22 ज्ञाधिकरणम्

॥ ज्ञोऽत एव ॥ अवान्तरसङ्गतिमाह - वियदादिवदिति । जीवस्वरूपस्य निरूपणीयत्वमस्त्वेव, तथाऽपि कार्य्यता

प्रकारनिरूपणत्वाभावात् न पादेन साक्षात्सङ्गतिः, अतो वक्ष्यमाणाधिकरणचतुष्टस्य प्रसङ्गात् सङ्गतिरित्यर्थः, तत्रास्याधिकरणस्य मुखान्तरेणापि सङ्गतिरप्यस्ति जीवस्य धर्मान्यथाभावावलक्षणो विकारो न सम्भवति स्वरूपातिरेकेण ज्ञानाख्यधर्माभावात्, सेयं सङ्गतिरर्थसिद्धेत्यभिप्रेत्य न कण्ठोक्ता । किमित्यादि - किं जीवश्चैत्यमात्रवपुः? उत जडस्वरूप एवागन्तुकचैतन्यम्? उत स्वतो ज्ञाते? ति; किं ज्ञानमात्रवपुष्ट्वे ज्ञानस्वरूपत्वतद्धर्मकत्वपरसर्वश्रुतिसामज्जस्यम्? उतागन्तुकचैतन्यजडस्वरूपैकत्वे? उत स्वतो ज्ञातृत्वैकरूपत्वे? इति ज्ञातृत्वस्य स्वरूपत्वे सर्वत्रोपलब्धिः प्रसज्यते नेति, तदर्थं किं जीवः सर्वगतः? उताणुरिति, अणुत्वे विप्रकृष्टार्थप्रहणाग्रहणे सम्भवतो नेति, एकजातीयद्रव्यवोर्नियतधर्मधर्मिभाव उपपद्यते नेति यदा नोपपद्यते तदा विप्रकृष्टार्थग्रहणाग्रहणासम्भवेन सर्वगतत्वात् सर्वत्रोपलब्धिप्रसङ्गेन ज्ञातृत्वस्य स्वरूपत्वे सर्वश्रुतिसामञ्जस्याभावात् पक्षान्तरयोरन्यातरत् स्वीकार्य्यं स्यात्, यदा धर्मधर्मिभाव उपपद्यते तदा विप्रकृष्टार्थग्रहणाग्रहणासम्भवेनाणुत्वे सिद्धे सर्वत्रोपलम्भाप्रसङ्गात्, सर्वश्रुतिसामञ्जस्येन ज्ञातृत्वस्वरूप आत्मेति सिध्द्यति, चिन्मात्रमिति मात्रचा ज्ञातृतादिव्यावृत्तिः । चिन्मात्रमिति - भावप्रधाननिर्देशः ज्ञानत्वमित्यर्थः । ज्ञातृत्वमेवास्य स्वरूपमिति - ज्ञातृत्वं स्वस्य परस्य चावभावसप्रतिसम्बन्धित्वं, भासमानं वस्तु यस्मै भाति स हि ज्ञाता, तथात्वं ज्ञातृत्वमहंत्वमित्यर्थः, स्वरूपं स्वाभाविकाकारः, ज्ञानं यथा सत्यमित्यादि च पूर्वपक्षेऽनुसन्धेयम् । अपरस्तु कणादमतानुसारीत्यर्थः । सर्वत्र कर्योपलब्धेः बुद्धिसुखदुःखाद्युपलब्धेर्देशान्तरे भोग्यवस्तूत्पत्तिश्च विभुत्वहेतुः तदुत्पत्तिरदृष्टसम्बन्धादेव भवति, निराश्रयस्य धर्मादेस्तत्र सम्बन्धोऽनुपपन्न इति विभुत्वमभ्युपेत्यम् । गतिकल्पनायां प्रमाणभावाच्चेति - गतिकल्पनपक्षेऽगुणत्वं गतिश्चोभयं कल्प्यम्, इतरपक्षे विभुत्वमेव कल्प्यमिति कल्पनालाघवाद्विभुत्वमेवोपपन्नमिति विभुत्वसम्भवादनन्यथासिद्धं गतेः कल्पकं नास्तीति भावः । श्रुतिमाह - श्रुतिपीति । राद्धान्तमाह - एवं प्राप्त इति । ज्ञ एवेत्यादि - अत इति । श्रुतिव्यक्तिभेदेऽप्यतश्शब्दोऽर्थवशादपेक्षितं वाक्यविशेषमुपस्तापयति, एतच्छब्दः प्रकृतजातीयपरामर्शीत्यर्थः “मनसैतान् कामान् पश्यन् रमते, न पश्यो मृत्युं पश्यति” इत्यादयो मुक्तात्मविषयाः “अन्योऽन्तर आत्मा विज्ञानमयः, न विज्ञातुर्विज्ञातेर्विपरिलोपोविद्यत” इत्याद्यनुसन्धेयम् । अनन्तरसूत्रशङ्कामाह - यत्तूक्तमिति ॥19॥

उत्क्रान्तिगत्यागतीनाम् ॥ ये वैकेचेति - उत्क्रान्तिशब्दानन्तरगतिशब्द उत्क्रान्त्यनन्तरभाविगतिपर इति भावः, । अस्मिन् सूत्रे श्रुत्यर्थापत्तिर्दशिता ॥20॥

