तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्रननिरूपणाभ्याम् ॥ 1 ॥ उत्तरद्विकसङ्गत्यर्थं पूर्वद्विकार्थमाह - अतिक्रान्तेत्यादिना । इत्ययमर्थ इत्यस्मात्पूर्वं प्रथमाध्यायार्थस्सङ्क्षिप्तः, निखिलेत्यादिविशेषणानां पूर्ववदर्थः, द्वितीयस्याध्यायस्य प्रथमद्वितीयपादार्थं सङ्क्षिपति । स्मृतिन्यायेति - तत्र वेदान्तेत्यादिना तृतीयतुरीयपादार्थः सङ्क्षिप्तः, एवं किञ्चिद्विस्तरेण अध्यायद्वयार्थ उक्तः, प्रथमद्विकस्य सङ्गहेणानुगतमर्थमाह - अत इति । उत्तरद्विकार्थं सङ्क्षिपति । उत्तरेणेति - इदानीं विषये सिद्ध इत्यर्थः । प्रथमद्विके सिद्धवस्तुरूपविषयचिन्ता कृता । द्वितीये तु साध्यरूपविषयिचिन्ता क्रियत इत्यर्थः । तृतीयचतुर्थयोः साधनफलविषयतया क्रममभिप्रयन् तृतीयाध्यायार्थ
माह - तत्रेति । प्रथमद्वितीयपादयोर्न ह्युपासनं चिन्त्यत इत्यत्राह - उपासनारम्भेति । अभ्यर्हितम्- अन्तरङ्गम्, अत्र “परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि” इत्यस्यार्थोऽभिप्रेतः । लोकान्तरेषु सञ्चरतो दोषाश्चिन्त्यन्ते,
तत्र जागराद्यवस्थस्य दोषाः फलिताः । प्रथमाधिकरणस्य संशयमाह - तत्रेति । किं देहान्तरङ्गच्छन् जीवोभूतसूक्ष्मैः सम्परिष्वक्तो रंहति? उतासम्परिष्वक्तः? इति, “वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति, इति तु
पञ्चम्यामाहुतावापःपुरुषवचस” इति प्रश्नप्रतिवचने किं सम्परिष्वक्तस्य रंहणं गमयतो नेति किं श्रद्धादिशब्दैर्थथाप्रतिसिद्धि स्वार्था उच्यन्ते? उत भूतसूक्ष्मपरिष्वक्तो जीवः? इति, पितृयाणेन पथा निवर्त्तने “एष सोमो राजे"ति सोमशब्दस्य सोमदेहजीवपरत्वं किं “तस्या आहुतेः सोमोराजा सम्भवती"ति सोमशब्दस्य सोमदेहजीवपरतामवगमयति? नेति, “तं देवा भक्षयन्ती"ति प्रतिपन्नं भक्षणम् “एष सोमो राजे"ति सोमशब्दस्य सोमदेहजीवपरत्वविरोधि? उताविरोधीति, यदा विराधितदानीमेष सोमो राजेति सोमशब्दस्य जीवविषयत्वाभावेन तस्या आहुतेः सोमो राजेति सोमशब्दस्यजीवविषयत्वाभावेन श्रद्धादिशब्दानामपि प्रसिद्यार्थपरतया प्रश्नप्रतिवचनयोः परिष्वङ्गावगमकत्वाभावादसम्परिष्वक्तो रंहति इतिपूर्वः पक्षः, यदा भक्षणं जीवपरत्वाविरोधि तदा तत्पूर्ववाक्यस्थसोमशब्दस्य जीवपरतया श्रद्धाहुत्यनन्तरवाक्यस्थसोमशब्दस्याप्यबादिद्रव्यसंसृष्टजीवपरत्वेन