॥ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ अवान्तरसङ्गतिमाह - जीवस्येति । स्वबुद्ध्या प्रवृतिनिवृत्त्यारम्भक्षमो जीवः कृतप्रयत्नापेक्षेण परेणानुमतिदानेन प्रवर्त्यत इत्युक्तं, तर्हि राजभृत्यादिवदत्यन्तभेदो जीवपरयोः स्यात्, तस्मादभेदश्रुतेयो नरपतिरेव सर्वलोक इति वदौपचारिक्य इति शङ्कय सङ्गतिः । अथ ब्रह्मांश इति - किं विशेष्यैकदेशरूपांशः? किं विशिष्टढकदेशरूपविशेषणांश इति विकल्पो गर्भितः, स तु वक्ष्यते जीवः किं परमात्मनोऽत्यन्तभिन्नः? उताज्ञः परमात्मैव? उतौपाधिकभेद भिन्नः? उत स्वतो भिन्नाभिन्न? उत परमात्मनो विशेषणतयांऽश? इति । तदर्थं कस्मिन् पक्षे भिन्नत्वादि विषयसर्वश्रुतिमुख्यत्वमुपपद्यतेकस्मिन्नेति । यदा पक्षान्तरेषु तदुपपत्तिः तदा तेष्वन्यतमः परिग्राह्यः, यदा विशेषणतयांऽशत्वे तदुपपत्तिस्तदा तदेव परिग्राह्यमिति । कः संशयहेतुरित्यत्राह - श्रुतीति । वादिविप्रतिपत्तेरपि श्रुतिविप्रतिपत्तिमूलत्त्वाछ्रुतिविप्रतिपत्तिरेवात्र हेतुतयोक्त । अधिकरणस्य पौनरुकत्यं शङ्कते - नन्विति । परिहरति - सत्यमिति । पूर्वं हि शरीरवाचिशब्दस्य शरीरपर्यन्ताभिधायित्वसिद्धवत्कारेण जगद्व्र्रह्मणोः शरीरशरीरिभावेनोभयव्यपदेमुख्यत्वमुपपादितम्, तत्र शरीरवाचिशब्दस्य शरीरिपर्यन्ताभिधानमयुक्तम् - आकृत्यधिकरणन्यायाविषयत्वादित्याक्षिष्यांशत्वोपपादनमुखेन शरीरवाचिशब्दस्य शरीरिपर्य्यन्ताभिधानमुपपाद्य तत उभयव्यपदेशमुख्यत्वमिह निर्णीयत इत्यर्थः । किमुभयव्यपदेशमुख्यत्वम् -अनन्यत्वविलक्षणत्वनिश्चयांशत्वनिर्णयसापेक्ष? इत्यत्राह - यावद्धीति । अपृथक्सिद्धप्रकारत्वनिर्णयेनोभयव्यपदेशमुख्यत्वं । प्रभाप्रभावतोरिवापृथक्सिद्धांशाशित्वनिर्णयेन जगद्व्रह्मणोरनन्यत्वसिद्धिः, विशेषणतयांऽशत्वनिर्णयेन विलक्षणत्वसिद्धिरिति भावः । किं तावदित्यादि - अंशवादिनमत्यन्तभेदवादी दूषयति । ब्रह्मर्णोऽश
इति - विशेष्यैकदेशरूपांशपक्षे दूषणमिदम् - यद्वेति । अद्वैते षड्विधतात्पर्य्यङ्गिसम्भवाद्द्वैतान्यथासिद्धेश्च ब्रह्मैव जीव इत्यर्थः । अथवेति - प्रमाणप्रमेयव्यवस्थानुपपत्तिश्च गभिर्ता । राद्धान्तमाह - एवमिति । सौत्रोऽपि शब्दो भेदतात्पर्य्यं द्योतयति । ततश्चेति - उत्कृष्टैः सामानाधिकरण्ये अभेदस्यौपचारिकत्वशङ्का स्यात् इह तु दाशकितवादिेनिकृष्टसामानाधिकरण्यमभेदस्य तात्त्विकत्वं द्योतयतीत्यर्थः । परोक्तान्यथासिद्धि मनूद्य दूषयति । न चेति - प्रमाणान्तरासिद्धं भ्रममुपदिशतीति चेत्तत्राह - न चाखण्डैकरसेति । ब्रह्मणा भ्रमितव्यमित्यन्वयार्थः । प्रमाणान्तरागोचरार्थोपदेशो हि परस्य बोधनार्थः अतः प्रकाणान्तरागोचरं वदन् हि वेदस्त्वमेवं विद्धीति बोधयति, तत्मादपरमार्थभ्रममुपदिशता वेदेन ब्रह्मणा भ्रमितव्यमित्युक्तं भवति । न च तद्युक्तमित्यर्थः, कुत इत्यत्राह - तथा सतीति । भ्रमनिवृत्त्या लोकोज्जीवनप्रवृत्तेन वेदेनाधिकभ्रमान्तरा पादनं व्याहतमित्यर्थः, अभेदस्याप्यन्यथासिद्धिस्तुल्या सोऽयं देवदत्त इत्यादिषु तस्य सिद्धत्वात्, न जीवब्रह्मणोरभेदः प्रत्यक्षसिद्ध इति चेत्, तर्हि जीवब्रह्मणोर्नियाभ्यत्वनियन्तृत्वादिलक्षणभेदोऽपि प्रत्यक्षागोचर इत्यनन्यतासिद्धिः, तथाऽप्यभेदनुतिविरोधात् भेदश्रुतिर्बाध्यत इति चेत्- भेदश्रुतिविरोधादभेदश्रुतिर्वाध्येत अपच्छेदनयात् भेदश्रुतिर्बाधश्चेन्न अनियतविरोधपौर्वापर्यविषयोऽपच्छेदन्यायो नियतविरोधपौर्वापर्य्येषु न हि प्रवर्त्तते, विरोधाधिकरणन्यायात्पूर्वमेव प्रबलमिति पुरस्तादेवोक्तमिति भावः । सत्योपाध्यवच्छिन्नब्रह्मजीवपक्षं दूषयति । उपाध्यवच्छिन्नमित्यादिना ॥42॥
॥ मन्त्रवर्णात् ॥ उभयव्यपदेशमुख्यत्वसिद्धिरूपश्रुत्यर्तापत्त्यांऽशत्वं कल्पितं पूर्वसूत्रे अंशतत्वं कण्ठोक्तमित्यत्रोच्यते । अंशवाचीत्यादि - “नित्यो नित्याना"मित्यादिश्रुतिः “यदाऽऽग्रेयोऽष्टाकपालः” इतिवद्विशिष्टविधिपरा “तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थेन चेदन्येन शिष्टा” इति न्यायात्, जीवानां परस्परभेदस्य लोकसिद्धत्वान्न तत्तच्छास्त्रप्रतिपाद्यमिति चेत्, भेदस्य स्वाभाविकत्वमलौकिकं तस्मान्नित्यानामेव बहुत्वं शास्त्रैकसमधिगम्यमिति जीवानां स्वाभाविकभेदः शास्त्रप्रतिपाद्य एवेति “नित्यो नित्याना"मिति वाक्यसामर्थ्यं हेतुतयाऽऽह - ईश्वरादिति । एवं भेदनित्यत्वे मुक्तौ देवादि कथं भेदो ज्ञायत इत्यत्राह - एवं नित्यानामिति । ज्ञानस्वरूपत्वेन सर्वेषामेकरूपत्वेऽपीति -अनेन जीवाद्वैतपरवाक्यानामाकारैक्यपरत्वं दर्शितं, प्रत्यकत्वेन पराकत्वेन च भेदो गृह्यते इत्यर्थः । अयमर्थः सौत्र इत्याह - असन्ततेरिति ॥43॥
॥ अपि स्मर्यते ॥ तत्रैवानन्तरोक्तं पुरुषोत्तमशब्दनिवर्चनं, तेन क्षराक्षरवैलक्षण्यमंशशब्दार्थस्य तदनुरोधेन वक्तव्यत्वं चाभिप्रेत्य पुरुषोत्तमांशत्वमित्युक्तम् । अनन्तरसूत्रशङ्कामाह - अंशत्वेपीति ॥44॥
