23 कर्त्रधिकरणम्

॥ कर्त्ता शास्त्रार्थवत्त्वात्, ॥ अवान्तरसङ्गतिमाह - अयमात्मेति । ज्ञात्तृत्वाद्धि कर्त्तृत्वमतः कर्तृत्वोपयुक्तज्ञातृत्वनिरूपणानन्तरं कर्तृत्वनिरूपणादिह सङ्गतिरिति भावः । किमात्मैव कर्त्ता? उत प्रधानम्? इति, किमात्मनः कर्तृत्व एव ज्योतिष्टोमादिशास्त्राणाम् अर्थवत्त्वम्? उत प्रधानस्य कर्तृत्व? इति, कर्तृत्वनिषेधः किमात्मनः कर्तृत्वे सम्भवति नेति च, यदा प्रधानस्य कर्तृत्वे शास्त्राणामर्थवत्त्वम्, यदा चात्मनः कर्तृत्वे कर्तृत्वनिषेधश्च न सम्भवति तदा प्रधानं कतर्ृ स्यात्, यदात्मन एव कर्तृत्वे शास्त्राणामर्थवत्त्वं कर्तृत्वनिषेधश्च विषयवान् स्यात्, तदानीमात्मैव कर्त्ता स्यात्, हन्ता चेन्मन्यते हन्तुमित्यत्र हन्तुमिति पदमुदन्तद्वितीयान्तम्सेतुं, जन्तुमितिवत्, हन्तारमित्यर्थः ।

आत्मानमित्यध्याहर्त्तव्यमित्याह - हन्तरामिति । अस्मिन्वाक्ये हननक्रियायामेव कर्तृत्वनिषेधः प्रतीयते, नान्यक्रियायामित्यत्राह - तथा चेति । उपबृंहणवाक्ये सर्वक्रियाकतर्ृत्वनिषेधात् “हन्त चेत्” इत्यत्रोक्तं हननमुपलक्षणार्थमित्यर्थः । एवं प्राप्त इत्यादि । शास्त्रार्थवत्त्वात् । शास्त्राणामर्थवत्त्वायेत्यर्थः, प्रयोजनतया हेतुत्वं शास्त्रशब्दस्यावयवार्थेनात्मन एव कर्तृत्वमुपपादयति । शासनाच्चेति - भोक्तुरेव कर्तृत्वाच्चेतनस्यैव भोक्तृत्वाच्छास्त्रस्य बोधजननद्वारा प्रवर्तकत्वादचेतने बोधजननयोगाच्च चेतनः कर्त्तेत्यर्थः । तदुक्तमिति - कर्मविचारे इत्यर्थः । परोक्तश्रुतिवाक्यार्थमाह - यदुक्तमिति । आत्मनो हन्तव्यत्वाभावादस्य हन्तृत्वं नास्तीत्यर्थः स्मृतिवचनस्यार्थमाह - यञ्चेति । प्रकृतेरित्यादिना चोद्यानुवादः । तस्याभिप्रेतार्थमाह - तत्सांसारिकेत्यादि । गुणानामेव कर्तृतेति तस्मन्वचने प्रतीयमानार्थानुवादः । प्राप्ताप्राप्तविवेकेन - अन्वयव्यतिरेकनिरूपणेनेत्यर्थः, गुणानामेव कर्तृतेति वचनस्येदं तात्पर्यंसांसारिकप्रवृत्तिष्वस्य कर्तृत्वमन्वयव्यतिरेकवशात्सत्वरजस्तमस्संसर्गकृतमिति, संसारदशायां प्रवृत्तिः सांसारिकप्रवृत्तिः । गुणसङ्गकृतत्वं स्पष्टयति । तथा चेति - तथेति । केवलम् -अधिष्ठानादिरहितमित्यर्थः “तत्रैव"मित्यादिवचनस्यायात्मनः