प्रश्नप्रतिवचनयोर्जीवस्य भूतसूक्ष्मपरिष्वङ्गावगमकत्वात् सम्परिष्वक्तो रंहतीति सिद्धान्तः । तत्र सिद्धान्तमित्यादि - तच्छब्दं व्याचष्टे । संज्ञेत्यादिना - प्रश्नप्रतिवचनाभ्यामिति । न हि प्रश्नानन्तरं भूतसूक्ष्मपरिष्वङ्गपरं प्रतिवचनं दृश्यत इति शङ्कायामर्थन्तरव्यवधानशङ्कानिवृत्त्यर्थमनेकप्रश्नतत्प्रतिवचनक्रमरूपतां प्रकरणस्य दर्शयति । पञ्चाग्नीत्यादिना ।
देवयानपितृयाणपथव्यावर्त्तने इति । व्यावर्त्तकाकारावित्यर्थः - सम्भवतीत्यादिनेति । अस्य उकत्वाहेत्युतरत्रान्वयः, श्रद्धाशब्देन भूतसूक्ष्मावस्थाविशेष उच्यते, सोमराजशब्दव्याख्यानममृतमयदेहशब्दः, प्राणाः- मुख्यप्राणा इन्द्रियाणिच । यद्वा प्राणशब्दो मुख्यप्राणमात्रपरः गमनस्य प्राणाधीनत्वात् प्राणाधीनः प्रक्षेपो होमत्वेनोपचरित इत्यभिप्रायेण प्रक्षिपन्तीत्युक्तम्, इति त्वित्यादि श्रुतिवाक्यं, तस्यार्थमाह - एवमिति । पुरुषवचस इति बहुव्रीहिसमासेन सम्बन्धमात्रं प्रतीतम् । तत्र पुरुषशब्दः स्वरूपपरः वचश्शब्दो वाचकपरः, अतः समासप्रतिपन्नः सम्बन्धो वाच्यवाचकभावाख्यविशेषरूप इति दर्शयितुं पुरुषशब्दाभिलप्या इत्युक्तम् । अनेन कथं रंहतो जीवस्य भूतसूक्ष्मपरिष्वङ्गावगम इत्यत्राह - एवमुक्त इति । प्रश्नप्रतिवचनवाक्ययोरुभयोरपि पञ्चम्यामाहुतावापः पुरुषवचस इत्युक्ते होतव्यद्रव्याकाङ्क्षायां स्ववाक्यस्थतया सन्निहिता आप एव होम्यत्वेन स्वरसत प्रतीताः,वाक्यान्तरस्था श्रद्धा सोमराजरूपेण परिणामस्यायोग्या । अतस्साऽप्यपामेव ज्ञापिका, एवं प्रश्नप्रतिवचनवाक्यस्वारस्यात् प्रसिद्धश्रद्धाया अयोग्यत्वाच्च पञ्चस्वाहुतिष्वपां होम्यत्वेनानुवृत्तिरस्तीति तासामेव पुरुषवचस्त्वमित्यर्थः । ततः किमित्यत्राह - अत इति । अन्यैस्तु पञ्चाग्निविद्या पितृयाणविषयप्रश्नप्रतिवचनाभ्यामिति व्याख्यातं, पितृयाणविषयवाक्यं तु “अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते"रित्यत्रोदाहरणीयत्वादाद्यं सूत्रं पञ्चाग्निविद्याप्रतिवचनविषयमेवेति भाष्यकाराभिप्रायः ॥ * ॥अनन्तरसूत्रशङ्कामाह - नन्वाप इति ।
॥ त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ 2 ॥ प्रथमस्य पञ्चम्यन्तप दस्य सम्परिष्वक्तो रंहतीन्वयो दर्शितश्शङ्काग्रन्थस्थपरिष्वङ्गशब्देन द्वितीयपञ्चम्यन्तपदस्य प्रतिज्ञावाक्यं सामर्थ्यादध्याहृतम् । केवलानामपां