॥ प्रकाशादिवत्तु नैवं परः ॥ आदिशब्दोपात्तमाह - गवाश्चेति । द्रव्ययोरपृथक्सिद्धविशेषणविशेष्यभूतयोरंशांशित्वं वदता द्रव्ययोः शरीरात्मनोरप्यंशांशित्वमुक्तं भवतीत्यभिप्रायेणाह - यथा वा देहिन इति । प्रकाशादीनामंशत्वं कथमिति शङ्कायामंशस्वरूपं शिक्षयति । एकवस्त्विति - तादृशांशत्वीं विशेषणविशेष्ययोरपि विशेषणस्यास्तीत्याह - विशिष्टस्यैकस्येति । तदेव वृद्धव्यवहारेण द्रढयति - तथा चेति । ततः किं प्रस्तुतदोषस्पर्शशङ्काया इत्यत्राह - विशेषणविशेष्ययोरिति । बहुलत्वसङ्कुचितत्वविरलत्वविस्तृत्वादिस्वभाववैलक्षण्यं दृश्यत इत्यर्थः । दृष्टान्ते शिक्षितं वैलक्षण्यं दार्ष्टान्तिके दर्शयति । एवमिति - उक्तार्थपरत्वेन सूत्रखण्डमवतारयति । तदितमिति - वाचकत्वप्रकारमाह - यथा भूत इति । तदेव विवृण्वन् सूत्रस्य वाक्यार्थमाह - यथैवहीति । तेनोभयव्यपदेशमुख्यत्वसिद्धिमाह - एवमिति । प्रकाशादिष्वपि विशेष्यपर्य्यन्ताभिधानं दृश्यते यथा भानुः- भानुमान्, ज्योतिः- ज्योतिष्मान्, तेजः- तेजस्वी” इत्यादि । तदेव पक्षे दर्शयति । तत्त्वमसीति - तत्त्वमसीत्यारभ्य त्वमयमात्मेति शब्दा अपीत्यन्तं प्रतिज्ञावाक्यम्, त्वम् अयमात्मेति शब्दा अपि तच्छब्दब्रह्मशब्दवत् तच्छब्दब्रह्मशब्दतुल्यार्था इत्यर्थः । जीवशरीरकेत्यादिना हेतुरुच्यते । प्रागेव प्रपञ्चित इति - अत्रैव वक्तव्यं सूत्राभिप्रेतं सर्वं पूर्वमुक्तमित्यर्थः ॥45॥
॥ स्मरन्ति च ॥ “अपि स्मर्यते” इति सूत्रेंऽशत्वमात्रे स्मृतिवचनमुक्तम्, अस्मिन्सूत्रे विशिष्टैकदेशविशेषणरूपांशत्वेऽऽपि स्मृतिवचनमुच्यत इति भिदा । तदेतदभिप्रेत्याह - एवमिति । चार्थमाह - चकारादिति । श्रुतिस्मृतिवचनयोर्द्वयोरपि वक्तव्यत्वे सति दृष्टान्तोपादानमुखेन विशदीकारातिशयात्स्मृतिवचनं सूत्रे कण्ठोक्तम् ॥ * ॥ अनन्तरसूत्रशङ्कामाह - एवमिति । अंशत्व इत्येतदधिकरणार्थः, ब्रह्मप्रवर्त्यत्व इति पूर्वाधिकरणार्थः ज्ञत्व इति तत्पूर्वाधिकरणार्थश्चोक्तः ॥
॥ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ आदिशब्दार्थमाह - यथा चेति ॥47॥