कर्तृत्वनिषेधपरत्वभ्रमव्यावृत्त्यर्थम् एवं सति, केवलमिति तधार्थवैशद्यार्थमाह - अधिष्ठानमिति । अधिष्ठानं- रीरं, चेष्ठाशब्देन पञ्चवृत्तिप्राणोलक्ष्यते, सापेक्षे सतीत्यन्तेन “एवं सती"त्यस्य व्याख्यानं,“शरीवाङ्मनोभिर्यत्कमर् प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः” इत्यस्य वचनस्वानन्तरं हि “तत्रैवं सती"त्यादीति वचनम् ॥33॥

॥ उपादानाद्विहारोपदेशाच्च ॥ गृहीत्वेत्युपादानमुक्तं “परिवर्त्तते” इति विहार उक्तः, इन्द्रियप्रेरणे शरीरप्रेरणे च कर्तृत्वमुक्तमित्यर्थः ॥34॥

॥ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ “यज्ञं तनुते कर्मणि तनुते” इति लौकिकवैदिकक्रियाकर्तृत्वमुक्तं । विज्ञानेमेति - तत्राप्युपचरितत्वे सति स एव दोष इति भावः ॥34॥

उपलब्धिवदनियमः ॥ यो यदन्तःकरणो यत्कमर् चक्रे, तदन्तःकरणेनैव तेनानुभाव्यमित्यत्राह - अत एव चेति ॥36॥

शक्तिविपर्ययात् ॥ ततः किमित्यत्राह - भोक्तृत्वं चेति । कथं प्रमाणाभाव इत्यत्राह - पुरुषोऽस्तीति ॥37॥

समाध्यभावाच्च ॥ अचेतदनत्वादपि प्रकृतेः समाधिर्नोपपद्यते, प्रकृतेरन्योऽस्मीत्येवंरूपत्वाच्च नोपपद्यत इत्यर्थः ॥ * ॥ अनन्तरसूत्रशङ्कामाह - नन्विति ।

॥ यथा च तक्षोभयथा ॥ उक्तदूषणं त्वत्पक्ष एव प्रसजतीत्याह - बुद्धेस्त्विति ॥ परे चापरे च “समाध्यभावा” दित्यन्तं सूत्रजातमात्मनः कर्तृत्वसमर्थनपरमधिकरणं वर्णयित्वा “यथा च तक्षोभयथे” ति सूत्रं कर्तृत्वस्यौपाधिकत्वप्रतिपादकमधिकरणान्तरं वर्णयन्ति तत्रोच्यते- “कर्ता शास्त्रे” त्यत्र कर्तृत्वस्य स्वाभाविकतया

