संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ 17 ॥ पेटिकासङ्गतिमाह - भूतेन्द्रियादीनामिति । पुरस्तात्तृतीये पादे, अनन्तरमस्मिन् पादे पूर्वस्मादपि पूर्वाधिकरणे । स्थिरीकरणाय स्मारितम् - देवानामपि परायत्तप्रवृत्तित्वनिर्णयेन जीवानां परायत्तं कर्त्तृत्वं स्थिरं भवति, तदर्थं तदेव दृष्टान्ततया स्मारितमित्यर्थः ।
तृतीयपादादारभ्येतः पर्वमेका पेटिका, तत्र भूतेन्द्रियसमष्टिसृष्टिनिरूपणम्, अथ व्यष्टिसृष्टिनिरूपणमिति पेटिकासङ्गतिः व्यष्टेश्च जीवोपकरणरूपत्वात्तत्सृष्टिनिरूपणमिति पादसङ्गतिः पूर्वाधिकरणे “भेदश्रुतेर्वैलण्याच्चे"ति सूत्रस्य विषययाक्ये “स्वं वायुर्ज्योतिः” इत्यादौ समष्टिसृष्टेः परमात्मकर्तृत्वमुक्तम्, अथ व्यष्टिसृष्टिजीव कर्त्तृकतया प्रतीयत इति शङ्कयाऽवान्तरसङ्गतिः, जीवोपकरणानामिन्द्रियप्राणानामुत्पत्त्यादिकं निरूपितं तैरिन्द्रियादिभिर्जीवस्य संयोगकरणं हि व्यष्टिसृष्टिरिति वा सङ्गतिरित्यभिप्रेतम्, पूर्वपादोक्तसमष्टिनिरूपणेन व्यष्टिसृष्टिनिरूपणस्य सङ्गतिः, अन्यान्यधिकरणानि तु प्रसक्तानुप्रसक्तिकया निरूपितानीत्येतत् कण्ठोक्तम् । ब्रह्मणः साक्षात्सर्वकारणत्वं श्रुतमुपपद्यते? उत न? इति संशयः, तदर्थं व्यष्टिनामरूपव्याकरणं किं हिरण्यगर्भमात्रकर्तृकम्? उत तदवस्थब्रह्मकर्तृकमिति, तदर्थम् “अनेन जीवेन” इति जीवसामान्यकर्तृकम्? उत तदवस्थब्रह्मकर्तृकमिति, तदर्थम् “अनेन जीवेन” इति जीवसामान्यकर्तृकत्वश्रुतिः किं जीवसमष्टयाश्रयकेवलहिरण्यगर्भकर्तृकत्वमवगमयति- उत जीमात्रविशिष्टपरमात्मकर्तृकत्वम् इति,तदर्थं केवलहिरण्यगर्भकर्तृकत्वे त्रिवृत्करणे हिरण्यगर्भस्य कर्तृकत्वं सम्भवति न इति, तदर्थं त्रिवृत्करणं हिरण्यगर्भोत्पत्तिस्थानभूताण्डसृष्टेरुत्तरकालीनं वा पूर्वकालीनं वा इति?, तदर्थं “नामरूपे व्याकरोत्, त्रिवृतं त्रिवृतमेकैकामरो"दिति पाठक्रमोऽण्डान्तर्वर्तित्रिवृत्करणप्रदर्शनमन्नादीनां त्रिवृत्करणश्रुतिश्च त्रिवृत्करणस्याण्डसृष्टयुत्तरकालीनतामवगमयति न इति, किमेते त्रयो हेतवः प्रबला उत दुर्बला? इति, तेषां प्राबल्ये त्रिवृत्करणस्याण्डसृष्टयुत्तरकालीनावगमकतया तस्य हिरण्यगर्भकर्तृकत्वेन त्रिवृत्करणनामरूपव्याकरणयोः कर्त्रैक्यश्रुत्त्युपपत्तेः “अनेन जीवेने"ति निर्देशस्य हिरण्यगर्भमात्रकर्तृत्वज्ञापकतया व्यष्टिनामव्याकरणं हिरण्यगर्भमात्रकर्तृत्वव्यापकतया व्यष्टिनामरूपव्याकरणं हिरण्यगर्भमात्रकमिति परब्रह्मण साक्षात्सर्वकारणत्वं न स्यात्, पाठक्रमा