॥ स्वात्मना चोत्तरयोः ॥ कथञ्चिच्छब्देन तत्राप्यस्वारस्यं सूचितम्, अणुत्वगत्योरुभयोरपि कल्प्यत्वात् परेण कल्पनागौरवमुक्तं, तत्र गमनस्य श्रुतिसिद्धत्वेन कल्प्यत्वं नास्ति अतोऽणुत्वमेव कल्प्यमिति न गौरवम् तत्र विभुत्वकल्पनं श्रुतिविरुद्धम् अणुत्वकल्पनं त्वविरुद्धमिति भिदेत्यर्थः ॥21॥

॥ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ अधिकारः- प्रस्तावः “यस्यानुवित्तः” यस्य जीवस्यानुवित्तः “विद ज्ञाने” उपास्य इत्यर्थः । “यद्वा विदिर्लाभे” प्राप्यः प्रतिबुद्ध आत्माप्राज्ञ आत्मा ॥22॥

॥ स्वशब्दोन्मानाभ्यां च ॥ स्वशब्दः- अणुशब्दः, न त्वणुत्वाक्षेपकशब्द इति भावः । अणुत्वं गतिश्चोभ्यं श्रौतमतो न कल्पनागौरवम्, अन्यतरश्रौतत्वे च न कल्पनागौरवमित्युक्तम् उत्क्रान्तिगत्यागतीनामित्यादिभिः श्रुत्यर्थापत्तिदर्शितास्वशब्दोन्मानाभ्यां चेति श्रुतिर्दर्शिता “बुद्धेरात्मामहान् पर” इत्यत्र बहुश्रुत्यर्थापत्तिविरोधात् पूजावाचित्वाच्च महच्छब्दः प्राधान्यपरः ॥ अनन्तरसूत्रशङ्कामाह - अथ स्यादिति । वेदाना दुःखानुभवः, सुखानुभवस्याप्युपलक्षणमिदम् ॥ 23॥

अविरोधश्चन्दनवत् ॥ वेदनामनुभवतीति - आदनपाकं पचतीतिवत्, यद्वा दुःखमनुभवतीत्यर्थः ॥24॥

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ तत्रैकशतं नाडीनामिति - अनेन एकदेशस्थस्य सकलशरीरव्यापिकर्मकरत्वप्रकारो दर्शितः । न त्विति - हरिचन्दनस्य हृन्नासिकानयनश्रोत्रादिमर्मप्रदेशषु स्थित्याकार्य्यकरत्वं न तु हृन्मात्र इत्यभिप्रायेण न तु चन्दनस्येत्युक्तम् ॥ * ॥ अनन्तरसूत्रावतारायाह - स्वमतेनेति । यद्यप्येकस्मिन्नवयविनि देशविशेषस्थित्या सर्वत्र कार्य्यकरत्वं तथा च सौभर्यादीनां बहुषु देहावयवेष्वणोरात्मनो दोविशेषस्थित्या काय्यर्करत्वं न सिद्ध्यतीत्यभिप्रायेण निर्वाहान्तरोक्तिरिति भावः ॥25॥

गुणाद्वाऽऽलोकवत् ॥ अयुतसिद्धविशेषणस्य कथं देशन्तरे वृत्तिरित्यत्राह - ज्ञातुरिति ॥ * ॥ अनन्तरसूत्रमवतारयति । नन्विति -

॥ व्यतिरेको गन्धवत्तथा च दर्शयति ॥ जानामीति धर्मधर्मिणोः प्रकृतिप्रत्ययवाच्ययोर्भेदानुभवो दशितः तथा चेति सूत्रखण्डं व्याचष्टे । दर्शयति चेति -

॥ पृथगुपदेशात् ॥ सर्वसूत्रे सुरभिकुसुममितिवद्विशिष्यवाचिना शब्देन विशेष्याद्विशेषणतया व्यतिरेक उक्तः, अत्र तु विशेषणविशेष्ययोः पृथक्शब्देनाभिधानमिति भिदा ॥ * ॥ अनन्तरसूत्रशङ्कामाह - यत्त्विति ॥

तद्गुणसारत्वात्तु तद्वयपदेश प्राज्ञवत् ॥ सारशब्देन प्रधानत्वं विवक्षितम्, तच्च यावदात्मभावित्वम्, आनन्दज्ञानयोर्गुणत्वप्रदर्शनार्थं “स एको ब्रह्मण आनन्दः” “यः सर्वज्ञो, विपश्चिते"त्यादि श्रुतिरुदाहृता । गुणवाचिशब्देन गुणयभिधानं लाक्षणिकमित्यत्राह - ॥29॥

॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ न हि गोत्वदयो यावदात्मभानिन इत्यत्राह - स्वरूपनिरूपणेति । अणुत्वादयोऽपि हि यावदात्मभाविन इति तद्वयावृत्त्यर्तं च स्वरूपनिरूपणधर्मत्वादित्युक्तम्, स्वरूपं- धर्मि-धर्मिस्वरूपम्; आत्मशब्दः स्वरूपपरः इत्यर्थः । चकारार्थमाह - (चकारादिति) । अनन्तरसूत्रशङ्कामाह (यच्चोक्तमिति) - ॥30॥

