॥ परात्तु तच्छ्रुतेः ॥
जीवस्य कर्तृत्वं किं परमात्मायत्तम्? उत स्वायत्तम्? इति । किं परमात्तायत्तत्वे विधिनिषेधशास्त्रानर्थक्यं स्यात्? नेति । यदा स्यात् तदा स्वायत्तं यदा न स्यात् तदा परमात्मायत्तमिति सिद्ध्यति,
॥ परात्तु तच्छ्रुतेः ॥
जीवस्य कर्तृत्वं किं परमात्मायत्तम्? उत स्वायत्तम्? इति । किं परमात्तायत्तत्वे विधिनिषेधशास्त्रानर्थक्यं स्यात्? नेति । यदा स्यात् तदा स्वायत्तं यदा न स्यात् तदा परमात्मायत्तमिति सिद्ध्यति,
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ उद्योगमपक्ष्येति - अनेन प्रथमप्रवृत्तिदशायं परस्योदासीनत्वं दर्शितं, प्रवृत्तस्य प्रवर्त्तनं
ह्यनुमतिः, जीवः स्वयमेवोद्युक्तश्चेत् किमनुमतिदानेनेत्यत्राह - परमात्मानुमितिमिति । उत्तरप्रवृत्तिरेतदनुमतिदानेनैवोपपद्यत इत्यर्थः । विहितप्रतिषिद्धशब्देन विधिनिषेधावुच्येते । आदिशब्दं व्याचष्टे - आदिशब्देनेति । निग्रहानुग्रहौ कोपपअसादौ; भाष्यस्थादिशब्देन तत्तत्फलदानमभिप्रेतम्, परानुमतिसापेक्षत्वे विधिनिषेधविषयत्वानुपपत्तिरिति शङ्कायां परानुमतिदानेनैव प्रवृत्त्युपपत्तौ तत्रापि प्रथमप्रवृत्तस्यैव फलभाकत्वे च दृष्टान्तमाह - यथेति । साधारणे द्रव्ये परानुमत्या स्वांशमादाय राज्ञ उपायने दत्ते तत्प्रसादहेतुकः फलान्वयः प्रथमप्रवृत्तस्यैव दृश्यते, न त्वनुमन्तुः, तथेदमित्यर्थः । अंशे पारतन्त्राद्विधिनिषेधगोचरत्वमिति शङ्का, अंशे स्वातन्त्राद्विधिनिषेधगोचरत्वोपपत्तिरिति परिहारः, अन्यसापेक्षत्वेऽपि रथाकर्षणादिषु विधिनिषेधगोचरत्वं दृष्टम् । पापकर्मस्त्वित्यादि - अन्यत्र दयायाः सविषयत्वादित्यर्थः । एतदुक्तं भवति- यथा द्वयोः पुत्रयोः पित्रादिविभक्तदत्तवित्तक्षेत्रादिमत्त्वेन तत्साकपेक्षत्वेऽपि कस्यचिदपथप्रवृत्तिः, कस्यचित्सुपथप्रवृत्तिश्च तयोरेव फलाय भवति, तद्वदिहापि सर्वजीवानां सामान्येन चिच्छक्तिप्रवृत्तिशकत्योः करणकलेवररूपपरिकरलाभस्य च परमात्माधीनत्वात् कर्तृत्वमात्रं परायत्तं, विशेषकर्तृत्वं च परानुमतिसापेक्षत्वात् परायत्तम्, अंशे स्वातन्त्र्ाज्जीवस्य विधिनिषेधविेयत्वम्, स्वातन्त्र्यं च स्वेच्छानुगुणप्रवृत्तिसामथ्यर्े सत्यनिवार्थ्यत्वम् । इतरसापेक्षत्वेऽपि च विधिनिषेधविषयत्वं फलभाकत्वं च रथाकर्षणादिषु दृष्टम्, इतरसापेक्षत्वे च प्रथमप्रवृत्तस्यैव फलान्वये च दृष्टान्तो दर्शितः । अनुमन्तुः परस्य नियन्तृत्वाद्धर्मिग्राहकबाधाच्च न फलान्वयः, किन्तु जीवस्यैव, लोकेऽप्यनुमन्तुः फलान्वयो नानुमन्तृत्वप्रयुक्तः, अपि तु शास्त्रवश्यत्वप्रयुक्तः, निवर्तनक्षमस्याप्यनुमन्तृत्वं न दोष।, प्रथमप्रवृत्तिफलदानरूपत्वात्तस्य, अल्पानुकूल्येन विपुलापराधसहत्वाहयादिगुणानां सविषयत्वमिति । अत्र चोदयति - नन्विति । कथमनुमन्तृत्वम्- अप्रवृत्तप्रवर्तनरूपं प्रयोजयितृत्वं ह्यस्य दृश्यते, अनुमन्तृत्वे सति कथमिदमुपपद्यत