दीनां दुर्बलत्वे त्रिवृत्करणस्याण्डसृष्टयुत्तरकालीनत्वासिद्धेः,तत्र हिरण्यगर्भस्य कर्तृत्वासम्भवेन त्रिवृत्करणनामरूपव्याकरणयोः कर्त्रैक्यायोगात्तदुपपत्त्यर्थमनेन जीवेनेति निर्देशस्य जीवसमष्टिशरीरकपरमात्मकर्तृकत्वावगमकतया व्यष्टिनामरूपव्याकरणं हिरण्यगर्भशरीरकपरमात्मकर्तृकमिति परब्रह्मः साक्षात्सर्वकारणत्वमुपपन्नमिति सिध्द्यति नन्वितरैरिव जीमात्रकर्तृकत्वविषयो विचारः किन्न कृतः हिरण्यगर्भमात्रकर्तृकत्वं पूर्वपक्षीकृत्य हिरण्यगर्भावस्थब्रह्मकर्तृकत्वं यदि सिद्धान्त्यते, तर्हि जीवशब्दस्य हिरण्यगर्भविषयत्वेन गवादिशब्दानां तत्तच्छरीरकजीवद्वारा परमात्मपर्यन्तत्वे नामरूपव्याकरणश्रुतिर्न प्रमाणं स्यात्सर्वशरीरेषु चतुर्मुखस्यैव जीतयाऽवस्थाने एकजीवादश्च स्यात्, बहूनां जीवानां हिरण्यगर्भाख्यजीवव्याप्यत्वं वा स्यात्, नैवम्- अनेन जीवेनेति जीवशब्दस्य जीवसमष्टिविषयत्वाज्जीवसमष्टेः कृत्स्ननामरूपव्याकर्तृत्वशङ्कानुपपत्तेः संशयान्यथानुपपत्त्या याग्यतावशाज्जीवविशेषनिष्ठो विचारः सूत्राभिप्रेत इति तथा विचारो दर्शितः । न च तावता सर्वशरीरेषु हिरण्यगर्भस्यैव जीत्वं वा तत्तज्जीवव्याप्तृत्वं वा प्रसजेत्, परमात्मनो जीवसमष्टिद्वारेणाचिदनुप्रवेशस्य प्रतिपेद्यत्वात् । व्याकणवाणीति ब्रह्मण एव कर्तृत्वं प्रतीयत इत्यत्राह - न हि परा देवता इति । कर्तृस्थक्रियः - व्याकरणकर्तृस्थक्रिय इति विवक्षया समानकर्तृक इत्यर्थः । लाक्षणिकत्वं पहिरति - नैवाभित्यादिनां । वस्तुतो जीस्य परमात्मांशत्वात् तस् कर्तृत्वं परमात्मन एव भवति, तस्मान्मुख्यकोटिरित्यथः. क्लिष्टनिर्वाहत्वात्; यथा प्राभाकरैर्गवादिशब्दानां व्यक्तिर्मुख्यकोटिरिति मतं, तद्वत् तृतीयायाः सहयोगाद्यर्थान्तरपत्वे परमात्मन्थेव कर्तृत्वं स्यादित्याशङ्कयाह - न च सहयोगेति । कर्तृकरणयोस्तृतीयेत्यादिभिः पदान्तरयोगमनपेक्ष्य विहिता विभक्तिः कारककविभक्तिः, पदान्तरसाहचर्थे विहितोपपदविभक्तिः । अन्याय्यत्वादिति पदान्तरपरामर्शसापेक्षतया विलम्बितवृत्तित्त्वादन्याय्यत्वमभिप्रेतम् । ननु करणे विहित। तृतीया नोपपदविभक्तिरित्यत्राह - न च करण इति । तर्हि द्वयोरपि कतर्ृत्वात्समानकर्तृकत्वावगमाद्वस्तुतोऽनन्यत्वाच्च तदवस्थपरमात्मकर्तृकत्वं स्यादित्यत्राह - जीवस्येति । हेत्वन्तरमाह - अत एव चेति । राद्धान्त