॥ असन्ततेश्चाव्यतिकरः ॥ समन्तात्ततिस्सन्ततिः- विभुत्वं, तदावोऽसन्ततिः- अणुत्वम्, अन्योन्यभेदादिति च शब्दसमुच्चितो हेतुर्दर्शितः । सूत्राभिप्रायमाह - भ्रान्तब्रह्मेति । परपक्षे भोगव्यवस्थानुपपत्तिरभिप्रेतेत्यर्थः, अविद्यादेराश्रयभेदाभावात्तदनुपपत्तिः “नानाऽऽत्मानो व्यवस्थात्” इति न्यायसूत्रम् किं सूखादीनां स्वरूपभेदो व्यवस्था? उताश्रयभेदः?, न प्रथमः आश्रयभेदानापादकत्वात्, न द्वितीयः- हेतोः साध्याविशिष्टत्वादिति कैश्चिदुच्यते, तन्नप्रतिसन्धानाभावरूपाव्यवस्थेत्यभिप्रेतत्वात्, तिरस्कारकाभावे सति प्रतिसन्धानमात्मैक्यव्यापकम्, तिरस्कारकाभावेऽप्यप्रतिसन्धानादात्मैक्यनिवृत्तिरित्यर्थः । अनन्तरसूत्रशङ्कामाह - नन्विति ।
॥ आभास एव च ॥ उपाधिभेदाद्वयवस्थेत्यत्राह - अविद्येति । तिरोधानेद्येव नोपपद्यते, उपपन्नेऽपि व्यवस्था नोपपद्यत इत्यर्थः ॥ * ॥ अनन्तरसूत्रशङ्कामाह - पारमार्थिकेति । इदमप्याशङ्क्याहेत्यपि शब्दार्थः ॥
॥ अदृष्टानियमात् ॥ प्रदेशभेदोऽस्तीत्यत्राह - उपाधिभिरिति । उपाध्याश्रयस्यैकत्वात्तस्य चाच्छेद्यत्वाद्वयवस्थानुपपत्तिरित्यर्थः ॥
॥अभिसन्धयादिष्वपि चैवम् ॥ च शब्दोऽवधारणे एवमेवेत्यर्थः । अभिसन्धिः- सङ्कल्पः, आदिशब्दादुद्योगानुष्ठानादिकं विवक्षितम् । उक्तादेवेति - अच्छेद्यत्वात् सर्वप्रदेशानां ब्रह्मस्वरूपभूतप्रदेशत्वादेवेत्यर्थः ॥ * ॥
॥ प्रदेशभेदादिति चेन्नान्तर्भावात् ॥ जीवानामन्योन्यभेदव्यतिकरमाह - उपाधीनामिति । एतेषां भोगादयो ब्रह्मणि स्युरित्याह - प्रदेशभेदेनेति । जीवेश्वरव्यतिकर उक्तो भवति, असन्ततेश्चे"त्यादिसूत्राणां साङ्ख्यादिष्युदासपरत्वं परोक्त पौनरुकत्येन दूषयति - पूर्वत्रेत्यादिना ॥ परे तु पूर्वाधिकरणे कारयितृत्वश्रुत्यादिभिर्जीवस्य परायत्तप्रवृत्तित्वे सिद्धे जीवेश्वरसम्बन्धनिरूपणपरमधिकरणं वर्णयन्ति, तन्मर्तेऽशांशिभावोऽनुपपन्नः, जीवेश्वरयोरुभयोरपि सन्मात्रब्रह्मण्यविद्याकल्पितत्वात् रज्जुकल्पितयोः सर्पभूदलनयोरिव मिथोंऽशांशिभावानुपपत्तेः, तयोर्निहीनोत्कृष्टोपाधिकल्पितत्वेऽपि वृहदल्पघटयोरिवाशांशिभावानुपपत्तेः, तयोर्निहीनोत्कृष्टोपाधिकल्पितत्वेऽपि वृहदल्पघटयोरिवांशांशिभावो न घटते, अत एव पादोऽस्येति श्रुतिः, ममैवांश इति स्मृतिश्च न सङ्गच्छते, तयोः सहस्त्रशीर्षत्वादिगुणकमहापुरुषविषयत्वात्, अस्य ममेति पदयोर्निर्विशेषपरत्वे लक्षणा, निर्विशेषचिन्मात्रस्यापि न जीवं प्रत्यशित्वं युक्तं स्थाणावध्यस्तं पुरुषं प्रति स्थाणोरंशित्वप्रसिद्धभावाद्, ग्रन्थविरोधश्चजीवेश्वरसम्बन्धनिरूपणपरत्वाभ्युपगमात् श्रुतिस्मृतिसूत्रस्वारस्यविरोधश्च । अंश इवांश इति विवक्षितत्वादंशाब्दो ऽप्यमुख्य इति चेत्- मुख्ये सम्भवस्यमुख्यत्वमेव दोषः, नानात्वैकत्वव्यपदेशाभ्यां समर्थनीयमंशत्वञ्च कस्य, न तावदुपधेः- तस्यापारमार्थिकस्यैक्यायोगात्, न चोपाध्युपलक्षितब्रह्मणः- तस्याभिन्नतया नानात्वाभावात्, नाप्युपाधिविशिष्टस्य,