इत्यर्थः । विषयव्यस्थया परिहरति । उच्यत इति - न्यायकृतं विेयविभागं संवादकोपबअहणवचनेन द्रढयति । यथोक्तमिति - प्रथमप्रवृत्तस्यानुमन्तृत्ववदत्यन्तानुकूलप्रतिकूलयोः प्रयोजयितृत्वमपि फलदानकल्पं, तत्र च हेतुः स्वातन्त्र्यम्, एवं प्रथममुपेक्षकत्वं पश्चादनुमन्तृत्वं, क्कचिद्विषये प्रयोजकत्वं च प्रतिपादितम्, एषां त्रयाणां दोषरूपत्वसाधनमाश्रयासिद्धिधमिर्ग्राहमबाधाभ्यां पूर्वमेव निरस्तम् । ननु चेतनस्य प्राथमिकेच्छाप्रयत्नयोरुत्पत्तौ परमात्मनः कारणत्व
मस्ति वा? न वा? । न चेत्- सर्वकारणत्वभङ्गप्रसङ्गः, किञ्च पुण्यपापप्रवृत्त्यनुगुणेच्छादीनामपि पूर्वकर्मफलरूपत्वात्तदिच्छादिषु कारणत्वाभावे परस्थ सर्वकर्मफलप्रदत्वं च भग्नं स्यात्, अतः प्राथमिकेच्छाप्रयत्नयोरति कारणत्वमीश्वरस्याभ्युपगन्तव्यम्, ततश्च तयोरीश्वरः स्वसङ्कल्पतः कारणं स्यात्, अयमिच्छेदयं प्रथतेतेत्यमोधसङ्कल्पस्य तस्य सङ्कल्पपरतन्त्रतया जीवस्य स्वातन्त्र्ाभावात् कर्मसु कर्तृत्वं तन्निबन्धनं भोक्तृत्वं च न स्यात्, परमात्मन औदासीन्यानुमन्तृत्वप्रयोजयितृत्वावस्थानां वैषम्यं च न स्यात्, प्रवृत्तस्य प्रवर्त्तको ह्मनुमन्ता, अप्रत्तस्य प्रवर्तकश्च प्रयोजयिता, परमात्मनः प्रवर्तकत्वं च न वाद्यूदकादिवत् प्रेरणेन अपि त्विच्छाजननद्वारेण; प्रथमप्रवृत्तिष्विच्छाजनकत्वमस्ति चेत्- उपेक्षकत्वं न स्यात् प्रयोजयितृत्वावस्थायां वैषम्याभावात्, उच्यते- नैते दोषाः प्रसज्येरन् । साधारणोपकारविशेषोपकारवैषम्येण सर्वासामनुपपत्तीनां परिहृतत्वात्, आदावेव करणकलेवरसर्गतत्प्रदानरूपोपकारश्चेतनानां सर्वकार्य्यसाधारणः, पश्चादपि करणकलेवरव्याप्तितद्धारणतत्सामर्थ्यापादनरूप उपकारः सर्वदा भवतीति तन्मुखेन प्राथमिकेच्छादावपि कारणत्वान्न परमात्मनः सर्वकारणत्वहानिः, तत एव न सर्वफलप्रदत्वहानिश्च, तत्तद्देहारम्भकादृष्टवशादेव गुणत्रयोद्भवाभिभवरूपविशेषवासना विशेषोन्मेषश्च जन्मकाल एव सिद्धौ विषयविशेषसन्निधिश्च भोगादृष्टप्रवाहकारितः- कर्मफलानुभवस्य तत्सापेक्षत्वात्, तथा हि गुणविशेषस्य रुचिविशेष हेतुत्वम् “आहाराः सत्विकप्रियाः” “आहारा राजसस्येष्टा” इत्यादिभिरवगम्यते । मनुष्यपशुकृमिकीटादीनामोदनशष्पपूयादिषु रुचिविशेषद्वेषतदभावानां