॥ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् । (जागर्यादिष्विति) - अत्रादिशब्देन स्वप्नदशा विवक्षिता । पुंस्त्वशब्देन धातुर्लक्षितः । आदिशब्देन योषितोऽप्युपलक्षणमिति गम्यते । बाल्ये स नास्तीति शङ्कायामाह (सप्तधातुमयं हीति) । ज्ञानस्योपलब्धिर्विषयसम्बन्धसापेक्षेत्युक्तं भवति । विद्यमानस्यानभिव्यक्तस्य कदाचिदभिव्यक्तिमात्रे दृष्टान्तोऽयम् । विषयसम्बन्धार्हत्वं प्रकाशार्हत्वं च तदानीमप्यस्तीति न स्वयंप्रकाशत्वहानिः । एवं स्वयंप्रकाशस्वरूपज्ञानोपलब्धेर्विषयसम्बन्धसापेक्षत्वे अहमर्थस्यापि तथात्वं स्यादित्याशङ्क्याह (सुषुप्त्यादिष्वपीति) । (तस्येति) विषयसम्बन्ध उपलब्धिश्च जागर्यादावित्यर्थः । अहंप्रत्ययगोचरत्वे जडत्वादिप्रसङ्गमाशङ्क्याह (एते चात्मन इति) । नित्योपलब्ध्याद्यप्रसङ्गार्थमाह - (स चायमिति) । (न प्रेत्येति) देहात्माभिमानभ्रमो नास्तीत्यर्थः ॥31।

(सम्प्रतीति) - ज्ञानात्मवादे विभुत्वपक्षे दूषणम्, जडात्मवादे विभुत्वे च दूषणमुभयं सूत्रविवक्षितम् - व्याख्यास्यते च । तत्र प्रथमे पक्षे दूषणं प्रतिजानीते - (सम्प्रतीति) । संप्रति ज्ञानात्मवादे तस्य सर्वगतत्वे दूषणमाह -

॥ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसज्यताम् - कथं नित्यानुपलब्धिप्रसङ्गः - उभयप्रसङ्गो वा कथम् इत्यत्राह - एतदुक्तमिति । विकल्पशिरस्त्रयाभिप्रायेण दूषणत्रयमुच्यत इत्यर्थः । लोके तावदिति - आत्मा कुत्रचिदुपलभ्यते न गङ्गातीरादिषूपलभ्यते; एवं विद्यमानयोरुपलब्ध्यनुपलब्ध्योरुभयोरपि हेतुस्स्यादित्येकं शिरः । उपलब्धेरेव वा अनुपलब्धेरेव वेति - अत्रापि हेतुस्स्यादित्यनुवर्तते, एवं शिरस्त्रयं विवक्षितम्, किमुपलब्धिरेव स्वरूपम्? उतानपलब्धिरेव? उतोभयम्? इत्यर्थः; हेतुशब्दप्रयोगो हेत्वन्तरनैरपेक्ष्यार्थः । उक्तदूषणस्य स्वपक्षास्पर्शित्वमाह -अस्माकमिति । जडात्मपक्षे विभुत्वे दूषणमाह - करणायत्तेति । अदृष्टादेरप्यनियमादिति - तत्तत्कर्मानुष्ठानहेतुभूतशरीराणां सर्वात्मसाधारणत्वाददृष्टानियम इत्यर्थः । उक्तदोषः समान इति - करणादिकं किमुपलब्धेर्हेतुः उतानुपलब्धेः? उतोभयोरिति विकल्प्य पूर्ववद्दूषणं व्यक्तमिति भावः ॥ * ॥ परेषां सूत्राक्षरास्वारस्यं द्रष्ट्टशब्दस्येव ज्ञशब्दस्य ज्ञप्तिवाचित्वाभावात् “धीरो मनीषी ज्ञः प्राज्ञ” इत्याभिधानविदः । अत एवानुत्पन्नत्वेनाविकृतब्रह्मण एवोपाधिना जीवभावेनावस्थानातस्य च चैतन्यस्वरूपत्वादिति व्याख्यानमपि क्लिष्टम्, एतच्छब्देन साध्यतया प्रकृतानुत्पत्तिपरामर्शे तस्याः साक्षादेव ज्ञानस्वरूपत्वसाधकत्वाभावात् तदुपपादकब्रह्मानन्यत्वं, तेन ब्रह्मप्रतिपादकवाक्यजातं तेन तस्य ज्ञानस्वरूपत्वं च लक्षयित्वा तेन परमसाध्यस्योपपादनीयत्वात्साधकतया प्रकृत

श्रुतिपरामर्षित्वं तु युक्तं प्रकृतत्वाविशेषेऽपि पूर्वसूत्रस्था पञ्चमी तुल्यार्थेन प्रत्ययेन साधकविषयस्वप्रकृत्यर्थसाम्यस्य च ज्ञाप्यमानतया योग्यतावशाच्छ्रुतिविशेषे प्रतिपन्ने तस्य व्यवधानेन ज्ञानस्वरूपताप्रतिपादने विलम्बत्रयाभावाच्च ज्ञानमात्रस्वरूपत्वे साध्ये ज्ञातृत्ववादिनीनां धर्मधर्मिभेदनिर्देशपराणां