श्रवणं त्विति - वैशेष्यातिविति सूत्रे त्रिवृत्कृतेष्वप्येकैकस्याधिक्यात्तन्निबन्धनस्तद्वयवहार इत्युक्तम् । अत्र तु तदाधिक्यमपामस्तीति दर्शयितुं सूत्रारम्भः ॥2॥
॥ प्राणगतेश्च ॥ 3 ॥ अवान्तरसाध्यान्वयव्यावृत्त्यर्थमाह - इतश्च भूतसूक्ष्मेति । प्राणानामनुगतिः स्यात्ततः किमित्यत्राह - न चेति ॥
॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ 4 ॥ यत्रेत्यादिश्रुतिः, अनपियद्भिः;- ओषधिवनस्पतिषु चाप्ययरहितैः, तत्र हि केशादेरप्ययश्रुतिस्तत्तद्देवतापक्रमणपरा तथेदमित्यर्थः । ओषधीर्लोमानिलोमाभिमानिदेवता ओषध्यभिमानिदेवतामप्येतीतिलोमाभिमानित्वं विहाय केवलमोषध्यभिमानिनी भवतीत्यर्थः । “अग्निं वागप्येती” इति वागभिमानिनी वन्ह्यभिमानिनीमप्येतिवागभिमानित्वरूपं विहाय केवलाग्निर्भवतीत्यर्थः ॥
॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ कथमप्त्वं सूचयतीत्यत्राह - वेत्थेति । प्रश्नगतप्रकारस्य प्रतिवचनान्ते निगमनान्मध्येऽपि तत्प्रकार एवोपपादितः स्यादित्यर्थः - अपामेवोपपद्यते । न तु मनोवृत्तिविशेषस्य, तस्य सोमाकारपरिणामं प्रत्युपादानत्वायोगादित्यभिप्रायः ॥5॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ 6 ॥ अस्मिन्नेव वाक्ये - महावाक्य इत्यर्थः । सोमराजानः- दिव्यदेहाः, कस्मिन् वाक्येऽयमर्थ इत्यत्राह - अथ य इम इति । पूर्त्तं स्वातादिकर्म इष्टापूर्ते दत्तं चेत्युपासते उक्तप्रकारेणानुतिष्ठन्ति, भवतिः प्राप्तिवाची परस्मैपदत्वन्तु छान्दसम् । यद्वा - सत्तार्थो भवतिरेवोपसर्गवशात् प्राप्त्यर्थः । यावत्सम्पातमिति - सम्पातशब्देन कर्माभिधीयते सम्पतत्यनेन स्वर्गमिति व्युत्पत्त्या । तद्भूय एव भवति तद्योगी भवतीत्यर्थः । अत्रापीति - उभयत्र सोमराजशब्देन प्रतभिज्ञानादैकार्य्यम्, अस्फुटजीसम्बन्धस्य पूर्ववाक्यस्य स्फुटजीवसम्बन्धेनोत्तरवाक्येनैकार्थ्यादुक्त एवार्थ इत्यर्थः । श्रद्धासोमादिशब्दैस्तत्तदवस्थदेहविशिष्टवचनं लाक्षणिकमित्यत्राह - देहस्येति ॥ * ॥ अनन्तरसूत्रशङ्कामाह - ननु चेति ।
॥ भाक्तत्वं वा अनान्मविष्वात् तथा हि दर्शयति ॥ 7 ॥ इह चामुत्र च भोगोपकरणत्वं विवृणोति । इहेति - अमुत्र तत्सेवकत्वात् तद्भोगोपकरणत्वं, सेवमानस्य तस्य दर्शनमेव तेषां भोगः, “एतदेवामृतं दृष्ट्वा तृप्यन्ती"ति न्यायात्, अधिकरणार्थमुपसंहरति - तस्मादिति ॥ परे तु जीवस्याद्भिः सह गमनं वदन्त एव तासामपामग्निहोत्राहुतिरूपत्वं वदन्ति आहुतीनां क्षीरादिद्रवद्रव्यभूयस्त्वात्, श्रद्धापूर्वकानुष्ठेयतया