वासनाविशेषाधीनत्वमन्वयव्यतिरेकसिद्धम् । एवं गुणत्रयतारतम्यवासनाविशेषोद्वोधवस्तुस्थ भावविशेषरूपासाधारणकारणसचिवैः साधारणकारणैः प्राथमिकेच्छानिष्पत्तिस्तत एव प्रयत्नश्चेति तयोर्विशेषोपकाराभावादीश्वरस्यौदासीन्यं युक्तम् । ननु तत्तद्भोगादृष्टस्यापीश्वर एव फलप्रद इति विषयसन्निधानादेरपीश्वरकारितत्वात् कथं तस्य तत्रौदासीन्यम्, अभिसन्धिविशेषाभावादिति ब्रूमः ईश्वरः प्राजीनादृष्टफलभूतसुखदुःप्रदानेच्छया विषयसन्निधानादिकं प्रथममापादयति न तु साधनान्तरानुष्ठापनेच्छया, अन्याभिप्रायेण संपादितस्य वस्तुनः पुरुषान्तराभिमतकार्यान्तरोपयोगे सत्यपि पूर्वं तन्निष्पादकपुरुषस्यौदासीन्यं हि दृश्यते । घटनिरीक्षणाय प्रदीपमारोपयन् हि पुरुषः पटार्थिपुरुषान्तरप्रवृत्तावुदासीन एव । तत्र तस्य प्रवर्त्तकत्वनिवर्तकत्वयोरष्य भावात्, एवमीश्वरस्य प्रथमत औदासीन्यमुपपन्नम् । अत एव जीवस्य स्वातन्त्र्यमपि युक्तम्, इच्छाशक्तिमत्त्वे सत्यनिवार्यत्वं हि स्वातन्त्र्यम् । ननु पूर्ववासनातदधीनेच्छापरवशत्वाद्वायूदकादिप्रेरितस्येव न जीवस्य स्वातन्त्र्यम् नैवम् । इच्छोत्पत्तेः प्रवृत्तिसामर्थ्यविनाशकत्वाभावात्वात्, आदनेच्छायां सत्यामपि तस्य विेसंषृक्तत्वविज्ञाने सति तद्विषयेच्छानिवारणसामर्थ्यं हि चेतनस्य दृश्यते, काष्ठविचायको महानिधिलाभोपायज्ञाने सति काष्ठसम्पादनेच्छां निवारयितुं प्रभवति, एवं प्रत्यवायस्य वाऽतिशयिफलान्तरस्यं वा माने सतीच्छान्तरनिवारणसामर्थ्यदर्शनेन पुरुषस्य स्वातन्त्र्ोपपत्तेः कतर्ृत्वं युज्यते । इष्टतमेषु प्रवर्त्तकवासनावत् अनिष्टेषु निवर्त्तकवासनाऽपि हि तस्य विद्यते, अतः कृत्याकरणाकृत्यकरणेष्विच्छानिवारणलक्षमोऽपि प्रत्यवायानादरेण स्वेच्छां न निवारयतीत्येष एवापराधो जीवस्य दण्ड्यत्वे हतुः, शास्त्रीयप्रत्ययवायादिज्ञानसामर्थ्याभावात्तिरश्चा
मशास्त्रवश्यत्वम् । एवं प्रथमेच्छाप्रत्नयोरप्यभग्रस्वातन्त्र्यो जीवः, परमात्मा च तयोरुदासीनः तन्नाभिसन्धिरहितत्वात्, द्वितीयेच्छाप्रयत्नादिषु परमात्माऽभिसन्धिमानेव हेत्वन्तरासन्निधापितमपि विषयं बुद्धौ सन्निधापयति, तत्सन्निधानमेव विशेषोपकारः, स च प्रथमप्रवृत्तिफलदानरूपः तदानीमपि परो जवस्य स्वेच्छानिवारणादिसामर्थ्यं न नाशयति, अतस्तस्य स्वातन्त्र्यम्, ईदृशं विशेषोपकारं प्रथममत एव केषुचिदीश्वरः करोति तत्र प्रयोजयितृत्वमित्यवस्थात्रयवैषम्यम् । नन्वेवं साधारणकारणैरेव वासनाविशेषादिसहकृतैरिच्छाद्युत्पत्तौ सम्भवत्यां किमर्थमीश्वरस्यानुमन्तृत्वादिकमभ्युपगम्यते, उच्यते- यदि वयमनुमन्तृत्वादिकं कल्पयामः- तदानीमेवं