धर्मनित्यत्ववादिनीनां “जानात्येवायम् अविनाशी वा अरेऽयमात्माऽनुच्छिति धर्मे” त्येवमादीनां श्रुतीनां बोधो दुस्तरः । तत्र नानुच्छितिरेव धर्मतया विवक्षिता, अविनाशीत्यनेन पुनरुक्तिप्रसङ्गात्; अत उच्छेदरहितज्ञानधर्मकत्वं विवक्षितम् । अपरैस्त्वत एवेति पदं ताभ्यः श्रुतिभ्य इति व्याख्यातं तदप्यविरुद्धं श्रुतेरिति तु व्याख्यानं ततोऽप्युचितम्े उत्तरसूत्रस्थायाः षष्ठया अन्वयसामर्थ्येन श्रुतिरितिपदानुपङ्गस्य सूत्रकृताभिप्रेतत्वापगमात्, न ह्युत्क्रन्तिगत्यागतीनां ताभ्य इत्यन्वयो घटते, श्रुतिभ्य इति अध्याहारे तु घटते, अध्याहारसाकाङ्क्षपदानुपङ्गादपि निरपेक्षपदानुपङ्गो हि युज्यते, अश्रुतेरिति पदस्यानुपपत्तिश्च पूर्वमेव दर्शिता अन्ये तु यत एवं नात्यन्तिकनाशः प्रलये जीवस्य, किन्तु विभागशक्त्यवशेष एव, अत एव ज्ञत्वमपि सिद्धम्, तस्यमवस्थायां “यद्वैतं न पश्यति पश्यद्वैतं न पश्यती"ति ज्ञत्वाविनाशित्ववचनमस्ति हीति व्याचक्षते, तदपि कक्ष्यान्तरसाकाङ्क्षहेतूपस्थापकत्वादपि तद्विलम्बानपेक्षहेतूपस्थापकत्वस्य न्याय्यतया प्रत्युक्तम्, प्रलये विभागशकत्यवशेषावस्थानं हि न साक्षादेव ज्ञानस्वरूपत्वसाधकं, किन्तु प्रलयविषयश्रुत्युपस्थापनद्वारेण । किञ्च ज्ञाननित्यत्वं चैवमुपपादयन्ति- सर्वाः

संविदोऽङ्गारादर्चिष इव नवनीतपिण्डाद् घृतमिव पुरुषाद्विभज्यन्ते तेन संयुज्यन्ते च, अतो ज्ञाननित्यत्वे न कारकवैयर्थ्यगिति तत्र किञ्चद्विमर्शनीयम् । किञ्च नवनीतपिण्डस्येवात्मनः स्वरूपैकदेश एव विभज्यमानो विषयेषु प्रसर्पति सङ्कुवति च? उत तदपृथक्सिद्धं ज्ञानतया तत्सजातीयद्रव्यान्तरम्? इति । यदि प्रथमपक्षः परिगृह्यत, तत्र ब्रूमः- अणुत्वं तावत् भवदभिमतं तत्स्वरूपाद्विभक्तश्चन्द्रादिषु प्रसृतः किमात्मैकदेश? उत कृत्स्नात्मा? । कृत्स्नात्मा चेच्चन्द्रग्रहणवेलायां शरीरं निरात्मकं स्यात्, यद्यकदेशः प्रसृतः, स चेदखण्डितः प्रसृतो न पुनरेति; आत्माऽपि शरीरात् बहिराकृष्टः स्यादिति शरीरं निरात्मकं स्यात्, यदि खण्डितोऽपसर्पेन्मृत्पिण्डविशीर्णधूलीपटलवन्न पुनरेयात्; तदानीमात्मैकदेशहानिः स्यात्, एवं त्रिचतुरपर्यायैरात्मोच्छित्तिः स्यात्, अनुच्छेदे च ज्वालाया इव प्रतिक्षणोत्पत्तिरात्मनः स्यात्, यद्यखण्डित एव प्रसृप्य पुनःसङ्कुचति, पटग्रहणदशायां घटग्रहंणाय पूर्वप्रसप्त एवांशः प्रसर्पति? उत प्राक्प्रसृप्तांशे शरीरस्थांशः पश्चात्प्रसर्पति? । द्वितीये पक्षे धर्मधर्मिभावाव्यवस्थानाच्छरीरस्थत्य धर्मिणोऽहंप्रत्यववेद्यस्यात्मत्वाद्धर्मित्वाद्विषयसम्बन्धिज्ञानानामिच्छादीनामिव स्वस्मै भासमानत्वाभावाच्च प्रत्यक्त्वाप्रत्यक्त्वधर्मधर्मित्वादीनामंशभेदेनानियतत्वादात्मांशस्य कदाचिदनात्मत्वं प्रत्यगंशस्य कदाचित्पराकत्वं धर्मिण एव कदाचित्स्वधर्मत्वं च स्यात्, ततश्च