माह - एवं प्राप्त इति त्रिवृत्करणं चतुर्मुखकर्तृकं स्यादित्यत्राह - त्रिवृत्करणं त्विति । कुत इत्यत्राह - त्रिवृत्कृतैरिति । अण्डसृष्टयर्थत्वात् त्रिवृकरणस्येत्यर्थः । ततः किमित्यत्राह - चतुर्मुखस्येति । चतुर्मुखसृष्टिप्रकरणे नामरूपव्याकरणवचननिर्वाहमाह - चतुर्मुखेति । त्रिवृत्करणं नाम किं, तस्याण्डसृष्टयर्थत्वं कथम्, “अनेन जीवेने"ति वाक्यात् तेजोवन्नप्रतीतिः कथं, नामरूपव्यकरणं च किमित्यत्राह - अतः सेयमिति ॥ *
॥
अनन्तरसूत्रशङ्कामाह - अथ स्यादिति । अण्डसृष्टेः पश्चात् चतुर्मुखसृष्टेषु पुरुषेषु त्रिवृत्करणोपदेशात् तत्सृष्टाग्न्यादित्यादिषु त्रिवृत्करणदर्शनात् नामरूपव्याकरणोत्तरकालं त्रिवृत्करणश्रवणाच्च त्रिवृत्करणस्याण्डसृष्टयर्थत्वं न सम्भवति, अतस्त्रिवृत्करणठ चतुर्मुखकर्तृकमिति तदेककर्तृकं नामरूपव्याकरणं चतुर्मुखकर्तृकमित्यर्थः ॥
मांसादिभोम यथा शब्दमितरयोश्च ॥ 18 ॥ अन्नमशितमित्यादि - करणानुविधायित्वेन । अत्रिवृत्कृतानामपि पृथिव्यप्तेजसां स्थूलत्वाणुत्वाणीयस्त्वात् त्रिवृत्कृतेष्वपि तत्तद्भूतांशानां स्वकारणानुगुणस्थूलत्वाणुत्वाणीयस्त्वं स्यात्, तस्मादन्नमशितमित्यादिवाक्ये त्रिवृत्करणं प्रदर्श्यते चेत्- स्थविष्ठं पुरीषं पार्थिवम् अणु मांशमाप्यम्, अणीयो मनश्च तैजसं स्यात्, न तथोपपद्यते, मांसमनसोः पार्थिवत्वात्, पार्थिवत्वं चान्नमबशितमिति प्रक्रमादवग
तमितंर्थः एवमितरपर्यायद्वयेऽपि, न चैवमिष्यत इत्यन्तेन प्रथमद्वितीयपर्याययोरनिष्टं दर्शितं, तृतीये तु न प्रसक्तं, तत्रायं भावः- प्रतिपर्यायं चरमोपात्तेष्वनिष्टस्य प्रसञ्जनीयत्वात् तृतीयपर्याये चरमे प्रसञ्जनीयस्यानिष्टत्वाभावान्न तत्प्रसङ्गनीयमिति तृतीयेऽप्यस्थिमज्जापार्थिवाप्यत्वानिष्टता पश्चाद्वक्ष्यते । मांसादेर्हीति - मांसमनसोराप्यतैजसत्वे
अनिष्टे द्वितीये सूत्रं पार्थिवं, लोहितमाप्यं, प्राणस्तैजसः स्यात्, तत्र सूत्रप्राणयोः पार्थिवतैजसत्वे अनिष्टे “अन्नमशितम्, आपः पीताः” इति च प्रक्रमेण मांसमनसोः पार्थिवत्वान्सूत्रप्राणयोराप्यत्वात्, “अन्नमयं हि साम्य मनः आपोमयः प्राणः” इति वाक्यशेषाच्च, तृतीयेऽप्यस्थापार्थिवत्वं, मज्जाया आप्यत्वं, वाचस्तैजसत्वं च स्यात्त- त्रास्थिमज्जयोः पार्थिवत्वाप्यत्वे अनिष्टे तेजोऽशितमिति प्रक्रमात्, तेजोमयी वागिति वाक्यशेषाच्च तस्मान्न त्रिवृत्करणं प्रदर्श्यत -अपि त्वन्नादीनां प्रत्येकं त्रेधा परिणाम उच्यत इत्यर्थः “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्यकरोत्तासां त्रिवृतं त्रिवृत्तमेकैकामकरो"दिति पाठक्रमरन्नामरूपव्याकरणस्य पश्चात् त्रिवृत्करणं प्रतीयत इत्यत्राह- अत्रिवृत्कृतानामिति । अन्योन्यसंयुक्तानां