30 श्रेष्ठाणुत्वाधिकरणम्

॥ अणुश्च ॥ किमयं पाणः सर्वगतः? ऊताणुः?, किं “सम एभिर्लोकै” रित्यानन्त्यव्यपदेशो विभुत्वं गयमति, नेति उत्क्रा न्तिश्रवणमानन्त्यस्य गौणतामवगमयति नेति यदा नावगमयति- तदानन्त्यव्यपदेशस्य विभुत्वगमकत्वात्सर्वगतः, यदा गौणत्वं गमयति- तदाऽनन्त्योक्तेर्गौणत्वादणुरिति, “सम एभिन्त्रिभि” रित्यादिवाक्यानि नैकत्र क्रमपठितानि “श्रेष्ठश्चे” ति सूत्रे श्रुत्या पूर्वपक्षोत्यानेऽपि परिहारः पूर्वाधिकरणेन तुल्यः, एकत्वावदारणादिभिरुत्पविमत्तत्वे सिद्धे सृष्टेः प्रागवस्थानवावयस्य ब्रह्मपरत्वोपपानात् “अणवश्चे"त्यत्रानन्त्यश्रत्तेरुपासनार्थतया निर्वाहः कृतः, न तथाऽस्य निर्वाह इतीदमधिकरणान्तरम्॥ परैरानन्त्यश्रुतेस्समष्टिविषयतया हिरण्यगर्भविषयतया वृत्तिविषयतया च निर्वाहः कृतः, हिरण्यगर्भस्य तच्छरीरपरिच्छिन्नप्राणसमष्टेश्च वृत्तेश्च शरीरावच्छिन्नत्वादेव विभुत्वायोगात् प्रभावोत्कर्षपरत्वेन निवाह उपपन्नः ॥

॥ श्रेष्ठाणुत्वाधिकरणं समाप्तम् ॥