पारमार्थ्यं किं प्रतिषिपादयिषितम्? उतौपाधिकत्वेनापारमार्थ्यम्? उत कर्तृत्वमात्रम्? । प्रथमेऽनन्तराधिकरणविरोधः, द्वितीयेऽनन्तरेण पुनरुक्तिः, तत्र ह्यौपाधिकत्वं समर्थनीयं मतं, तृतीये संशयाभावादनारम्भणीयता देहस्य तदतिरिक्तस्य वा कस्यचिदात्मतयाऽभिमतस्य कर्तृत्वं हि सर्वजनसम्मतम्, अहमिदं करोमीति हि सर्वेषां प्रतिपत्तिः । ननु प्रकृतिरेव कर्त्रीति सांख्यपक्षनिराशार्थ आरम्भ इति चेन्न- प्रकृतिगतस्य वान्तःकरणगतस्य वा कर्तृत्वस्याऽऽत्मन्यध्यस्तत्वाभ्युपगमस्य युर्योरविशिष्टत्वात् । ननु प्रकृतिरेव कर्त्रीति तत्पक्षः- अतस्तन्निरासेन बुद्धयुपहित आत्मा कर्तेति समर्थनार्थमधिकरणमिति चेत्- किं बुद्ध्युपधानेन कर्तृत्वं परमात्मन उच्यते? उत जावात्मनाम्? । नाद्यः- अन्तःकरणसृष्टौ बुद्ध्युपधानेन विना कर्तृत्वस्याभ्युपगन्तव्यत्वात्, अन्यथा बुद्धयुपधानात्कर्तृत्वं कर्तृत्वाद् बुद्ध्युपदानमित्यन्योन्याश्रयप्रसङ्गात्, प्रलयावस्थायामन्तःकरणान्तराभ्युपगमे एकत्वावधारणविरोधाच्च नापि द्वितीयः- त्वन्मते बुद्ध्युपधानात् पूर्वं जीवपरमात्मविभागाभावेन जीवगतकर्तृत्वं बुद्ध्युपधाननिबन्धनमिति वक्तुमशक्यत्वात्, जीवत्वं कर्तृत्वं च बुद्ध्युपहितस्य ब्रह्मण इति चेन्न- बुद्धेरनादित्वे महतो लयश्रुतिविगेधात्, आदिमत्त्वे जीवानामादिमत्त्वप्रसङ्गात्, बुद्धिसृष्टावन्योन्याश्रयस्य पूर्वोक्तस्य दुस्तरत्वाच्च । “विज्ञानं यज्ञ” मित्यादिवाक्यविषयस्य “व्यपदेशाच्च क्रियाया” मिति सूत्रस्य विज्ञानशब्दवाच्यजीवस्य कर्तृत्वप्रतिपादकत्वात्, तथा भवद्भिर्व्याख्यातत्वाच्च, विज्ञानशब्दस्य बुद्धिमात्रविषयत्वनिर्बन्धश्चानुपपन्नः न हीदं सूत्रं पूर्वपक्षविषयं व्याख्यातं, तथा सति “यथा च वक्षे” ति सिद्धान्तसूत्रं स्यात् ततश्च तस्य पृथगधिरणत्वानुपपत्तिः, विज्ञानशब्दविषये वक्तव्यं सर्वमानन्दमयाधिकरणे उक्तम् जीवानां ब्रह्मात्मकत्वोपदेशश्च

न कर्तृत्वौपाधिकत्वसाधकः- अन्तःकरणसृष्टौ तदुपधानेन विना ब्रह्मणः कर्तृत्वस्यावश्याभ्युपेयत्वात्, आत्मा कर्त्ता चेत्- हितमेव नियतं कुर्यादिति शङ्कायामिष्टानिष्टोपलब्धिवद्देशकालादृष्टादिवशादनियमेन हिताहितकान्त्वोपपत्तिरित्येतदर्थपरम् “उपलब्धिवदनियम्” इति सूत्रं व्याख्यातं, तदयुक्तं- शङ्कानुत्थानेन परिहर्तव्याभावात्, हितबुध्द्यैव हि सर्वं चेतनः करोति वस्तुतस्त्वहितमिति चेत्- तर्हि तन्न कर्तृत्वे चोद्यं, किन्तु सार्वज्ञ्यदूषणम् अहिते हितबुद्धित्वं, न चात्र संसरतो जीवस्य सार्वज्ञ्यं केनापि विवक्षितम्, अतोऽकर्तृत्वे दूषणान्तरपरत्वमेव सूत्रस्य युक्तम् “शक्तिविपर्ययादितिबुद्धेः कर्तृत्वे करणशक्तिर्हीयेतकर्तृशक्तिश्च स्यात्, अतः करणान्तरं कल्प्यं, करणव्यतिरिक्तकर्तृसद्भावात् नाम्नि विवाद इत्युक्तं तदप्ययुक्तम् । बुद्धेः कर्तृत्वेऽपि मनसः करणत्वसम्भवात् जीवस्य कर्तृत्वासिद्धेः मन एव वृत्तिविशेषाद् बुद्धिशब्दवाच्यमिति चेन्न- बुद्धिशब्दवाच्यमहत्कार्य्याहङ्कारकार्य्यत्वान्मनसः पराशरादयो हि तथा स्मरन्ति वृत्तिविशेषमात्रं चेद् बुद्धिस्तदं चित्तमनसोरिव प्रकृतिविकृतिभावापदेशो न स्यात् । “भूतिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा” इति भूम्यवादीनामिव मनोबुद्धयोरपि पृथक्त्वं प्रतिपाद्यते । समाध्यभावाच्चेति सूत्रमपि “ओमित्यात्मानं ध्यायथ, आत्मा वा अरे द्रष्टव्य” इति समाधिविधिरपि समाधौ कर्तृत्वमात्मनोऽवगमयतीति व्याख्यातं,तत्तु “कर्त्ता शास्त्रार्थवत्त्वा"दित्यस्मादविशिष्टार्थम्- अतः प्रकृतेरन्यत्वेन समाधिविधानमेव विवक्षितम् ॥ यथा च तक्षेति तत्र कर्तृत्वस्यौपाधिकत्वं नाम किं संसारदशायां देहेन्द्रियादिसापेक्षत्वम्? उत मुक्तावननुगतत्वम्? । प्रथमेऽधिकरणानुत्थानं देहादिसापेक्षत्वस्य लोकसिद्धतया निरपेक्षत्वशङ्काऽनुदयात् द्वितीये श्रुतिविरोधः परं ज्योदिरुपसम्पन्नस्य “जक्षत् क्रीडन् रममाण” इति जक्षणादिव्यापारदर्शनात् “सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति, स एकधा भवति त्रिधा भवति” इतीच्छामात्रेणामिलषितनिष्पादकत्वश्रवणाच्च कर्त्तृत्वस्य दुःखरूपत्वात्, तस्य स्वाभाविकत्वे च दुःखादनिर्मोक्ष इति चायुक्तं- स्त्रक्चन्दनाद्युपयोगे कर्तृत्वस्य दुःखरूपत्वा भावात् । ननु न दुःखरूपत्वं विवक्षितं, किन्तु दुःखानुषङ्गव्याप्तत्वत्वमिति चेत् तर्ह्यकतर्ृत्वमपि दुःखानुषक्तमिति दुःखादनिर्मोक्षः स्यात्, तस्य निष्पन्दत्वं हि दुःखहेतुर्दृश्यते, शास्त्रयकर्मस्वकर्तृत्यवं च नरकादिहेतुः श्रूयते । किं चात्मावभावसस्य दुःखव्याप्तिर्दृष्टेति मुक्तावात्मानवभासदुःखानु

