32 इन्द्रियाधिकरणम्

॥ त इन्द्रियाणि तद्वयपदेशादन्यत्र श्रेष्ठात् ॥ 15 ॥ किं सर्वे प्राणा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्तः? इति, किं श्रोत्रादिषु मुख्यप्राणे च प्राणशब्द एकनिमित्तेन वर्त्तते? उत निमित्तभेदेन? इति, यदैकनिमित्तेन तदा सर्वे प्राणा इन्द्रियाणि ॥15॥

भेदश्रुतेर्वैलक्षण्याच्च ॥ 16 ॥ मनःषष्ठानीन्द्रियाणीति - अत्रादिशब्देन “इन्द्रियाणि दशैकं च पञ्च चेन्द्रियागोचरा” इत्यादि विवक्षितम्, सुषुप्तौ वृत्त्युपलम्भवैलक्षण्यं, शरीरेन्द्रियधारणरूपकार्य्यवैलक्षण्यं, प्राणशब्दप्रवृतिनिमित्तवैलक्ष्यञ्चेत्यर्थः, चक्षुरादीनां प्राणशब्दबोध्यत्वं लाक्षणिकं मुख्यप्राणस्य तु मुख्यं, भेदश्रुतेर्वैलक्षण्याच्चेत्येकं सूत्रमिमिति युक्तं वैलक्षण्यानुगृहीतश्रुतेरेव हेतुत्वात्, हेतुभेदे हि सूत्रभेदोपपत्तिः, मनस इव गोवलीवर्दन्यायेन भेदनिर्देशसम्भवात् तद्वयावर्तकाकारान्तरेण वैलक्षण्ये सिद्धे हि भेदश्रुतिः स्थेयसी स्यात् ॥ परे तु श्रोत्रादीन्द्रियाणि किं मुख्यप्राणस्य वृत्तिभेदा? उत तत्त्वान्तराणीति विचारयन्दि “एतस्यैव सर्वेरूपमभव” न्निति श्रुत्या पूर्वपक्षं वदन्ति तत्रैव परस्परसंवादनिष्क्रमणादिप्रतिपादकपूर्वापरवाक्यैर्वृत्तिभेदशङ्काव्युपासात् तदपर्यालोचनेनोच्यमानः पूर्वपक्षो मन्दः । अन्ये तु कतिपयेष्वपि नेन्द्रियत्वम्, एकप्रवृत्तिनिमित्ताभावादिति पूर्वपक्ष एव शिरोन्तरं कल्पयन्ति तच्चातिमन्दम् इन्द्रियशब्दस्य निर्विषयत्वप्रसङ्गात्, अतः केनापि निमित्तेन भवितव्यमिति कृत्वा तस्य सार्वत्रिकत्वोसार्वत्रिकत्वाभ्यां पूर्वपक्षसिद्धान्तवर्णनं न्याय्यम् पुरुषाधीनकरणत्वमिन्द्रियत्वं, बुद्धिप्राणयोस्तदधीनत्वाभावात् कर्तर्यन्तर्भाव इति चाहुः, तदप्ययुक्तम्- उत्पत्तिस्थितिविनाशेषु चेत् पुरुषाधीनत्वाभावः; स वागादिष्वपि तुल्यः, प्रवृत्तौ चेत् कतिपयप्रवृत्तिषु पुरुषाधीनत्वाभावो मन आदीनामप्यविशिष्टः- भयाद्युत्पादने पुरुषाधीनत्वाभावात्, अतो मन आदीनामपि कर्तृकोटिनिवेशप्रसङ्गः, पुरुषादीनकतिपयवृत्तित्वं तेषामस्तीति चेत्प्रा- णसंयमनादिप्रवृत्तिषु पुरुषाधीनत्वं बुद्धिप्राणयोश्चास्ति, अतो न कर्त्रन्तर्भावः । देहदारकत्वं प्राणत्वमित्यप्ययुक्तं- चक्षुश्श्रोत्रादीनां देहधारकत्वाभावात्, चक्षुरादीनामपि कदाचिछ्रमदर्शनात् तदुपरतौ देहानुत्थानाच्च देहधारकत्वमिति चेन्न, स्वस्वविषयेषु व्ययापारभूयस्त्वनिबन्धनस्य श्रमस्य देहधारणनिबन्धत्वाभावात्, निद्रारोगपरिश्रमादिभिरात्मनो देहोत्थापनशक्तेस्तन्दिमित्तप्राणप्ररेणशक्तेर्वा प्रतिबद्धत्त्वाद्देहानुत्थानम्, न तु वागादीनां देहधारणश्रान्तत्वात् ॥16॥

॥ इन्द्रियाधिकरणं समाप्तम् ॥