कटकमुकुटादीनामिवाहमर्थस्य कर्तुर्भोक्तुरादिमत्त्वं स्यात्, अहमर्थस्यैव कर्त्तृत्वभोक्तृत्वयोगात्, अहंभावस्य चात्मन्यनियतप्रदेशवृत्तित्वाच्च । यदि प्रथमः पक्षो रोचते तर्हि प्रसर्पणाप्रसर्पणरूपविरुद्धस्वभावभाकत्वाद्धर्मधर्मिणोर्भिन्नद्रव्यत्वम् अन्यधर्मज्ञान स्यान्यं प्रति धर्मत्वाभावादपृथक्सिद्धवर्गत्वं तस्य च सङ्कोचविकासभाकत्वं चाभ्युमर्षित्वं तु युक्तं प्रकृतत्वाविशेषेऽपि पूर्वसूत्रस्था पञ्चमी तुल्यार्थेन प्रत्ययेन साधकविषयस्वप्रकृत्यर्थसाम्यस्य च ज्ञाप्यमानतया योग्यतावशाच्छ्रुतिविशेषे प्रतिपन्न तस्या व्यवधानेन ज्ञानस्वरूपताप्रतिपादने विलम्बत्रयाभावाच्च ज्ञानमात्रस्वरूपत्वे

साध्ये ज्ञातृत्ववादिनीनां धर्मधर्मिभेदनिर्देशपराणां धर्मनित्यत्ववादिनीनां “जानात्येवायम् अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मे"त्येवमादीनां श्रुतीनां बोधो दुस्तरः । तत्र नानुच्छित्तिरेव धर्मतया विवक्षिता, अविनाशीत्यनेन पुनरुक्तिप्रसङ्गात्; अत उच्छेदरहितज्ञानधर्मकत्वं विवक्षितम् । अपरैस्त्वत एवेति पदं ताभ्यः श्रुतिभ्य इति व्याख्यातं तदप्यविरुद्धं श्रुतेरिति तु व्याख्यानं ततोऽप्यचितम्; उत्तरसूत्रस्थायाः षष्ठया अन्वयसामर्थ्येन श्रुतिरितिपदानुषङ्गस्य सूत्रकृेताभिप्रेतत्वापगमात्, न ह्युत्क्रान्तिगत्यागतीनां ताभ्य इत्यन्वयो घटते, श्रुतिभ्य इति अध्याहारे तु घटते, अध्याहारसाकाङ्क्षपदानुपङ्गादपि निरपेक्षपदानुषङ्गो हि युज्यते, अश्रुतेरिति पदस्यानुपपत्तिश्च पूर्वमेव दर्शिता अन्ये तु यत एवं नात्यन्तिकनाशः प्रलये जीवस्य, किन्तु विभागशकत्यवशेष एव, अत एव ज्ञत्वमपि सिद्धम्, तस्यामवस्थायां “यद्वैतं न पश्यति पश्यद्वैतं न पश्यती"ति ज्ञत्वाविनाशित्ववचनमस्ति हीति व्याचक्षते, तदपि कक्ष्यान्तरसाकाङ्क्षहेतूपस्थापकत्वादपि तद्विलम्बानपेक्षहेतूपस्थापकत्वस्य न्याय्यतया प्रत्युक्तम्, प्रलयो विभागशकत्यवशेषावस्थानं हि न साक्षादेव ज्ञानधिपूर्वमुच्यते “एष आत्माऽन्तर्हृदयेऽणीयान्व्रीहे"रित्यादिषु; अत उपाध्यनुक्तेः परमात्मविभुत्ववज्जीवाणुत्वमपि नोपाधिकृतम् । किञ्च “एषोऽणुरात्मा चेतसा वेदितव्य” इत्यणुपरिमाणस्य मुमुक्षुवेदितव्यत्वश्रवणाच्चाणुत्वं स्वाभाविकं न ह्यौपाधिकाकारो जीवस्य स्थूलत्वादिवच्छोकमोहादिवच्च मुमुक्षोरनुसन्धेयः, “तेन प्रद्योतेनैष आत्मा निष्क्रामति” इत्यत्रात्मशब्दस्य निष्कृष्टात्मविषयत्वात्तस्य निष्क्रमणार्हत्वावगमाच्चाणुत्वं स्वाभाविकं, न ह्यात्मशब्द उपाधिसंसृष्टपरः लक्षणाप्रसङ्गात्, उपाधीनां जीवस्य च पृथक्पृथगुत्क्रमणश्रवणाच्चाणुत्वं निरुपाधिकं “तमुत्क्रान्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ती"ति हि श्रूयते, मनश्च प्राणशब्दवाच्येष्वन्तर्भूतं “दशेमे प्राणा आत्मैकादश” इति श्रुतेः, मनोव्यतिरिक्ता बुद्धिरणुत्वोपाधिरिति चेत्- बुद्धिव्राऽन्यद्वा तत्किञ्चिदुपाधित्वेनोच्यताम्, तर्तिक मनोवृत्तिरूपम्? उत तत्त्वान्तरम्? । आद्ये मनसः पृथगुत्क्रान्तिश्रवणात् जीवस्य तद्वृत्तितोऽपि पृथगुत्क्रान्तिः सिद्धा ।