चोदनीयं, न तु कल्प्यते किञ्च “अन्तः प्रविष्टः शास्ता जनानाम्, अध्यक्षश्चानुमन्ता च, एष एव साधु कर्म कारयति” इत्यादिश्रुतिबलादभ्युपगम्यते- अतो न कश्चिद्दोषः, तत्र यदुक्तम्- नियमनश्रुतिसङ्कोचः प्रसजेत्- प्रथमनमुपेक्षकत्वादिति न तदनिष्यप्रसञ्चनम्, नियन्तृत्वश्रुतेस्तावान् सङ्कोचो ह्यभिमतः- यावता विधिनिषेधशास्त्रानर्थक्यं परिह्नियेत ततः परं सङ्कोच एव त्वनिष्यः न च सोऽभ्युपगतः । किञ्च चिच्छक्तिं प्रवृत्तिाक्तिं च दत्त्वा शक्तिमत्त्वे सत्यनिवार्य्यत्वलक्षणं स्वातन्त्र्यं जीवस्यापाद्य प्रथमप्रवृत्तौ तूर्ष्णीभावः ईश्वरस्य न स्वातन्त्र्यवैकल्पयावहः किन्तु तदतिशयावह एव, यथाऽमात्यादीनां परिकरवत्त्वं स्वातन्त्र्यं च दत्त्वा स्वयमव्यापृतस्य राज्ञः- तद्वत् न च स्वातन्त्र्यं पराधीनत्त्वं चेति व्याघातः- अमात्यस्वातन्त्रे तदभावात्, तदभावश्च राज्ञा तत्प्रवृत्तेरनिवारणात्,-अत्रायां सङ्ग्रहः- “वैयर्थ्यं यावता न स्याद्विदानप्रतिषेधयोः । नियन्तृत्वश्रुतेस्तावान्सङ्कोचो न त्वतः परः ॥ वाह्यान्तः- करणव्याप्तितच्छख्त्याधानधारणैः । साधारणोपकारैः स्यादिच्छादेः कारणं परः ॥ भोगादृष्टापनीतार्थस्वभावद्वासनानिवतात् । इच्छादेर्मनसोत्पत्तौ युक्तोदासीनता विभोः ॥ अभिसन्ध्यन्तरप्राप्ते वस्तुन्यन्यत्र केनचित् । उपयुक्तेऽप्युदास्ते हि तस्य प्रापयिता पुमान् ॥ सामर्थ्ये सत्यवार्थ्यत्वात्स्वतन्त्रो जीव उच्यते । स ह्योदने विषज्ञानात्स्वेच्छामपि नियच्छति ॥ सन्निधापकवैधुर्येऽप्यर्थं बुद्धिस्थतां नयन् । प्रयोजकोऽनुमन्ता च भवतीशस्तदा तदा ॥ पूर्वप्रवृत्तेश्च फलमनुमत्यादिकं भवेत् । दयादीनां गुणानां च सुलभं विेयान्तरम् ॥ अमात्यस्य स्वतन्त्रत्वे राज्ञस्तन्नापहीयते । एवमेव परस्यापि जीवस्वातन्त्र्यदायिनः । न स्वातन्त्र्यं पराधीन स्वरूपात्प्रच्युतं भवेत् ॥ स्वातन्त्र्यदायिना पुंसा तत्प्रवृत्त्यनिवारणात्” अतो जीवानां स्वातन्त्र्यं, विधिनिषेधशास्त्रसाफल्यं, परमात्मनः सर्वकारणत्वं, सवर्फलप्रदत्वं, निरङ्कुशस्वातन्त्र्यवत्त्वम्, अवस्थात्रय वैषम्यं, दयादिगुणानां विषयवत्त्वं, वैषम्यनैर्घृण्यपरिहार"श्चेति सर्वमुपपन्नम् ॥ * ॥ जीवेन स्वरूपैक्यमभ्युपगच्छतां सर्वेषां सर्वज्ञतया स्वानन्यत्वेन जीवान् जानत ईश्चरस्य सर्वप्रवृत्तिष्वनुमन्तृत्वे हिताकरणाहितकरणदोषप्रसक्तिरनिवार्या, अत इदमधिकरणं विरुद्धम् । ननु जगत ईश्वरशरीरत्वपक्षेऽपि हिताकरणादिदोषः प्रसजेत्, न शरीरगतदोषाणां शरीरण्यप्रसङ्गेन जीवगतदुःखानां परमात्मन्यप्रसङ्गात् ॥
॥ परायत्ताधिकरणं समाप्तम् ॥