तस्य स्वात्मानं प्रत्यंशत्वानुपपत्तेः नाप्यनुपहितस्वरूपं प्रत्युपहितस्वरूपस्यांशत्वं वस्तुनि स्वतोंऽशभेदाभावेन उपहितानुपहितविभागानुपपत्तेः, कृत्स्नमुपहितमनुपहितं वा स्यात् न चाधिष्ठानं प्रत्यध्यस्तस्यां शत्वम्, अधिष्ठानमात्रस्यांशित्वं स्थाणोरिवानुपपन्नमिति ह्युक्तम् जीवेश्वरयोर्वस्तुतो भेदाभावेन जीवगतदुःखेनेश्वरस्य
दुःखित्वमाशङ्कय “प्रकाशादिव"दितिसूत्रमालोकाकाशरविमण्डलेष्वङ्गुलिघयकरकतरङ्गादिगतैर्ह्रस्वत्वमहत्त्वगमनागमनकम्पादिभिरस्पृष्टत्ववज्जीवदुःखैरीश्वरस्यास्पर्श इति परिहारपरं व्याख्यातम् तच्चायुक्तम्, ईश्वरस्य सर्वज्ञत्वाभ्युपगमात्, सर्वान् जीवानात्मनोऽनन्यत्वेन जानतस्तस्य जीवगतदुःखाकारेण दुःखिताया दुर्निवारत्वात्, स्वगतत्वेन दुःखसाक्षात्कर्तृत्वं हि दुःखित्वम्, दुःखं मिथ्याभूतमिति चेत्- जीव स्यापि तन्मिथ्येति जीवतुल्यत्वं स्यात्, ईश्वरो मिथ्यात्वेन जानातीति चेत्- श्रुतवेदान्तस्य मुमुक्षोर्बाधितानुवृत्ताविद्यस्य शिरस्ततोदादिवदीश्वरस्य दुःखमवर्जनीयं स्यात्, अश्रुज्ञापरिहारावहममेत्यविद्याकृताभिमानप्रयुक्तौ, एकत्वदर्शिनोऽभिमानरहितस्य न शास्त्रनियोज्यत्वमिति चानुपपन्नम् “विप्राकृतिविचेष्टितं, सतां मार्गमदूषयन्नित्यादिभिरादिभरतपराशरवसिष्ठादीनां शास्त्रानुसारित्वदर्शनात् “स स्वल्वेवं वर्त्तयन् यायदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तव” इति ब्रह्मविद एव यावच्छरीरावसानं शास्त्रवश्यत्वावगमाच्छ, अयुक्तावस्थायां क्षुदादिपरिहारार्थमोदनादौ व्याप्रियमाणस्य शास्त्रीयानुष्ठानावसरेऽभिमानविरहादनन्वयस्य वक्तुमशक्यत्वाच्च “असन्ततेश्चाव्यतिकर” इति उपाधीनां सर्व सन्त्वाभावान्न तत्तत्सुखादिव्यतिकर इत्युक्तम् तञ्चायुक्तं सौभरिप्रभृतीनामिवात्मैकत्वे सुखादिव्यतिकरप्रसङ्गात् सौभरिशरीरेषु नान्तःकरणभेद इति चेन्न- अणोरन्तःकरणस्य युगपद्वहुशरीरसंसर्गानुपपत्तेः । ननु परिच्छिन्नत्वे सत्यनुपलभ्यमानत्वमणुत्वं तच्छैकदा एकशरीरस्येवानेकशरीरसम्बन्धिन एकस्योपपन्नमिति चेत्, न तथा सति जीवगतस्यारग्नमात्रपरिमाणरूपस्याणुत्वस्यान्तःकरणोपाधिकत्वानुपपत्तेः । “आभास” इति परमात्मन आभासः प्रतिबिन्मभूतो जीव इत्युक्तं तदप्युचाक्षुषाणां