कार्यारम्भसामर्थ्यं चेत्कथं त्रिवृत्करणापेक्षेत्यत्राह - तदेव चेति । अन्योन्यसंयुक्तत्वमेव त्रिवृत्कृतत्वमित्यर्थः । एतद्विशयति - तथा च स्मर्थत इति । पाठक्रमः कथमित्यत्राह - अत एव चेति । उत्पत्तौ साधनस्य पूवभावित्वे फलस्य पश्चाद्भावित्वे सत्यपि सङ्कल्पे फलमेव पूर्वभावि, स्वर्गकामो यक्ष्ये इत्यादिषु तथा दर्शनात्, अस्मिन् प्रकरणेऽपि “बहु स्यां प्रजायेय” इति साध्यस्य बहुभवनस्य पूर्वभावित्वं च दृष्टम् उपबृंहणष च तद्विशदीकृतं, तस्मात् नामरूपे व्यकारवाणि, “त्रिवृतं त्रिवृतमेकैकां करवाणी” ति सङ्कल्प वाक्ये त्रिवृत्करणफलस्य नामरूपव्याकरणस्य पूर्वप्रतिपत्तौ त्रिवृत्करणस्य पूर्वभावित्वं सिद्धम्
“अग्निहोत्रं जुहोति, यवागूं पचति” इत्यादिष्वर्थक्रमेण पाठक्रमबाधदर्शनात्सङ्कल्पवाक्यस्वाभाव्यात् प्राकरणिकसङ्कल्पवाक्यान्तरे पश्चाद्भाविनः फलस्य पूर्वभावदर्शनादुपवृहणवचनस्वारस्याच्च “नामरूपे व्याकरोत्” त्रिवृत्तं त्रिवृतमेकैकामकरो"दिति पाठक्रमोऽर्थक्रमेण बाध्यत इत्यर्थः, तह्यग्न्यादित्यादिषु त्रिवृत्करणप्रदर्शनं किमर्थमित्यत्राह - अण्डान्तर्वतिर्ष्विति । अग्न्यादित्यादिषु द्विः श्रूयते तथा पाठश्चेदयमर्थः- अग्न्यादित्यादिषु त्रिवृत्कृतभूतकार्येषु सत्सु त्रिवृत्कृतकार्य्यत्वादेव भूतकार्य्यत्वादेव तेष्वग्न्यादिषु त्रिवृत्करणप्रदर्शनं क्रियत इति । यद्वाऽण्डान्तर्वर्तित्वेनेत्यन्तमेकं वाक्यं, कथमस्य हेतुत्वमित्यत्राह - तस्येति । क्रियते त्रिवृत्करणप्रदर्शनमिति शेषः ॥ * ॥ अनन्तरसूत्रशङ्कायामवतारयति - स्यादेतदिति ॥
॥ वैशेष्यात्तु तद्वदस्तद्वादः ॥ 19 ॥ विशेषशब्दो विकारशब्दवद्धर्मिमपरो धर्मपरश्च, अत्र तु धमिर्परः, विशेषभावो वैशेष्यम्, आधिक्यरूपम् ॥ परे तु जीवस्यानुप्रवेषकर्तृत्वं नामरूपव्याकरणकर्ता तु परमेश्वर इत्याहुः, तन्मते श्रुतिविरोधः “तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभव"दिति नामरूपव्याकरणसमभिव्याहृतानुप्रवेशस्य परमात्मकर्तृत्वावगमात्, समानकर्तृत्वं च न घटते जीवस्यापीश्वराद्वस्तुतोऽनन्यत्वेन युक्तं समानकर्तृकत्वमिति चेन्न, जीवेश्वरयोरुभवोर्ब्रह्मणि कल्पितत्वात्कुलालकुविन्दकर्तृकयोर्घटपटायोरिव तदनुपपत्तेः, अधिष्ठानैक्यात्तदुपपत्तिरिति चेन्न- स्वाप्नककुलालकुविन्दयोस्सन्मात्रकल्पितत्वेऽपि तन्निमित्तघटपटयोरेककर्तृकत्वाभावात् किं च कर्तृत्वमुपाधिगतं? तद्विशिष्टगतं? तदुपलक्षितवस्तुगतं वा? । आद्ये कर्त्रैक्यासिद्धिः, जीवेश्वरावच्छेदकानामुपाधीनां