तत्त्वान्तरत्वे च समष्टिरूपस्य तस्याणुत्वान्नोपाधित्वं, व्यष्टिरूपत्वे च देहसङ्घाततदाश्रयतदाश्रितेष्वन्यतमेन भवितव्यम्, सङ्घातरूपत्वे तस्याणुत्वाभावदनुपाधित्वं, देहाश्रयतया जीवोपकरणत्वे मुख्यप्राणान्तर्भावात्ततः पृथगुत्क्रान्तिसिद्धिः, देहस्थतया जीवोपकरणत्वे प्राणशब्दवाच्येष्वन्तर्भावात्ततः पृथगुत्क्रमणं सिद्धम् । किञ्च न केवलमुपाध्यनुक्तेरेवाणुत्वस्य स्वाभाविकत्वावगमः, किन्तु निरुपाधिकस्वरूपस्याणुत्ववैशिष्टयावगमाच्च तदवगमः “एषोऽणुरात्मा” इत्यात्मा ह्यणुत्वेन विशिष्यते, न तु वद्धः; आत्मशब्दो ह्यात्ममात्रवाची, न तूषाधिसंसृष्टवाची । ननु “स चाऽनन्त्याय कल्पत” इति श्रुतिरणुत्वस्यौपाधिकत्वमवगमयतीति चेन्न, स इत्यणुत्वविशिष्टं

जीवं परामृश्य विधीयमानस्यानन्त्यस्य तदविरोधेन वर्णनीयत्वात्, वस्तुमात्रपरत्वे हि तच्छब्दस्य प्रकृतपरामर्शित्वं न स्यात् न हि घटे प्रस्तुते मृन्मात्रं परामर्शमर्हति, विशेषणप्रहाणेऽपि स्वारस्यं न स्यात् यो बालः स युवेत्युक्ते यथा कालभेदादविरोधः- एवं यः पूर्वमणुः स पगन्तव्यं तथा सति

धर्मान्यथाभावरूपावस्थापत्तिरुत्पत्त्यादिस्वरूपान्यथाभावाभावान्नित्यत्वमित्यचिद्वैषम्यमास्थेयम्; उत्क्रान्ति इत्यादिसूत्रगणमधिकरणान्तरं परे व्याचक्षतेतदयुक्तं, ज्ञत्वचिन्तोपयोगित्वात्परिमाणचिन्तनस्य, उपयोगश्च फलिफलभावे दर्शितः, तत्र परेऽणुत्वं पूर्वपक्षीकृत्य विभुत्वमेव सिद्धान्तयन्ति, तत्र न तावादियं परब्रह्मविषया चिन्ता, तद्विभुत्वस्य बह्वधिकरणसिद्धत्वात् अल्पपरिणामश्रुतीनां च निचाय्यत्वादेवमित्यनेन कृतनिर्वाहत्वाच्च सङ्कानुत्थानात्, जीविषयेऽणुत्वस्य पूर्वपक्षीकरणमयुक्तम्, अणुत्वश्रुतीनां निरवकाशत्वप्रसङ्गात्, औपाधिक कारविषयत्वं तासामिति चेत् किमणुत्वं यावज्जीवभावमवतिष्ठते? उत न? । प्रथमे यावत्क्षीरभावभाविनो माधुर्य्यस्येव यावद्द्रव्यभाविनोऽणुत्वस्यौपाधिकत्वमयुक्तं, द्वितीये जीवस्यामोक्षस्थायित्वं न सिध्द्येत्, ततश्च वेदान्तानामनारम्भः स्यात्, जीवभावनिवृत्तिर्हि परेषां मोक्षः, अवच्छेदकोपाध्यपगमे ब्रह्मतापन्नस्य पुनरुपाध्यन्तरेण जीवभावापत्तौ घटागमापायितया घयच्छिद्रस्येवादिमत्त्वं नीवस्य प्रसजेत् । ननूपासनार्थमल्पपरिमाणत्वं पूर्वं निरूपितमत्र ब्रह्मणो जीवभावेनाणुत्वस्य स्वाभाविकत्वनिराकरणमधिकरणकृत्यमिति चेन्न, उपाध्यसम्भवात्, न तावदविद्या, तस्य अणुत्वाभावेन तदवच्छिन्नस्याप्यणुत्वानुपपत्तेः, यद्यध्यवसायादिवृत्तिभेदेन बुध्द्यादिशब्दवाच्यं मनो बुध्द्याख्यं महत्तत्त्वं वोपाधिः, तर्हि “तस्माज्जायते प्राणो मनः, महानव्यक्ते लीयते” इत्यादिश्रुत्यवगतान्मन आदिसर्गात्पूर्वं जीभावाभावात् जीवस्यादिमत्त्वं स्यात् । ननु यथा त्वन्गते जीवात्मधर्मभूतस्य ज्ञानस्य विभोरपि कर्मणाऽत्यन्तसङ्कोचः प्रलयदशायामप्युपपद्यते, तथा कृत्स्नप्रलयदशायामन्तःकरणाद्यभावेऽपि कर्मकृतमणुत्वं जीवस्य सम्भवतीति चेत्- न, अवच्छेदकाभावचोद्यस्य सङ्कोचसद्भावप्रतिबन्द्यापरिहारायोगात्, स्वतो विकासशक्तियुक्तस्य धर्मभूतस्य ज्ञानस्य विकासप्रतिबन्धकं कर्माभ्युपगम्यते, न तु विकसितस्यैकदेशावच्छेदकमिष्यते, त्वन्मतेऽपि सर्वगतस्यैव सतो ब्रह्मणः क्कचित्प्रदेशेऽणुत्वमवच्छेदकपरिमितद्रव्यसापेक्षं विकासप्रतिबन्धकेन कर्मणा न सम्पत्स्यते, अत आमेक्षस्थायिनः कस्यचिदुपाधेरसम्भवाज्जीवाणुत्वस्यौपाधिकत्वमयुक्तम् । किञ्च “बालाग्रशतभागस्य, आताग्रमात्र” इत्यादिष्वणुत्वश्रुतिपूपाधिर्न श्रूयते यथा परमात्मनो विभुत्वश्रुतिषु, तस्य चाणुत्वमुपामिति कलृप्तप्रकारेणानन्त्यश्रुतिनिर्वाहे सम्भवति कल्पकान्यथासिद्धेर्वेष्टनकल्पनमयुक्तम्, सङ्कोचकान्वथासिद्धेरेव प्रथमावगताणुत्वसङ्कोचश्चानुपपन्नः, अतस्तदविरोधाय कलृप्तप्रकारेणानन्त्यं प्रभाभूतज्ञानद्वारा वर्णनीयमित्यानन्त्यश्रुत्याऽपि नाणुत्वस्यौपाधिकत्वसिद्धिः यतोऽणुत्वं स पूर्वपक्षीकार्य्यम् अत एव “व्यतिरेको गन्धव"दिति सूत्रमपि न पूर्वपक्षविषयं गुणस्य ज्ञानस्य स्वा