प्रतिबिम्बाभावादारम्भणाधिकरणदर्शितैर्दूषणान्तरैश्चानुपपन्नम् । अपरेषां पक्षेऽपि “प्रकाशादिवत्, असन्ततेश्च” इति सूत्रद्वयस्य जीवेश्वरव्यतिकरभोगव्यतिकरपरिहारपरत्वं न घटते ईश्वरस्य सार्वज्ञ्याभ्युपगमादन्तःकरणभेदेऽपि सौभरिशरीरेष्वात्मैक्ये भागव्यतिकरदर्शनाच्च “प्रदेशभेदादिति चेत्” इति एकशरीरावच्छिन्नात्मप्रदेशऽदृष्टसमवायात् सुखादिव्यवस्था चायुक्ता । एकशरीरे सर्वात्मां विभूनामन्तर्भावादिति परेषां स्वोक्तदूषणं स्वस्यापि प्राप्नोति । उपाधीनां गत्वरतयैकैकोपाधिषु सर्वात्मप्रदेशान्तर्भावात् अदृष्टस्याप्यनियतत्वेन सुखादिव्यवस्थानुपपत्तेः, ब्रह्मप्रदेशानामुपाधिना छिन्नत्वे तदभावे च समन्वयाधिकरणोक्ता दोषा अनुसन्धेयाः; इहैव हि ते सूत्रकारैर्विवक्षिताः भाष्यकारैस्तु प्रसङ्गात् तत्र दर्शिताः अत इह तेषामनुमन्यासः “असन्तते"श्चत्यादिसूत्राणि सङ्खयादिव्युदासपरत्वेन परैरपरैश्च व्याख्यातानि तदेयुक्तम्, “नित्योपलब्धीत्यादिना पुनरुक्तिप्रसङ्गादित्युक्तम् नित्योपलब्धि” इत्यादि सूत्रद्वयस्यान्यर्थाथवर्णनानुपपत्तिः प्रागेवं दर्शिता, अतस्तयो
र्याथोक्तार्थपरत्वमवर्जनीयम्, तथा सति पुनरुक्तिपरिहाराय “असन्ततेश्च” इत्यादिसूत्राणां कुदृष्टिंव्युदासकत्वमास्थेयम् । अन्येषामपीदमधिकरणं न घटते, नानात्वैकत्वव्यपदेशसाध्यत्वादशांशिभावस्य, किं सन्मात्रस्य ब्रह्मर्णोऽशो जीवः उत ईश्वरस्य । प्रथम भेदव्यपदेशहेतुर्न सिध्यति । सन्मात्रेण जीवस्य भेदव्यपदेशाभावात् ईश्वरादेव हि भेद व्यपदिशन्ति श्रुतयः सन्मात्रादन्यत्वे जीवानामसत्त्वं च प्रसजेत्, श्रुतिस्मृतिस्वारस्यभङ्गश्च; “सहस्त्रशीर्षा पुरुषः, उतामृतत्वस्येशानः, पादोऽस्य विश्वभूतानि, बबैवांशो जीवलोके जीवभूतः सनातन” इतीश्वराशत्वं हि स्वरसतः प्रतीयते द्वितीये कल्पे भवदभ्युपगमविरोधः, ब्रह्मणोंऽशित्वं भोक्तृभायनियन्तृणामंशत्वमपि हि भवदाभिमतं- न तु तेषां परस्परांशांशिभावः; नत्वीश्वरांशस्य वृहत्त्वादंशित्वव्यवहारोपपत्तिः- वृहति मृत्तिकशिंऽशित्वव्यवहारदर्शनादिति चेन्न, वृहति घटे क्षुद्रघटे