श्रद्धाशब्दवाच्यत्वोपपत्तेः, तथा वाजसनेयके षद प्रश्न ब्राह्मणे"ते वा एते आहुती हुते उत्क्रामतस्तेऽन्तरिक्षमाविशतस्तेऽन्तरिक्षमाहवनीयं कुर्वाते वायुं समिधं मरीचिमेव शुक्रामाहुतिं ते अन्तरिक्षं समिधं चन्द्रमसगेव शुक्रामाहुतिं ते दिवं तर्पयतस्ते तत उत्क्रामतस्ते दिवमात्तिशतस्ते दिवमाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव शुक्रामाहुतिं ते दिवं तर्पयतस्ते तत आवर्तेते ते इमामाविशतस्ते इमामाहवनीयं कुर्वाते” इत्यारभ्य “ते पुरुषमाविशतः- ते स्त्रियमाविशतः- यतस्ततः पुत्रो जायत”
इत्यादिनैकार्थ्याच्चेतितदिदमपेशलम् शब्दतोऽर्थतश्च प्रत्यभिज्ञानाभावात्, न हि श्रद्धाशब्दाप्शब्दयोरन्यतरनिर्देशः, न च द्युपर्जन्यादिक्रमः, अन्तरिक्षद्युपृथिव्यादिक्रमप्रतीतेः । किञ्च देवताविग्रहतदागमनादीनां देवताधिकरणे निर्णीतत्वात् अग्न्यभिरूढानां देवताभिरुपभुक्तानां क्षीरादीनामुत्क्रान्तजीवपरिष्वञ्जकत्वमयुक्तम्, अत्र च “अन्तरिक्षं तर्पयतो, दिवं तर्पयतः” इत्याहुत्योरूद्र्ध्वलोकवर्तिनां तृप्तिहेतुत्वावगमाच्च पूर्वरूपेण जीवपरिष्वञ्जकत्वं नोपपद्यते । ननु आहुत्योरेकदेशो देवताभिर्भुज्यते तदेकदेशो जीवान् परिष्वङ्क्तेदेवतोपकरणभूतजीवशरीररूपपरिणामद्वारा देवतातृप्तिहेतुतया “तर्पयत” इत्येतदुपपद्यत इति, नैवम्- अश्रुतविभागकल्पनाप्रसङ्गात्, तथा कल्पितविभागस्य एकदेशस्य जीवद्दशायां प्रक्षिप्तस्य यावन्मरणमवस्थानकल्पनप्रसङ्गात्, तथास्वरूपेण देवतातृप्तिहेतुत्वे सम्भवति जीवशरीरद्वारकत्वस्य कल्पनानुपपत्तेश्च, पटैकदेशे पटशब्दस्येवाहुत्यैकदेशे आहुतिशब्दस्यामुख्यत्वाच्च । अन्यैस्तुचन्दत्वापत्तिदेवताभक्ष्यत्वयोः स्वरूपेणानुपपन्नत्वादद्भिः सह रंहतीति पूर्वपक्षं कृत्वा प्राप्यस्य चन्द्रस्य सोमराजत्वप्रतिपादनादन्नत्वस्य भाक्तत्वाच्च पृथग्गच्छन्तीति सिद्धान्तः कृतः, अन्तिमसूत्रव्यतिरिक्तानि सूत्राणि पूर्वपक्षपराणि व्याख्यातानि, आपश्चाहुतिरूपा जीवस्य भूतभूक्ष्ममयदेहाप्यायिका अभिमताः, आसामपां षट्प्रश्नब्राह्मणोक्ताहुतिरूपत्वं तावच्छब्दतोऽर्थतश्च