26 प्राणोत्पत्त्यधिकरणम्

॥ तथा प्राणाः ॥ 1 ॥ पादसङ्गतिमाह - ब्रह्मव्यतिरिक्तस्येति । ज्ञातृत्वादिकं निरूपयदधिकरणं प्रसाङ्गात्सङ्गतम् तस्मात्तत्पूर्वाधिकरणेन पादसङ्गतिरित्यर्थः, जीवोत्पत्तिनिरूपणान्तरं जीवोपरणानामुत्पत्तिप्रकारो विशोध्यत इति सङ्गतिः । नन्ववधारणप्रतिज्ञानादिभिः सिद्धान्तश्चेत् वियदादिन्यायेन कृत्वादनारम्भणीयता, नैवम् “प्राणा वाव ऋषय” इति श्रुतेरकृतनिर्वाहत्वात्, अत एव हि सिद्धान्तन्यायं प्रागुक्तमभिप्रेत्य तत्र पृथक्सूत्रमनिबध्नन् प्राणविषयनुतिनिर्वाहमेव सूत्रकारोऽप्यबध्नात् किमिन्द्रियाणि जीववन्नोत्पद्यन्ते? उत वियदादिवदुत्पद्यन्त इति, किम् “एतस्माज्जायते” इत्यादि वाक्यं तेषामुत्पत्तिंप्रतिपादयति- नेति, “असद्वा इद"मित्यादिवाक्यं सृष्टेः प्रागिन्द्रियसद्भावमगमयति- नेति । किं प्राणशब्द इन्द्रियपर? उत परमात्मपरः? “प्राणा वाव ऋषयः” इति ऋषिशब्दस्य परमात्मपरतामवगमयति नेति यदा नावगमयति तदा प्राणशब्दस्येन्द्रियपरत्वेन “असद्वा इद"मित्यादिवाक्यस्य प्रागिन्द्रियसद्भावावगमकत्वात् “एतस्मादितिवाक्यस्य तदुत्पत्तिप्रतिपादनासामर्थ्यादिन्द्रियाणि जीववन्नोतनत्पद्यन्त इति पूवः पक्षः । यदाऽवगमयति तदा प्राणशब्दस्य परमात्मपरत्वेन “असद्वा इद"मित्यादिवाक्यस्य सृष्टेः प्रागिन्द्रियसद्भावानवगमकत्वात् “एदतस्मा"दिति वाक्यस्य तदुत्पत्तिप्रतिपादनसामथ्यर्ेन वियदादिवदिन्द्रियाण्युत्पद्यन्त इति सिद्धान्तः । श्रुत्यवगतत्वं कथं सूत्रितम्- न हि श्रुतेरिति सूत्रे पठ्यते तत् कथमेवमुच्यते? इत्यत्राह - तथा प्राणा इति । प्रमाणमपीति विवक्षितश्रुतेरस्पष्टत्वादाह - का पुनरिति । “अत एव प्राण” इत्यादिषु प्राणशब्दः परमात्मवाचको दृष्ट इत्यत्राह - प्राणशब्दे बहुवचनादिति । एवं प्राप्त इति - अनेककारणवाक्यगतैकत्वावधारणस्वारस्यादृषिशब्दस्य द्रष्टरि स्वारस्येन दर्शनकरणे स्वारस्याभावाच्च, “एतस्माज्जायते” इति वाक्ये स्वादीनां मुख्यार्थेन जनिधातुना प्राणस्योत्पत्तिवचनस्वारस्यादुत्पत्त्यादिनिषेधनित्यत्ववचनाभावात्, प्राणशब्दस्यत परमात्मनि प्रायोगसद्भावाच्च परमात्मैवोच्यत इत्यर्थः । अनन्तरसूत्रस्य बहुवचनमात्रनिर्वाहपरत्वेनान्यत्सिद्दान्तयुक्तिजातमर्थसिद्धमिति सूत्रकाराभिप्राय इति तदभिप्रेतं सर्वं स्वयमेवोक्तवान् - वियदादीत्यादिना ॥ * ॥ अनन्तरसूत्रशङ्कामाह - ऋषय इति ।

॥ गौण्यसम्भवात् तत्प्राक् श्रुतेश्च ॥ 2 ॥ बह्वर्थासम्भवमुपपादयति - तस्यैवेति । एवकारेण सूत्रस्थश्चशब्दो व्याख्यातः ॥ * ॥