भिन्नत्वात् द्वितीयेऽपि न कर्त्रेैक्यं विशिष्टरूपभेदात्, यथा कुलालकुविन्दकर्तृकयोर्घटपटयोः । तृतीये तु सन्मात्रवस्तुनि स्वतः कर्तृत्वभावदेव न कर्त्रैक्यं शरीरभेदेन कृतानां सौभरिव्यापाराणामिव वैककर्तृकत्वोपपत्तिरिति चेन्न- तच्छरारव्यापारमलभूतप्रयत्नस्यैव जीवेश्वरव्यापारभूतानुप्रवेशव्याकरणमूलप्रयत्नस्य तत्तच्छरीरकैकात्मगतत्वानुपपत्तेः । ननु छाययाऽऽदर्शमनुप्रविश्य तिलकं रचयामीतिवत्समानकर्तृकत्वोपपत्तिरिति चेन्न- सत्यानृतयोर्बिम्बप्रतिबिम्बयोरेकेणानुप्रवेशाभावाच्च न हि मूर्तद्रव्यप्रतिघातिनो दर्पणस्यानुप्रवेशयोग्यत्वं, तृतीयसूत्रेणानुपपत्तिविशेषपरिहाराय त्रिवृद्भवनान्तरोपन्यासपरं द्वितीयसूत्रमित्यप्ययुक्तं मन्दप्रयोगनत्वात्, प्रयोजनवत्तरनिर्वाहस्य दर्शितत्वाच्च मनस आहङ्कारिकत्वनित्यत्वयोः साङ्खयवैशेषिकाभिमतयोर्व्युदासेनाऽन्नमयत्वसमर्थनार्थं द्वितीयं सूत्रिमिति चेन्न- आहङ्कारिकत्वस्य श्रुतिसिद्धत्वात्, सर्वेन्द्रियाणां भूतादिशब्दोपलक्षितेऽहङ्कारे प्रलयश्रवणात्, मनसो वाचश्च पृथिवीतेजःकार्य्यत्वे भूतप्रलयोत्तरकालमवस्तानानुपपत्तेः, पाश्चात्यप्रलयश्रवणायोगाच्च । अपरेषामपि पक्षेऽनुप्रवेशस्य जीवकर्तृकत्वं वक्तुयुक्तं नामरूपव्याकरणसमभिव्याहृतानुप्रवेशस्य परमात्मकर्तृकत्वश्रवणात् जीवस्येश्वरादभिन्नत्वात्तत्कर्तृकत्वेऽप्यनुप्रवेशस्य परमामकर्तृकत्वोपपत्तिरिति चेत्तर्हि नामरूपव्याकरणस्यापि जीवकर्तृकतया परमात्मकर्तृकत्वं स्यात् समस्तनामरूपव्याकरणं जीवस्याशक्यमिति चेत् सर्वानुप्रवेशश्चाशक्यः नन्वचिन्मात्रेऽनुप्रवेश उपपद्यते “तिस्त्रा देवता अनुप्रविश्य” इति हि श्रूयत इति चेन्न- समानप्रकरणे “विज्ञानं चाविज्ञानं च सत्यं चानृतं च” इति जीवेऽप्यनुप्रवेशश्रवणात्, तदंशभूतयोश्च तयोर्द्वयोर्जीवयोरिवैककर्तृकत्वानुपपत्तेः अंशिन एकत्वात् कर्त्रैक्यमिति चेन्न राजचारयोरपि ब्रह्मांशत्वेनैकर्तृकत्वप्रसङ्गात्, अस्त्विति चेत्- असमानकर्तृकव्यापाराभावात्समानकर्तृकयोरित्यनुशासनवैयर्थ्यं स्यात्, उपरितनसूत्रद्वयस्याधिकरणान्तरत्वमप्ययुक्तं सूत्राणामव्यवहितत्वे सति फलफलिभावेनान्वितार्थप्रतिपादकत्वात् ॥
॥ संज्ञामूर्तिकलृप्त्यधिकरणं समाप्तम् ॥
इति श्रीहारीतकुलातलकवागिवजयसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयेन
श्रीमद्वरदाचार्यपादसेवासमधिगतभगवद्रामानुजविरचितशारीरकमीमांसाभाष्यहृदयेन
श्रीसुदशर्नसूरिणा विलिखितायां श्रुतप्रकाशिकायां द्वितीयस्याध्यायस्य चतुर्थ पादः ॥