02 कृतात्ययाधिकरणम्

॥ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ 8 ॥ विषयसिद्ध्यर्थमवान्तरसङ्गत्यर्थं चाह - केवलेति । यावत्संसारं प्रकृतिसम्बन्धोऽवर्जनीय इत्युक्तं तद्धेतुकर्मसम्बन्धोऽप्यवर्जनीय इत्युच्यत इति सङ्गतिरित्यर्थः । अमुष्माल्लोकान्निवर्त्तमानः किं सानुशयो निवर्त्तने? उत निरनुशय? इति चिन्ता । यावत्सम्पातं प्राप्यान्तमिति च वाक्यं किं सानुशयस्य निवत्तर्नं निरुणद्धि नेति? सम्पातकर्मशब्दौ किं कर्ममात्रपरौ? उत फलदानप्रवृत्तकर्मपरौ? किं

“तद्य इह रमणीयचरणाः” इत्यादिवाक्यं सम्पातादिशब्दस्य फलप्रदानप्रवृत्तकर्मपरतामवगमयति नेति? किमत्र

चरणशब्दः आचारपरः? उत सुकृतदुष्कृतपर? इति, यदा स आचापरः, तदा तेन वाक्येन सम्पातादिशब्दस्य फलदानप्रवृत्तकर्मपरत्वानवगमाद्यावत्सम्पातमित्यादिवाक्यस्य सानुशयनिवर्त्तनविरोधितया निरनुशयो निवर्त्तत इति स्यात्, यदा चरणशब्दः सुकृतदुष्कृतपरः तदा “तद्य इह रमणीयचरणाः” इत्यादिवाक्यैकार्थ्येन सम्पातादिशब्दस्य फलदानप्रवृत्तकर्मपरत्वावगमाद्यावत्सम्पातमित्यादिवाक्यस्य सानुशयनिवर्त्तनाविरोधिकया सानुशयो निवर्त्तत इति सिध्द्यति कृतात्ययेकृतस्य कर्मणोऽनुभवेन विनाश इत्यर्थः । अनुशयशब्दं व्याचष्टे - अनुशयो हीति । तच्चेति - तच्छब्दः कर्ममात्रपरः । यद्वा - नावशिष्यते । अवशिष्टं कर्म न सम्भवतीत्यर्थः । यावत्सम्पातमित्यस्य यावत्पतनमुषित्वेत्यर्थश्चेत् वाक्यवैयथ्यर्मित्यभिप्रायेणाह - सम्पतन्तीति । एवं प्राप्त इत्यादि - दृष्टशब्देन प्रत्यक्षश्रुतिर्विवक्षिता, अभ्याश इति पदं दिश इतिवत्प्रथमाबहुवचनम्, अभ्याङ्पूर्वादशूङ् व्याप्ताविति धातोरेवं रूपं भवति, य इहाभ्याशः- अभ्यागन्तारः- ते रमणीयचरणाः यत्- साधुकर्मकारिणो यदि- ते रमणीयां योनिमापद्येरन्नित्यर्थः । एवमुत्तरत्र द्रष्टव्यम् । अभ्याश इति पदं प्रत्यवरूढवाचि - स्मृतिरपीति । गौतमापस्तम्बवनचमुदाहृतम् - यावत्सम्पातमिति फलदानप्रवृत्तकर्मविशेषविषयमिति । अत्र किं स्वर्गकामनयाऽनुष्ठितस्यैव

कर्मण एकदेशः फलदानाप्रवृत्तोऽप्यस्तीति सोऽनुशय इति फलदानप्रवृत्तशब्देन तद्वयवछेदः? उत स्वर्गार्थकर्मव्यतिरिक्तमैहिकफलं कर्मान्तरमप्रवृत्तफलमनुशय इति तद्वयवच्छेदो विवक्षितः, उच्यते- कर्मान्तरमनुशयः, न तु स्वर्गार्थकर्मण एकदेश इति, फलदानप्रवृत्तकर्मविशेषविषयमिति हि भाष्यं न तु कर्माम्शावषयमिति, वक्ष्यति च इष्टादेः कर्मणः स्वर्गोपभोगादेव समाप्तत्वादिति, स्वर्गार्थमैकदेशस्य तत्राभुक्तत्वं च “स्वर्गकामो यजेते"ति श्रुतिस्वारस्य विरुद्धम्, यत्र तु स्वर्गनरकाद्युपभुक्तकर्मशेषेण योन्यन्तरप्राप्तिर्वजनसिद्धा, तत्रोनेकशरीरारम्भफलकत्वमेकस्य कर्मण इति वचनबलादवगन्तव्यम्, तस्मादामुष्मिके कर्मजात उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयः- तद्वन्तराऽवरोहन्तीति श्रुत्यर्थापत्तिमाह - अभुक्तेति । पुण्यकर्मणो मुमुक्ष्वपेक्षया पापस्थानीयस्य प्रायाश्चित्तं ब्रह्मविद्या, यथेतं- यथागतम्, इण् गताविति धातुः, यथेतमनेवमिति पदद्वयस्यार्थमाह - आरोहणेति । ननु यथेतमिति व्याहतम् आरोहावरोहयोः क्रमवैपरीत्यात्, प्रतिलोमक्रमे यथेतमिति विवक्षितेऽप्यनेवमिति व्याहतमित्यत्राह - आरोहणं हीति ॥ 8 ॥

॥ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॥ 9 ॥ वेदेचेति - पृथङ्निर्देशो भिन्नार्थत्वकृत इत्यर्थः । अनवद्यानि कर्माणीति यागाद्युच्यते “यान्यस्माकं सुचरितानी” त्याचार उच्यत इति पूर्वपक्षिणोऽभिप्रायः ॥ पुण्यापापरपूकर्मफले इति - आचाराङ्गकानुष्ठितपुण्यापुण्यफले इत्यर्थः ॥ 9 ॥

॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ 10 ॥ एतत्सूत्रार्थं पूर्वसूत्रार्थेन सङ्गमयति - अत इति ॥10॥

॥ सुकृतदुष्कृते एवेति तु वादरिः ॥ 11 ॥ आचारशब्दस्य साधारण्यं दर्शयति । कर्मणीति - कर्मणि चरतेः प्रयोगात्- कर्मानुष्ठाने प्रयोगादित्यर्थः । पृथङ्निर्देशस्यान्यथासिद्धिमाह - पृथङ्निर्देशस्य चेति । “अनवद्यानि कमर्ाणीति” प्रत्यक्षश्रुतिसिद्धं कर्मोक्तम्, अस्माकं सुचरितानीत्याचारानुमितश्रुतिसिद्धं कर्मोक्तमित्यर्थः । कार्ष्णाजिनिमताद्वैषम्यमाह - मुख्य इति । कार्ष्णाजिनिमते स्वीकृतांशमाह - आचारानुमितेति । अधिकरणार्थमुपसंहरति - अत इति ॥

॥ कृतात्ययाधिकरणं समाप्तम् ॥