॥ तत्पूर्वकत्वाद्वाचः ॥ 3 ॥ आत्मा ह्यदृष्टसंस्कारस्थितिकार्य्यदर्शनात्तदानीं कल्प्यते, एवमिन्द्रियकार्य्यं तदा दृश्यते चेत्- इन्द्रियाण्यपि कल्प्येरन्, न च तदित्याह - इतश्चेत्यादि । उक्तार्थे श्रुतिवाक्यं दर्शयन् फलितमर्थमाह - तद्धेदमिति । वाक्कार्य्यमुच्चारणं, श्रोत्रकार्यं श्रवणम्, एवं तत्तत्कर्मज्ञानेन्द्रियकार्य्यं नोपपद्यत इति न तदानीं कार्य्यकल्प्यानीन्द्रियाणीत्यर्थः ॥ परैस्तु पूर्वाधिकरणोक्तस्य सर्वगतबह्वात्मवाददोषस्य जीवं प्रत्यनियमस्य तथा शब्देनातिदेशे देहानियमेन प्राणनियमस्यापि सिद्धत्वेन कृतकरत्वाज्जीव

दनुत्पत्त्यतिदेशे सिद्धान्तविरोधादस्य पूर्वपक्षसूत्रत्वे तद्वयवच्छेदेन सिद्धान्तद्योतकसूत्रान्तराभावाच्च व्यवहितस्यापि वियदधिकरणोक्तस्य सम्भवस्यातिदेशः, “अस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः” इति पूर्वाधिकरणविषयवाक्यस्थलोकादिदृष्टान्तीकरणीन प्राणेषु तथाशब्देन तद्धर्मातिदेश इति च व्याख्यातम्; ततोऽप्यव्यवहितजीवानुत्पत्त्यतिदेशेन पूर्वपक्षसूत्रत्वं स्वारसिकम् प्रासङ्गिकाधिकरणान्तरव्यवधिस्तु न दोषः, । न च सिद्धान्तसूत्रान्तराभावादाद्यस्यैव सिद्धान्तसूत्रत्वमाश्रयणीयम्, बाधकपरिहारसूत्रस्य सिद्धान्त साधकत्वात् सिद्धान्तसाधकयुक्तेरसूत्रितत्वं तु पूर्वोक्तादेव सूत्रप्रणयननैरपेक्ष्यात् बाधकपरिहारस्य त्वनुक्तत्वात् तस्यैव