भवयोरन्यतरप्रसङ्गः । आगमविरोधाद् व्याप्तिभङ्गश्चेत् कर्तृत्वेऽपि दुःखव्याप्तिर्भज्यतां “विज्ञानं यज्ञ"मिति वाक्यस्य बुद्धिविषयत्वं “व्यपदोच्चे"ति सूत्रस्य पूर्वपक्षविषयत्वाभावादयुक्तमित्युक्तम्, ब्रह्मात्मकत्वोपदेशस्य चाकर्तृत्वसाधकत्वं व्युदस्तम् ॥ अन्ये तु “यथा चे"ति सूत्रं पूर्वसूत्रैरेकाधिकरणमेवावर्णयन्, ते चास्य सूत्रस्य कर्तृत्वाकर्तृत्ववचनानां विषयव्यवस्तापनार्थत्वमाहुः, ततोऽपि कर्तृत्वानुपरतिप्रसङ्गपरिहारार्थत्वं युक्तं तस्य परिहरणीयत्वात्, कर्तृत्वनिषेधवचनानां विषयविभागस्याद्यसूत्रेऽभिप्रेतत्वात्, अन्यथा “शास्त्रफलं प्रयोक्तरि” इति सिद्धे कर्तृभावे “कर्त्ता शास्त्रार्थवत्त्वा"दिति सूत्रवैयर्थ्यप्रसङ्गात्, तक्षदृष्टान्तेन “प्रकृतेः क्रियमाणा"नीत्यादिवचनस्य दुष्पयिहरतया तत्परिहारस्याभिप्रायिकत्त्वस्याभ्युपेत्यत्वात्, अनुपरतिप्रसङ्गपरिहारपत्वेऽप्यस्मिन्सूत्रे विषयविभागस्यार्थसिद्धत्ववर्णनोपपत्तेश्च ॥39॥

॥ कर्त्रधिकरणं समाप्तम् ॥