ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ॥ 13 ॥ अवान्तरसङ्गतिं वदन्विेषयं शोधयति - सश्रेष्ठानामिति । इयत्तासङ्ख्या, परिमाणं सङ्खयातानां प्रत्येकं परिमितिः, जीवस्याग्न्यादिदेवतानां च प्राणविषयमधिष्ठानं किं स्वायत्तम्? उत परमारमायत्तं? तेषां तत्र नैरपेक्ष्यप्रतीतिः समीचीना? उत भ्रान्दिभूलेति, समीचीनत्वे स्वायत्तता, भ्रान्तिमूलत्वे परमात्माधीनता । नैरपेक्ष्यात् - जीवस्याप्याराध्यत्वात्तस्याभिमतफलप्रदत्वादिति भावः ॥ * ॥ परात्तु तच्छ्रुतेरित्यधिकरणे जीवस्य परायत्तकर्तृत्वे सिद्धेऽप्यत्र प्राणवच्छब्देन जीवस्योपादानं दृष्टान्ततयेति मन्तव्यम् ।
॥ तस्य च नित्यत्वात् ॥ 14 ॥ आदिशब्देन “स ईशोऽस्य जगतो नित्यमेव” इत्यादिविवक्षितम्, अग्न्यादीनां
देवतानां स्वरूपे स्वतः सिद्धे इन्द्रियाद्यधिष्ठानमात्रमेव परायत्तमिति न कथ्यते, अपि तु तेषां सत्ताऽपि परमात्मायत्ता, किं पुनरिन्द्रियाद्यधिष्ठानस्य परायत्तत्वमित्यर्थः - विष्टभ्याहमिति । अविशेषेण कृत्स्नं जगदवष्टभ्येति वचनाज्जगत्त्वप्रयुक्तं भगवदायत्तत्वमिति सिद्धम् । । सर्वेऽपि परे त्वेतदधिकरणमेवं वणर्यन्ति, सर्वे प्राणा अग्न्यादिभिरनधिष्ठिताः कार्य्यकाराः स्वमहिम्नैव कार्यकरत्वोपपत्तेः, अन्यथाऽग्न्यादीनामेव भोक्तृत्वप्रसङ्गादिति पूर्वपक्षं कृत्वा श्रुतिवशात्तदधिष्ठिताः कार्यकरा इति सिद्धन्तयति “प्राणवता शब्दा"दिति सूत्रान्तरम् अग्न्यादीनां भोक्तृत्वप्रसङ्गपरिहारपरं व्याचक्षते, वागादीनां प्राणवता सम्बन्धः, “अय यो वेदेदं जिघ्राणि” इत्यादिशब्दादिति तस्य जीवस्य शरीरे भोक्तृत्वेन नित्यत्वम्, अग्नत्यादीनां तु स्वपादावपक्रमणादिति चरमं सूत्रं वर्णयन्ति तदयुक्तम “अभिमानिव्यपदेशस्तु विशेशनुगतिभ्या” मित्याग्न्याद्यधिष्ठानस्योक्तत्वात्, तस्य तत्रानपाकृतत्वाच्च सालक्षण्यनियम एव हि तत्र निरस्तः । जीवस्य तदधिष्ठातृत्वं च “उपादानाद्विहारोपदेशाच्च” इत्युक्तम् । अग्न्यादीनां भोक्तृत्वप्रसङ्गः परिहर्त्तव्य इति चेन्न- वागादीनामग्न्यादिदेहस्थत्वाभावेन तैस्तासां भोक्तृत्वाप्रसङ्गात्, स्वदेहस्थेन्द्रियाणां हि भोगसाधनत्वम् इह तत्परिहाराश्रवणाच्च तत्परिहारो विवक्षित इति चेन्न- इह तत्परिहारैकान्जतत्वाभावात्सूत्राक्षराणाम् इहाभिप्रेततया वर्णितस्य परिहारस्य अभिमानिव्यपदेशसूत्रेणैवाभिप्रेतत्वोपपत्तेः, परमात्माधीनत्वस्य श्रुतिसिद्धत्वस्य निरूपणीयत्वाच्च तद्विषयत्वमेव युक्तं, तथा च सति “प्राणवता शब्दा” दित्यस्य पृथक्सूत्रत्वाभावोऽर्थवादेव भवति ॥
॥ ज्योतिराद्यधिष्ठानाधिकरणं समाप्तम् ॥