प्रत्यभिज्ञानाभावादयुक्तम् षट्प्रश्नब्राह्मणेऽपि तर्पयत इति देवतातृप्तिहेतुत्वेन श्रुतानामाहुतीनां वर्षादिपुरुषवचस्त्वपर्यन्तावस्थाविशेषानुपपत्तेश्चायुक्तम्, आहुतिशब्दस्य तदेकदेशवाचित्वमश्रुतविभागकल्पनामुख्यत्वाभ्यामयुक्तमित्युक्तम् । अतो देवतातृप्तिमुखेन शुभतरजन्महेतुत्वपर्यन्ताहुतिवैभवानुसन्धानं तत्र प्रतिपाद्यते न तु देहारम्भिका आपइति युक्तां अभ्युपगन्तुम् । भवनुपाविभाग आहुतीनां, देहारम्भिका आपश्चाहुत्येकदेशरूपाः सन्तु, तथाऽपि जीस्य ताभिः सह रंहणनिषेधो न सिद्धान्तीकर्त्तव्यः “पृथिवी वाव गौतमाग्निः” इत्यारभ्य “तस्मिन्नेतस्मिन्नग्नौ देवाः वर्षं जुह्वति तस्या आहुतेरन्नं सम्भवति, तस्या आहुतेरेतः सम्भवती"ति पृथिव्याद्यग्नित्रयविषयाणान्तिस्त्रीणां वर्षान्नरेतोरूपाहुतीनामिहश्रुतत्वाद्धूमाभ्रमेधवर्षव्रीह्मादिषु सानुशयजीवसंसर्गस्योपरितनबह्वधिकरणेषु भवन्मतेऽपि सिद्धत्वेनाहुतित्रयस्य जीवससृष्टत्वात्, श्रद्धासोमाह्वयाहुतिद्वयेऽपि जीवस्य वियुक्तत्वे तदनन्तरमप्सु तस्य संसर्गे च प्रमाणाभावात्तदुभयकल्पने गौरवात्, कल्पकस्य च कस्यचिदभावादग्रयप्रायन्यायेनेद्याहुतिद्वयेऽपि जीवसंसर्गकल्पनस्यैव युक्तत्वाच्च । किञ्चापः पुरुषवचस इति पुरुषवचस्त्वमपां श्रूयते, “तस्या- आहुतेर्गर्भः सम्भवति” इति पञ्चम्या आहुतेर्गर्भसम्भवश्च श्रूयते, समानप्रकरणे तस्या अहुत्यैव पुरुषः सम्भवतीति श्रूयते, पुरुषशब्दो न शरीरमात्रपरः, किन्तु
शरीरिणि चेतने स्वरस इत्यविगीतम्, वर्षाद्याहुतित्रये चेतनसंसर्गो भवदभिहितश्च “आपः पुरुषवचसः” इत्युक्ते सति अप्शब्दश्च पुरुषशब्दसमानाधिकरणः प्रतीयते अयं देवदत्तसंज्ञ इत्युक्ते इदंशब्ददेवदत्तशब्दयोः सामानाधिकरण्यं हि प्रतीयते अयं देवदत्त इति, एवं चाप्छब्दपुरुषशब्दयोः सामानाधिकरण्यं चाप्छब्दस्य चेतनोपस्थापकत्वे सिध्येत्, भिन्नविशेष्यनिष्ठयोःपद्योर्गृहदेवदत्तशब्दयोरिव सामानाधिकरण्यानुपपत्तेः, न हि गृहा देवदत्तवचस इति वक्तुं न्याय्यं, तस्मादप्शब्दवाच्यं वस्तु यत्र यत्र होतव्यं श्रुतं तत्र तत्र यया कयाचिद् वृत्त्या जीवस्योपस्थापितत्वमकामेनापि स्वीकरणीयम्, सामानाधिकरण्यप्रतीतिप्राबल्यात् । यदा त्वप्शब्द एव जीवशरीर भूतभूतसूक्ष्मपरः तदा तस्य देवममुष्यादिशब्दवच्चेतनविषयत्वं स्वरसतरम्, अतो जीवदेहभूतानामपां जीवस्य च