29 वायुक्रियाधिकरणम्

न वायुक्रिये पृथगुपदेशात् ॥ 8 ॥ मुख्यप्राणो वायुमात्रम्? उत वायुक्रिया? उतावस्ताविशेषषापन्नो वायुः? इति श्रुतिलोकप्रसिद्धिपृथगुपदेशतत्त्वसङ्खयाप्रसिद्धीनां कस्मिन् पक्षे सामञ्जस्यमिति वायुमात्रत्वपक्षे वायुक्रियात्वपक्षे वा सामञ्जस्यमस्ति चेत् तयोतन्यतरस्य सिद्धिः, अवस्थाविोषापन्नवायुपक्षे सामञ्जस्यं चेत् स एव सिद्धान्तः । “पृथगुपदेशात्” इति सूत्रखण्डे पृथगुपदेशं दर्शयति । एतस्मादिति - स्वं वायुरिति पृथगुपदेशान्न वायुमात्रमत्यर्थः । तत एवेति क्रियात्वप्रतिक्षेपः - तैः सह पृथग्द्रव्यतयोपदिश्यत इति । द्रव्योत्पत्तिप्रकरणत्वात्तेजःप्रभृतीनां क्रियाः पृथगुपदिश्यन्ते चेत्- द्रव्यतयोपदिश्येरन्, न च तद्युक्तम् अतः क्रियाया अद्रव्यत्वेन पृथगुपदेशासम्भवात् पृथगुपदिष्टः प्राणो न वायुक्रियेत्यर्थः ॥ * ॥ उत्तरसूत्रमवतारयति - किमयमिति । अवस्थाविशेषापन्नो वायुः प्राण इत्युक्तम्, अवस्थान्तरापत्तिश्चाग्न्यादेरिव वायुत्वप्रहाणेनैव स्यादिति हि शङ्का स्यात् ।

चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ 9 ॥ अनेन बहुश्रुतिषु शिष्ट्यादि विवक्षितं, श्रुतिभेदेन सह शिष्टयो बह्वयः विशिष्याभिधानानि च बहूनीति सूत्रबहुवचनतात्पय्यर्मित्यभिप्रायेणोक्तं - प्राणसम्वादादिष्विति । मध्यमः प्राण इत्यादिष्विति च - अनन्तरसूत्रविवरिष्यमाणकरणतुल्योपकारसूचनार्थं वा बहुवचनम्, अग्रयप्रायन्यायमभिप्रेत्याह - तत्सजातीयत्वे हीति । प्राणेति - एष्वयं मुख्यं मुख्य इत्युक्ते मुख्यस्य सतस्तत्सजातीयत्वं हि प्रतीयते, यथा भूतत्वाप्रहाणहनैव शरीरत्वावस्था भवति, तथा वायुत्वाप्रहाणे ऽप्यवस्थान्तरं जीवोपकरणत्वलक्षणं दर्शितम्, जीवोपकरणत्वावस्थाया वायुत्वाप्रहाणपूर्वकत्वं “यः प्राणः स वायुः इति श्रुत्याऽवगम्यते । अनन्तरसूत्रशङ्कामाह - चक्षुरादिवदिति ।

अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ 10 ॥ अकरणत्वादिति पूर्वपक्षे हेतुः, शैथिल्याभिधानाच्छ्रुतिः क्रियां दर्शयतीत्यन्वयः ॥ * ॥ अनन्तरसूत्रशङ्कामाह - नन्वेवमिति ।

