतयो
पथोरिति पथिन्शब्दो न मार्गद्वयपरः, तत्परत्वे हि मार्गसम्बन्धो निषिद्धो भवेत् किन्तु तत्प्राप्तिसाधनविद्याकर्मपरः, तयोः प्रकृतत्वात्, मार्गयोश्च प्रकृतत्वे सत्यपि ताभ्यां गमनस्यापुरुषतन्त्रस्य विधातुमशक्यतया तत्साधनस्यैव विधेयत्वाद्विद्याकर्मपरिभ्रंशापराधेन दुर्गतिप्रदर्शेनपरा श्रुतिरिति नात्र मार्गद्वयसम्बन्धनिषेधः, अतः पितृयाणेनानिष्टादिकारिणां यमप्राप्तिरिति वर्णितम्, न तृतीय इत्यादिकमधिकरणान्तरं तृतीयस्थानमृतानां चन्द्रविषयसर्वगमनश्रवणदेहारम्भकपञ्चमाहुत्यपेक्षाभ्यां पितृयाणप्राप्तिं पूर्वपक्षीकृत्य “जायस्व भ्रियस्वे"ति विशेषवचनानुपपत्त्यादिभिः पितृयाणगमनं नास्तीति सिद्धान्तितं, तत्र तावत् पूर्वाधिकरणस्य पूर्वपक्षराद्धान्तावनुपपन्नौ राद्धान्तस्य प्रमाणविरोधात्, यथा विद्वदधिकारस्य देवयानस्याविद्वद्विषययत्वमयुक्तम्,तथा “अथ य इमे ग्राम इष्टापूर्त्ते दत्तमित्युपासते ते धूममभिसम्भवन्ती"ति पुण्यकृदधिकारतया प्रतिपादितस्य पितृयाणस्या पुण्यकृत्से व्यत्वं ह्यनुपपन्नं “ताभ्यामिदं विश्वमेजत्समेती"ति बलादुपपन्नमिति चेत्तर्हि अत एव तृतीयस्थानमृतानामपि पितृयाणेन प्राप्तिः स्यात् विश्वशब्दासङ्कोचात्, जायस्व भ्रियस्वेत्यादिवाक्यवशात्सङ्कोच इति चेत् तर्हि पुण्यकृदधिकारतया प्रतिपादितस्य पितृयाणस्य पुण्यकृत्सेव्यत्ववाक्यबलादपुण्यकृभ्द्योऽपि सङ्कोच आश्रीयताम् , यमसदनस्य पितृलोकैकदेशत्वात्पितृलोकप्राप्त्यन्यथाऽनुपपत्त्या धूमादिप्राप्तिरपुण्यकृतां कल्प्येति चेत्तर्हि तृतीयस्थानमृतानां शरीरग्रहणान्यथानुपपत्त्या चन्द्रपर्यन्तधूमादिमार्गप्राप्तिः कल्प्यतां तत्र वचनविरोधाद्देह ग्रहणस्य पञ्चमाहुतिनैरपेक्ष्यं चेत् पुण्यकृदधिकारवचनविरोधादेव यमसदनप्राप्तेर्धूमादिमार्गनैरपेक्ष्यं कल्प्यतां गन्तव्यैक्येऽपि गन्तृभेदेन मार्गा-नियमश्च सम्भवति, यथा चन्द्रप्राप्तिर्विर्दुषां देवयानापेक्षा, अविदुषां तन्निरपेक्षा, एवं यमसदनप्राप्तिरपि पुण्य- कृतां धूमादिसापेक्षा, अपुण्यकृतान्तु तन्निरपेक्षेति युज्यते, अत एव पूर्वपक्षवर्णनं चातिमन्दम्, अत एव संय- मने त्वित्यादिसूत्राणि न भोगाभावव्युदासपराणि, किन्तु पूर्वपक्षे पुण्यापुण्यकृतां गत्यविशेषशङ्काव्युदासपराणि भवितुमर्हन्ति, अत एव “अपि सप्ते"ति सूत्रस्य मृत्युगीत श्लोकसप्तकविषयत्वमयुक्तम्, कर्मवश्यानां मर्त्यानां यमवश्यत्वे संशयाभावात्, पापिनां दुःखभोक्तृत्वे संशयाभावादारोगभ्राजादिसप्तसूर्यविषयत्वं चायुक्तम्, अतः पुण्यापुण्यकृतां स्थानतोऽपि फलवैषम्यपरत्वमेव युक्तम् । अथैतयोः पथोरिति वाक्ये च पथिञ्शब्दस्यविद्या-कर्मविषयत्वादपि देवयानपितृयाणविषयत्वं युक्तं मुख्यत्वात्, मार्गवाचिशब्दस्यानुष्ठानविशेषविषयत्वं हि गौणं, मुक्ये सम्भवति, च तदन्याय्यम्, पुरुषतन्त्रत्वाद्विद्याकर्मणी एव विधेये इति चेत्, सत्यं तयोः पुरुषतन्त्रत्वन्त-द्विधानपरत्वं पथिञ्शब्दस्य मुख्यत्वेऽप्युपपद्यते विद्याकर्मफलभूतमार्गभ्रष्टानां दुर्गतिसङ्कीर्त्तनस्य विद्याकर्मविदा-नौपयिकत्वात् यतः “विद्याकर्मणोरिति त्वि"ति सूत्रेणापुण्यकृतां धूमादिप्राप्तिर्विनिवारिता, अत एव तृतीयस्थान-मृृतानां चन्द्रप्राप्तिशङ्का दूरादपास्तेति नाधिकरणं पृथग्वर्णनीयम् । अत एव न तृतीय इत्यादिसूत्राणां पूर्वप्रकृतसाध्योपपादकतया ऐकाधिकरण्यमेव युक्तम् ॥ * ॥
॥ अनिष्टादिकार्यधिकरणं समाप्तम् ॥