प्रत्यंशित्वंव्यवहारादर्शनात्, तत्सदृशितच्छब्दस्य गौणतया वृहत्त्वासाधर्म्येणांशित्वस्यामुख्मत्वाच्चगौणोऽप्यशित्वव्यवहारो वृहत्युपादानद्रव्येऽवस्थान्तरानापन्न एव भवति न त्ववस्थान्तरप्राप्ते, वृहति मृत्पिण्डशि घटत्वाद्यानापन्न एव ह्यंशित्वव्यवहारः- न तु घटत्वेनोपयुक्तेऽपि, एवं वृहन्नऽप्यंशः सन्मात्ररूपश्चेदंशित्वव्यवहारो घटते, स तु नियन्तृत्वरूपावस्थानपन्न इति न तत्र गौणोऽप्यंशित्वव्यवहारो घटते । “प्रकाशादिव” दिति सौरचान्द्रादिप्रकाशमणिमन्त्रौषधादीनां दाहकत्वशक्तिसद्भावासद्भावादिस्वभावस्यवस्था वद्दुः स्वित्वनिर्दुःस्वित्वादिव्यवस्थोपपत्तिर्जीवेश्वरेयोरिति व्याख्यातम् तथा सति स्वभावमात्रे दृष्टान्तं उपन्यस्तः स्यात्, न त्वंशांशिनोः स्वभावव्यवस्थायां दृष्टान्त उक्तः स्यात् ततौ वरमंशांशिभावे स्थित एव स्वभावव्यवस्थायां दृष्टान्तोपन्यासः, अंशांशिभावनिबन्धनाङ्कापरिहारपरत्वात्सूत्रस्य समुदायैकदेशत्वमेवांशशब्दनिमित्तम्, अत एव हि दायविभागे गोमहिषभूहिरण्यादिष्वयं ममांशः- अयमस्यांश इति व्यवहारः विशेष्यांश इति व्यवहारदर्शनादीश्वरस्याप्यंशत्वं त्वन्मते प्रसज्यत इति चेन्न, विशिष्टापेक्षया विशेष्येऽप्यंशशब्दव्यवहारेऽपि विशेषणं प्रति प्रधानतयांशित्वव्यवहारोपपत्तेः, अप्रधानं विशेषणं प्रति अंशत्वव्यवहारानुपपत्तेः, तथा व्यवहाराभावश्च प्राधान्यादेव, अत एव देवदत्तादेर्गोमहिषाद्यपेक्षयांशित्वव्यवहारः, यदा समुदाये प्राधान्यविवक्षा तदा तस्यांशत्वम्, यदा तदेकदेशान्तरे प्राधान्यविवक्षिा, तदा तदेकदेशान्तरस्यांशित्वव्यवहारः; समुदायस्य प्राधान्यं पौष्कल्यलक्षणम्, देवदत्तादेः शेषित्वलक्षणम् विशेष्यस्य त्वाधारत्वादिलक्षणम् संयोगलक्षणसम्बन्धे सत्यपि प्राधान्याविवक्षया हि भूतलस्य गोमहिषहेमाद्यंशित्वव्यवहाराभावः अतः सर्वजीवैरभिन्नत्वं स्वस्य जानत ईश्वरस्यांशभेदे सत्यपि दुःखित्वं भवेत् यथा सौभरेः । सर्वान् जीवान् शरीरत्वेन जानत ईश्वरस्य त्वन्मतेऽपि दुःखित्वं स्यादिति चेन्न- सपक्षाभावात्, शरीरगतदुःखं शरीरिणो देवदत्तादेर्द्दश्यत इति चेन्न, दुःखस्य शरीरगतत्वाभावात् । किं व्रणादिकमेव दुःखम्? उत तज्ज्ञानम्? । प्रथमे व्रणस्यात्मन्यभावान्न शरीरगतस्य शरीरिगतत्वम्, द्वितीये शरीरस्य व्रणज्ञा
नाभावान्न तद्दुःस्वस्यात्मगतत्वमित्युभयथापि दृष्टान्तस्य साध्यविकलता, अतो नेश्वरस्यास्मन्मते दुःखित्वादिप्रसङ्गः ॥ * ॥
॥ अंशाधिकरणं समाप्तम् ॥ 7 ॥
इति श्रीहारीतकुलतिलकवाग्विजयसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयेन
श्रीमद्वरदाचार्यपादसेवारामधिगतभगवद्रामानुजविरचितशारीरकमीमांशंभाष्यहृयदेन श्रीसुदशर्नसूरिणा
विलिखितायां श्रुतप्रकाशिकायां द्वितीयस्याध्यायस्य तृतीयः पादः ॥