॥ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ 11 ॥ दृष्टान्तदार्ष्टान्तिकद्वयमपि वेदसिद्धम् । काम इत्यादि - कामः- इच्छा, विचिकित्सा-सन्देहः, श्रद्धा- त्वरा, धीश्चिन्ता, कामादयो ज्ञानावस्थाविशेषाः, तत्तदवस्थज्ञानहेतुर्मनः, इतीदं तैः शब्दैरुच्यते, तत्तद्धेतुत्वं मनोऽवस्था ॥ परे तु “न वायुक्रिये” इत्यत्र क्रियाशब्देन सर्वकरणसामान्यवृत्तिः प्राण इति पक्ष उच्यत इत्याहुः, तदयुक्तं करणव्यापारोपरतिकालेऽपि प्राणवृत्तेर्दर्शनेन शङ्कानुदयद्वागादीनां प्राणं प्रति गुणभावश्रवणाच्च, प्राणस्यापि जीववत्स्वातन्त्र्यप्रसङ्गपरिहारपरं च “चक्षुरादिव"दिति सूत्रं वर्णयन्ति ततोऽप्यग्निवद्भूतान्तरत्वशङ्कापरिहारपरत्वमुचितम्, स्वातन्त्र्े व्युदस्तेऽपि तस्याः शङ्कायाः स्थितत्वात् करणत्वेन तस्यां परिहृतायां स्वातन्त्र्यशङ्काया दूरोत्सारितत्वात्, आदिशब्दस्य चाचेतनत्वादिग्राहकत्वादपि विशिष्याभिदानपरत्वमुचितम्, श्रुतिसिद्धहेतोः सहशिष्टतासाजात्येन फटिति धीस्थत्वात् अचेतनत्वादिकस्य हेतोर्भूतान्तरशङ्कानिवारणासामर्थ्याच्च प्राणस्य चक्षुरादिवत्करणत्वे रूपादिवत्प्रतीतिविषयान्तरप्रसङ्गपरिहारपरत्म् “अकरणत्वा” दिति सूत्रमाहुः, विषयान्तरप्रसङ्गदोषो नास्ति चक्षुरादिवद्विषयपरिच्छेदेन करणत्वाभावात् प्रमाणान्तरेष्वसम्भावितं कार्य्य हि श्रुतिर्दर्शयतीति, तदयुक्तं परिहर्त्तव्याशङ्काेदयाभावात्, परिच्छेद्यविषयान्तरप्रसङ्गो न शङ्क्यः- करणत्वेऽपि वागादीनां तदभावात्, वागादीनां वक्तव्यदातव्यगन्तव्यादिवदवच्छेद्यविषयान्तरं शङ्कयमिति चेन्न, तस्य निरसनीयत्वाभावात्, देहेन्द्रियादिकं हि धार्य्यत्वेन तदवच्छेद्यविषयः स तु वक्तव्य इति चेत्- तदा नीमुपकारविशेषाकाङ्क्षायां सूत्रावतरणमुक्तं भवतीति सिद्धं नस्समीहितम् । अवच्छेद्यविषयाभावेनाकररत्वादित्यध्याहारदोषश्च, “पञ्चवृत्ति” रिति सूत्रस्य कार्य्यविशेषसर्मपणमुखेनोपकारकत्वपरत्वादपि शङ्काधिशेषपरिहारपरत्वं युक्तं, तथा सत्युपकारविशेषस्यार्थसिद्धत्वात् “तथा हि दर्शयती” ति पूर्वसूत्रितांशेनोपकारवर्गस्य सङ्गृहीतत्वादेकस्य नानावृत्तित्वे दृष्टान्तः पञ्चवृत्तित्वदृष्टान्त इति तु निर्बन्धोऽनुपपन्नः- श्रोत्राद्यनुरोदमनपेक्ष्य भूतभविष्यदादिवृत्तिसम्भावनया वृत्तिपञ्चकातिरेकात्, प्रमाणविपर्ययविकल्पनिद्रास्मृतयो वृत्तय इति चायुक्तं सङ्कल्पस्यातिरिक्तत्वात् अत औचित्याच्छ्रौतेऽर्थे श्रौतदृष्टान्जत एव सङ्खयांनादरेण स्वीकर्त्तव्यः, सङ्खयाविशेषनिर्बन्धस्य साध्यानुपयोगाच्च । अन्ये तु प्रथमजस्य महत्तत्त्वस्य राजसो भागः प्राणः, स वाथ्वधिष्ठानक उछ्वासादिरूपेण तत्प्रेरक इति सिद्धान्तयन्ति तदयुक्तं- महत्तत्त्वराजसंशस्य प्राणत्वे प्रमाणाभावात् “यः प्राणः स वायु"रिति श्रुतिविरोदाच्च अत्र यन्मुकुटं तत्सुवर्णमिति वद्वायुकार्य्यत्वं हि प्रतीयते, प्राणस्य वाय्वधिष्ठानकत्वं तत्रोच्यत इति चेन्न, अशाब्दत्वात्, बुख्यार्थस्य भञ्जकप्रमाणाभावाच्च, सुषुप्तौ प्राणवःयुस्पन्दहेतुत्वेन तत्कल्पनं ह्यन्यतासिद्धं परमात्मायत्तत्वश्रुतेः क्कचिद्वाक्प्राणमनसां तेजोवन्नाप्यायितत्ववत् प्राणस्य महत्तत्त्वाप्यायितत्वसच्यत इत्यन्यतासिद्धत्वात्तद्वचनं न श्रुतिस्वारस्याभञ्जकम्, अतो वायुविकारभावस्य स्थितत्वादेव भूतान्तरत्वप्रतिक्षेपकमुतरसूत्रं न तु क्रियात्वप्रतिक्षेपपरम्, “न वायुक्रिये” इत्याद्यसूत्रेणैव क्रियात्वस्यापि प्रतिक्षिप्तत्वाच्चेतनवर्गे भूतवर्गे करणवर्गे चान्तर्भावात् क्रियात्वशङ्केति चेन्न- तेजःप्रभृतीनामिव चक्षुरादीनामपि क्रियायाः पृथगुत्पत्तिप्रतिपादनानुपपत्तेः, प्रतिक्षेपकयुकत्यनादरेण शङ्कोदये वायुमात्रत्वशङ्काया अप्यवस्थानात्तद्विषयेणापि सूत्रान्तरेण भवितव्यं, न च क्रियात्वप्रतिक्षेपकयुक्तेराद्यसूत्रेऽनभिधिद्िसतत्वं “न वायुक्रिये” इति प्रतिज्ञाया हेतोश्चानन्वितत्वप्रसङ्गात् “पञ्चवृत्ति"रितिसूत्रमपि वृत्यन्तरायोगेन करणवृत्तित्वप्रतिक्षेपपरमित्यप्ययुक्तं क्रियात्वस्य निरस्तत्वात्, अतः प्राणादीनां तत्त्वान्तरत्वशङ्कापरिहारपरत्वं युक्तम् ॥

॥ वायुक्रियाधिकरणं समाप्तम् ॥