पृथग्गमनमयुक्तम् एवं सहगमने सति प्राणोत्क्रमणविषयश्रुत्यन्तरानुग्रहश्च स्यात्, सोमराजशब्दप्रत्यभिज्ञानं च घटते यदुक्तम् “आकाशाच्चन्द्रमसमेष सोमो राजा” इति प्राप्यस्य सोमराजत्वमुच्यते न तु प्राप्तुरिति- तदयुक्तं, वाक्यवैयर्थ्यप्रसङ्गात्, प्रसिद्धेन चन्द्रमश्शब्देन पूर्वनिर्दिष्टस्य पुनस्तत्पर्यायाभ्यां सोमराजशब्दाभ्यां निर्द्देशे किं फलं, पूर्वनिर्दिष्टप्रत्यभिज्ञाने तु प्रयोजनवत्वं स्फुटं श्रद्धाहुतिसम्भूतस्य सोमराजशब्दवाच्यत्वं चन्द्रप्राप्तिदशायामित्यस्यार्थस्य ज्ञाप्यत्वात् । किञ्च चन्द्रमसमभिसम्भवन्तीत्यभिसम्भवनक्रियाकत्तर्ृतया प्रथमानिर्द्दिष्टः प्राप्ता जीव “एष” इति सर्वनामपदेन परामर्शमर्हति, चन्द्रमसस्तु द्वितीयानिर्दिष्टस्य परामर्शो न स्वरसः । ननु ते घूममभिसम्भवन्तीति वाजसनेयके बहुवचननिर्दिष्टनां प्राप्तृणामेष इत्येकवचनेन परामर्शोऽनुपपन्नः चन्द्रमसस्तूपपन्न इति चेन्न- कृस्नवाक्यवैयर्थ्यादपि विभक्तिमात्रस्य क्लिष्टार्थताश्रयणेन जात्यभिप्रायत्वमात्रकल्पनोपपत्तेः, प्रकरणे विभकत्यर्थनिर्वन्धाभावदर्शनाच्च, “तद्देवानामन्न ं तं देवा भक्षयन्ती"ति बहुवचननिर्दिष्टोऽभिसम्भवितासुनरेकवचनेन निर्दिश्यते, न चैतदपि वाक्यं
चन्द्रविषयम् “ते चन्द्रं प्राप्यान्नम् भवन्ती"ति वाजनेयके प्राप्तुरन्नत्वाभिधानात् तथा “वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवती"त्येकवचनेन निर्द्दिश्यत् “इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा जायन्ते” इत्युक्वा “यो यो ह्यन्नमत्ति योयो रेतः सिञ्चति तद्भूय एव भवति” इत्येकवचनेन निर्दिश्यते, अतो विभकत्यनादरेण वाक्यवैयथ्यपरिहरो न्याय्यः । ननु पञ्चाग्निविद्यायामपि सोमाराजशब्दश्चन्द्रविषय इति चेत्, न, तस्या आहुते सोमो राजा सम्भवतीत्युत्पत्तिश्रवणात् । कलावृद्धिरेवोत्पतिरिति चेन्न=अस्वरसत्वात्, सम्भवशब्दस्याप्यायनवाचित्वाभावाच्च । किञ्च “पर्जन्यो वाव गौतमाग्निः” इत्यारभ्य “तस्मिन्नेतस्मिन्नग्नौ देवाः सोमत्त्वराजानं जुह्वती"ति सोमराजस्य पर्जन्ये हुतम् श्रवणाञ्चन्द्रस्य पर्जन्ये प्रविलयाभावाच्च द्वितीयाहुतिविषयसोमराजशब्दस्य चन्द्रविषयत्वमयुक्तम् । न चैवंसति पितृयाणवाक्यस्थसोमराजशब्दस्य प्रयोजनवत्तयेष्टादिकारिविषयत्वे तत्प्रत्यभिज्ञानादत्र