अणवश्च ॥ 6 ॥ किमिन्द्रियाणि सर्वगतानि? उताणुपरिमाणकानि? आनन्त्यश्रवणमुपासनार्थम्? उत नेति उत्क्रान्तिश्रवणं किमणुत्वमवगमयति- नेति । अणुत्वावगमकत्वाभावे तदानन्त्यश्रवणस्य उपासनार्थत्वाभावात्सर्वगतानि, उत्क्रान्तिश्रवणस्याणुत्वगमकत्वे सति आनन्त्यश्रुतेरुपासनार्थत्वादणुरूपाणि । प्राणमनूत्क्रामन्तमिति - अणुत्वं नाम परिच्छिन्नत्वे सत्युपलब्ध्यर्हस्थूलताराहित्यमत्र विवक्षितं, न तु जीवात्मस्वरूपवदन्त्यन्ताल्पत्वं तत्र “बालग्रशतभागस्ये"त्वादिवाक्येनात्यन्ताल्पत्वस्योक्तत्वात्तथाऽभ्युपगमः, अथ तूक्तप्रकारमणुत्वं परिच्छिन्नत्वे सत्यतिस्वच्छत्वम्, उत्क्रान्त्यादिः परिच्छिन्नत्वहेतुः, पार्श्वस्थैरनुपलभ्यमानत्वं स्वच्छत्वहेतुः, एवं विशिष्टमणुत्वमुपपादितं भवति, परिमाणावान्तरभेदे सत्यपि त्वगिन्द्रियस्य सूक्ष्मशरीरव्यापीदृशमणुत्वमस्त्येव “त एते सर्व एव समा” इति समत्वश्रुतिः कार्य्यकरत्वविषया । आनन्त्यश्रुतिनिर्वाहमाह - आनन्त्येति । कार्य्यबाहुल्यमानन्त्यं, काय्यर्बाहुल्यविशेषणविशिष्टतया उपासनार्थमानन्त्यकथनमित्यर्थः । आनन्त्यश्रवणं दैवप्राणविषयमित्यन्ये तदयुक्तं देवशरीरेष्वप्यमीषामेव प्राणानामित उत्क्रान्तानां विद्यमानत्वात् तदतिरिक्तदैवप्राणविषयतया तदभिमतश्रुतेरर्थान्तरपरत्वस्य
पूर्वमेवोपपादितत्वात् दैवप्राणासिद्धेः, “अनन्तानुपास्ते” इति श्रुत्यनुरोधेन उपासनार्थतया निर्वाहस्योपपन्नत्वाच्च ॥ * ॥
श्रेष्ठश्च ॥ 7 ॥ प्राणस्य श्रेष्ठशब्दवाच्यत्वे हेतुं वदन् सूत्रं व्याचष्टे । प्राणेति - प्राणसंवादो नाम छान्दोग्यप्रकरणविशेषः, अस्य शरीरस्थितिहेतुत्वेन श्रैष्ठयम् । उत्पत्तिनिषेधाभावादिति - अनेन जीवजन्मतुल्यत्वं व्यावर्तितं, तस्य ह्युत्पत्तिर्निषिद्धा - आनीदवातमिति । आनीत्” अन प्राणने" इति धातोर्लुङ्, जैवं जीवसम्बन्धि, सिद्धान्ते “स्वधये"त्यनेन “स्वधावत्वं “लोकभाविनी"त्युपवृंहणाल्लक्षमीविशिष्टत्वमुच्यते अधिकशङ्कापरिहाराभावान्नेदं सूत्रमधिकरणान्तरम्, श्रुतिवाक्यं हि पूर्वपक्षावलम्बनं, तत्तत्पूर्वाधिकरणेऽस्मिन्सूत्रे च समानम् । श्रेष्ठश्चेत्यधिकरणान्तरत्वं परैरुक्तमयुक्तं प्रतिज्ञादृष्टान्तावधारणादिभिः श्रुत्या चोत्पत्तौ प्रतिपन्नायामनुत्पत्त्यवगमोऽन्यथानिर्वाह्य इत्यस्मादधिकशङ्कापरिहाराभावात् । अन्ये तु मुख्यप्राण उत्क्रान्तावत्यन्तं लीयते, देहान्तरेऽन्यो मुख्यप्राण उत्पद्यत इति पूर्वपक्षं कृत्वा उत्क्रान्तिश्रवणादुत्पत्तिवादस्य वृत्त्युत्पत्तिविषयतया नात्यन्तनाश इति सिद्धान्तयन्दि तदप्युक्तं तन्मतानुरोधेऽप्यधिकशङ्काया अभावात्, “उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा । अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते” इत्युत्पत्तिश्रवणात् देहान्तरेऽन्यः प्राण उत्पत्स्यत इत्यधिकशङ्केति चेत्, उत्क्रान्दिश्रवणानुरोधेनोत्पत्तिश्रुतिर्वृत्तिलाभाभिप्रायेत्यस्य न्यायस्येन्दिअयेष्वेन सिद्धत्वात्, चतुर्थे लक्षणे “तन्मनः प्राण उत्तरात्, सोऽध्यक्षे तदुपगमादिभ्यः” इत्यत्र प्राणस्य जीवसंश्लेषमात्रस्य निरूपितत्वादिहात्यन्तनाशशङ्काप्रसङ्गाभावादेवोत्क्रान्तिविषयत्वमप्यधिकरणस्यायुक्तम् ।
॥ प्राणाणुत्वाधिकरणं समाप्तम् ॥