श्रयातिरिक्तप्रदेशवृत्तित्व समर्थनपरं तस्य युक्तिशून्यत्वात्, तच्च दृष्टान्तस्य पुष्पगन्धस्य साध्यविकलत्वात्, न हि परगाद्याश्रयं विना गन्धः प्रसरति “तद्भुणे” ति अन्तःकरणगुणा इच्छाद्वेपादयः- तत्सारोऽयम्, अतोऽणुत्वव्यपदेश उपाधिकृत इत्युक्तम्, तदयुक्तम्- अन्तःकरणस्याप्रकृतस्य तच्छब्देन परामर्शायोग्यत्वात्, प्राज्ञवदिति दृष्टान्तः

साधनविकलः- तस्यान्तःकरणावच्छेदकत्वभावात्, दहराद्युपासनेष्वणुत्वस्यौपाधिकत्वमात्रं साम्यमिति चेत्- न, प्रयुक्तहेत्वतिरिक्तस्य हेतोर्दृष्टान्ते कल्पनस्य क्लिष्टत्वात्, अक्लिष्यत्वं सम्भवति तदयोगाच्च, दार्ष्टान्तिकस्यैव दृष्टान्तत्वं प्रसजेत्, परमात्मनो जीवत्वेनाणुत्वे जीवस्यैव दृष्टान्तत्वाज्जीवभावेनाणुत्वस्थोपासनार्थतयाऽणुत्वं दृष्टान्त इति चेन्न, “अहिकुण्डलव"दितिवदवस्थाविशेषवाचिशब्दाभावात्, अतो दृष्टान्तदार्ष्टान्तिमभावस्वारस्यसिद्धधर्मिभेदोऽवतिष्ठत एव, स चास्मत्पक्ष एव सिद्धयति- संसृष्टयोर्वियोगनियमात् जीवान्तःकरणयोर्वियोगे सति जीवस्यासत्त्वमसंसारित्वं वा स्यादिति शङ्कायां यावदात्मनः संसारः- तावद्भावित्वादन्तःकरणस्य नोक्तदोष इत्यनन्तरसूत्रं व्याख्यातम्, तदप्ययुक्तम्- आत्मशब्दस्य संसारविशिष्टवाचित्वाभावात्, न हि देवदत्तशब्द एव दण्डिनमुपस्थापयति सुषुप्तिप्रलययोरप्रबोधेनान्तःकरणाभावान्न यावदात्मभावित्वामिति शङ्कापरिहारर्थत्वमनन्तरसूत्रस्याप्ययुक्तं “महानव्यक्ते लीयते” इति बुद्धिलक्षणस्य महच्छब्दवाच्यान्तःकरणस्य लयश्रवणात्, शक्तिरूपेण तदानीमप्यवतिष्ठत इति चेत्- शक्तिशब्देन किमविधामात्रं विवक्षितम्? उतान्तःकरणोत्पादनार्हमचिद्द्रव्यम्? उतावस्थाविशेषापन्नमचित्तत्त्वं? । प्रथमे- अविद्याया अणुत्वाभावादणुपरिमितत्वं जीवस्यामोक्षस्थायि न भवेत्, द्वितीये- घटस्येवान्तःकरणस्य न यावदात्मभावित्वसम्भवः,