सोमराजशब्दस्येष्टादिकारिविषयत्वम्, अत्रत्यसोमराजशब्दस्येष्टादिकारिविषयत्वे तत्प्रत्यभिज्ञानपनेन प्रयोजनवत्तया पितृयाणवाक्यस्थसोमराजशब्दस्येष्टादिकारिविषयत्वमित्यन्योन्याश्रय इति चेन्न, पितृयाणवाक्यस्थसोमराजशब्दावैयर्थ्यस्य पूर्वसोमराजशब्दस्यो इष्टादिकारिविषयत्वनिर्धारणानपेक्षत्वात्पूर्वसोमराजशब्दस्य चन्द्रव्यतिरिक्तविषयतामात्रज्ञानमेव ह्यपेक्षितं, तस्य चन्द्रव्यतिरिक्तविषयत्वं च चन्द्रस्य सम्भवहोम्यत्वानुपपत्त्यैव सिद्धम्, चन्द्रव्यतिरिक्तश्चार्थो घटः पटो वा दंशो मशको वा भवतु तस्य सोमराजशब्दवाच्यत्वं चन्द्रप्राप्तिदशायामित्येतावज्ज्ञापनेन उत्तरवाक्यावैयर्थ्यं सिध्यति । एवं प्रयोजनवदुत्तरवाक्यस्था सोमराजशब्दस्य प्राप्तृविषयतया इष्टादिकारिविषयत्वे सिद्धे तदैकार्थ्येन पूर्वश्रुतोऽपि द्वितीयाहुतिविषयः सोमराजशब्दः तत्पूर्वमेव चन्द्रव्यतिरिक्तविषयतयाऽवधारित इष्टादिकारिरूपविशेषविषयो ज्ञायत इति नान्योन्याश्रयः । अथवा प्राप्तुश्चन्द्रसादृश्यज्ञापनं वाक्यफलं तच्चैतच्छब्दस्य सोमराजपदसामानाधिकरण्ये न भवति, अग्निशब्दस्य सामानाधिकरण्येन माणवकस्याग्निसादृश्यज्ञापनवत्, तच्च सोमराजशब्दस्य चन्द्रव्यतिरिक्तविषयत्वे सिध्यति, न हि स्वस्य स्वेन सादृश्यं ज्ञाप्यम्, सतः सोमराजशब्दस्य न प्राप्यविषयत्वम्, यत्तु समानप्रकरणे “ते चन्द्रं प्राप्यन्न भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ती"ति सोमाद्भेदव्यपदेश इष्टादिकारिणां प्रतीयते, अतस्तेषांन सोमराजशब्दाभिलप्यत्वमित्युक्तम्, तदप्यनेन परिहृतं छान्दोग्यस्थस्य सोमराजशब्दस्येष्टादिकारिविषयत्वनिर्वहणपरत्वाद्वाजसनेयकवाक्यस्य, न हि वृत्त्यन्तरे सम्भवत्येकस्य शब्दस्य बहुष्वर्थेषु शक्तिभेदकल्पनं न्याय्यम्, अत इष्टादिकारिविषयसोमराजशब्दस्य तेषु कथं वृत्तिरित्यपेक्षायां “यथा सोमं राजान"मिति दृष्टान्तीकरणेन चन्द्रसादृश्यात् सोमराजशब्दप्रयोगः, सादृश्यं चामृतमयरूपत्वदेववर्गोपयोगयोग्यत्वलक्षणमिति ज्ञायते, “आप्यायस्वेति वाक्यस्यायमर्थः- यथाऽऽप्यायस्वापक्षीयस्वेति सोमं राजानं भक्षयन्ति, एवमेनांस्तत्र भक्षयन्तीति; तेनामृतमयदेहवत्त्वं देववर्गोपयोगार्हत्वं च दर्शितं भवति, अतो भक्षणस्य भाक्तत्ववचनमप्युपपद्यते अतः पृथग्गच्छतीति राद्धान्तोऽनुपपन्नः ॥
॥ तदन्तरप्रतिपत्त्यधिकरणं समाप्तम् ॥