सूत्रितत्वं युक्तमित्युक्तं, तु शब्दार्थेन च शब्देन सिद्धान्तद्योतनमित्युक्तं दीपे । “गौण्यसम्भवात् तत्प्राक्छ्रुते"श्चेत्येकसूत्रत्वं चात एव युक्तम्, न चासौ च शब्दः समुच्चयार्थः- साधकसाधकत्वेन समुच्चयवाचिनैरपेक्ष्यात्, गौण्याः जन्मश्रुतेरसम्भवादिति योजनो च क्लिष्टा, “गौण्यसम्भवाच्छब्दाच्चे"ति पूर्वपादावगतसूत्रशैली विरुद्धा च, अक्लिष्टरीत्यविरुद्वनिर्वाहे सम्भवति तद्विपरीतनिर्वाहश्चायुक्तः, तत्प्राक्छ्रुतेरितिस्वादिष्वषक्तस्य जन्मशब्दस्य ततः प्राक्छ्रुतेः, स्वादिषु च तस्य मुख्यतायाः स्थापितत्वात्, प्राणोत्पत्तिर्मुख्येति व्याख्यातं, तन्नेयार्थं, ततोऽप्यनेयार्थव्याख्यानं वरं, तच्छब्दस्य स्वादिष्वनुषक्तजन्मशब्दवाचित्वादपि परमात्मपरत्वं स्वारसिकं च, प्राणशब्दस्य बहुवचननिर्वाहश्चापेक्षितः, जन्मशब्दानुषङ्गरूपयुक्तिरप्यपेक्षितेति चेत्सत्यं, सात्वेकत्वावधारणप्रति ज्ञानादिवद् वियदाधिकरणोक्ततयाऽभिप्रायतः सिद्धेति प्राणशब्दनिर्वाह एव कण्ठोकत्या ज्ञाप्यः, क्कचिदुक्तस्याभिप्रायिकत्वं क्कचिदप्यनुक्तस्य कण्ठोक्तत्वमपि हि युक्तं, न क्कचिदुक्तस्य पुनश्चोक्तत्वं, क्कचिदप्यनुक्तस्याभिप्रायिकत्वं च “तत्पूर्वकत्वाद्वाच” इति, “अन्नमयं हि सोम्य मनः आपोमयः प्राणस्तेजोमयी वाक्” इति, वाक्प्राणमनसां तेजोऽबन्नपूर्वकत्वाच्च प्राणस्य कार्य्यत्वमित्युक्तम् तदयुक्तम् आहङ्कारिकस्य मनसो वागिन्द्रियस्य च पृथिवीतेजःकार्य्यत्वायोगाद्वायुविशेषस्य प्राणस्याम्बुकार्य्यत्वाभा वाच्च अत आप्यायनमात्रमत्र विवक्षितं तावता च नोत्पत्तिः सिध्यति । अन्ये त्विन्द्रयसमष्टयुत्पत्तेः पूर्वमेव सिद्धतां मत्वा व्यष्टीन्द्रियाणां जीवस्य स्वापप्रबोधयोरुत्क्रान्तिजन्मनोश्च विलयोत्पत्ति भवतः? उत न भवतः? इति विचारयन्ति तदयुक्तं- समष्टीन्द्रियोत्पत्तिप्रलययोरप्यनिरूपितत्वात् “अष्टौ प्रकृतयः षोडश विकाराः, इन्द्रियाणि तन्मा त्रेषु तन्मात्राणिभूतादौ विलीयन्ते” इत्यादिभिस्तत्र तत्रोदाहृतश्रुतिभिस्तत्सिद्धिरिति चेत्- तर्हि “तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” “अग्रौ देवाः श्रद्धां जुह्वती"ति पूर्वापरपादयोरुदाहृततत्तद्वाक्यैर्व्यष्टीन्द्रियाणामवस्थानसिद्धेर्विचारो निर्विषयः स्यात् वाक्यान्तरेषूत्पत्तिप्रलयावगमात् संशय इति चेत्, तत्समष्टीन्द्रियाणामपि तुल्यम् “असद्वा” इत्यादिवाक्यानां नूयमाणत्वात् पुनरुक्तिश्च भवेत्, “वाङ्मनसि दर्शना” दित्यथिकरणे उत्प्रान्तौ प्राणानां लये श्रुतेऽपि तेषां सद्भावो निश्चितः उक्तं हि भवद्भिरेव “इह लयो न साक्षाद्विवक्ष्यते किन्तु वृत्तिविलोपाय मनसि संश्लेषमात्र"मिति उत्क्रान्तौ लयाभावात् जन्मन्युत्पत्तिश्च नास्ति, सुषुप्तिप्रबोधयोर्लयोत्पत्त्यभावश्च किं पुनर्न्यायसिद्धः, अतः “तथा प्राणाः” इत्यादिसूत्राणां समष्टिविषयत्वमेव युक्तं, तथा शब्देन सुषुप्त्युत्क्रान्तिप्रबोधजन्मसु विषयदादिवत्प्राणा उत्पद्यन्त इत्यपि व्यवहिताधिकरणन्यायातिदेशोऽस्वरसः “असद्वा इद"मित्यादिश्रुतिश्च “सदेवे"त्यादिवाक्यवत् कृत्स्नप्रलयदशाविषयतया प्रतीयते, अतोऽवान्तरप्रलये वा जन्मनः पूर्वकाल वा इन्द्रियसद्भावविषयत्वाश्रयणेन तस्य वाक्यस्य “तत्प्राक्श्रुते"रित्यस्य विषयतयोदाहरणमयुक्तम्, “तत्पूर्वकत्वादिति भोक्तारं पुरस्कृत्य वाङ्मनसादिप्रवृत्तिः- अतः सुषुप्तौ वागादिव्यापारोपरमादस्तमयव्यपदेश इत्युक्तम्, तदप्युक्तं पुनरुक्तेर्दशिर्तत्वात्

॥ * ॥ प्राणोत्पत्त्यधिकरणं समाप्तम् ॥