न हि मृन्मात्रं घटोत्पादनार्हमिति घटोऽवस्थितो भवति; तृतीये- लघुश्रुतिविरोधः, न हि मृन्मात्रदशायां घटाद्यवस्थासम्भवः, एतावद्दूषणमपरेषामपि तुल्यं प्रतिजीवमणवोऽनाद्यविद्या बह्वयः सन्तीति तासां स्थूलतामत्तिः सृष्टिः, सूक्ष्मतापत्तिर्लय इति चेत्- न, तस्या अणुत्वाप्रहाणे सर्षपादेरिव स्वपरिमाणावस्थायां न प्रलयः, द्वितीयेऽणुत्वप्रहाशे जीवस्यामोक्षस्थायित्वभावः । ननु स्वपरिमाणाप्रहाणेऽपि इच्छाद्वेषादिकाय्यर्जननानर्हत्वादेव प्रलीनत्वमिति चेत् प्राणाकाशदिप्रलयस्यापि तथात्वप्रसङ्गात्, “एतस्माज्जायते प्राणो मन” इति प्राणादीनामविशेषण ह्युत्पत्त्यादिकं श्रूयते “नित्योपलब्धी"ति- अन्तःकरणानभ्युपगमे आत्मेन्द्रियसन्निधानान्नित्यमुपलब्धिः, न चेदनुपलब्धिर्वा प्रसजेत्; आत्मनीन्द्रियेऽपि वा शक्तिप्रतिबन्धः कल्पनीयः, आत्मनो निर्विकारत्वात्सोऽनुपपन्नः, अकस्मादिन्द्रियेषु च सोऽनुपपन्न इति व्याख्यातं- तदप्युयुक्तम् अन्तःकरणाभ्युपगमेऽपि नित्यानुपलम्भादिप्रसङ्गस्य, शक्तिप्रतिबन्धकल्पनानुपपत्तेश्च तुल्यत्वात्, अन्तःकरणस्यावधानानवधानाभ्यां नित्योपलम्भाद्यप्रसङ्ग इति चेन्न, लाघवन्यायेनात्मन एवावधानानवधानाभ्यां तदप्रसङ्ग इति कल्पनस्य युक्तत्वात्, आत्मनो निर्विकारत्वेऽपि इच्छाद्वेषादिवत् प्रतिब्धशक्तिमत्त्वमपि युज्यते, इच्छाद्वेषादिकमपरमार्थ इति चेत्- शक्तिप्रतिबन्धोऽपि तादृश एवात्मनि कल्प्यताम्, इन्द्रियेषु तत्कल्पनमपि नाकस्माद्भवति, अदृष्टदेशकालदिसापेक्षत्वात् यदि “अन्यत्र मना अभूव"मिति श्रुतिवशादन्तःकरणाभ्युपगमः, तर्ह्यन्यथासिद्ध्युपहतदुर्बलतर्कं विहाय श्रुतिवलमेव सूत्रयितव्यम्, अतः सूत्रवैयर्थ्यमेव भवति । अन्येषां तु पक्षो न विरुद्धः “व्यतिरेकोगन्धव"दिति सूत्रस्य ज्ञातृत्वे प्रमाणोपस्थापत्वमेव युक्तं- न तु गुणस्य स्वाश्रयानतिवृत्तित्वशङ्कापरिहारार्थत्वम्, गन्धदृष्टन्तेन तस्याः दुष्परिहरत्वात्, गन्धाश्रयद्रव्यसूक्ष्मावयवविशरणाद्वि दूरे गन्धोपलब्धिः । न च प्रविरलमेव द्रव्यं गुण इत्युज्यत इति च युक्तं- तूलस्य गुणत्वाप्रसिद्धेः, न च विशीर्णाविरलद्रव्यं गुणः- अयश्चूर्णस्यायोगुणत्वाप्रसिद्धेः, स्वाभ्युपगतं गुणगुणिनोरभेदमाश्रित्य गुणत्वव्यवहार इति चेन्न, बहुलद्रव्यस्याप्यभिन्नत्वाविशेषण गुणव्यवहारप्रसङ्गात् । विरलत्वं नाग किं सन्तरत्वं? तदा ज्ञानस्य गुणत्वं न स्यात्, प्रसृप्तज्ञानस्य जालस्येव सच्छिद्रत्वादर्शनात्; यदि सूक्ष्मत्वं विरलत्वं तर्ह्यात्मस्वरूपस्यापि गुणत्वं स्यात्, अङ्गारे सत्यर्चिषां नाशे पुनरपि प्रभोत्थानं युक्तं- परिणामित्वात् पुनर्ज्ञानप्रभोत्थानमयुक्तमिति शङ्कानिरासार्थं मणिप्रभादृष्टान्तविषयं “यावदात्मभावित्वा” दिति सूत्रमित्ययुक्तं “गुणाद्वाऽऽलोकव"दित्यत्रैव प्रभाप्रभावद्दृष्टान्तस्याभिहित्वात् रत्नप्रभान्यायेन धर्मधर्मिभावे सम्भवति प्रभानुत्थानशङ्कानुपपत्तेः, तत्र प्रदीपप्रभादृष्टान्त एवाभिप्रेतः- न तु मणिप्रभादृष्टान्त इति चेत्- आलोकशब्दस्य साधारणस्य सङ्कोचकाभावाद्विज्ञानव्यपदेशामुख्यत्वदोषपरिहारस्यापेक्षितत्वेन तदकरणानुपपत्तेश्च ॥ 32 ॥

॥ ज्ञाधिकरणं समाप्तम् ॥