21 आत्माधिकरणम्

॥ नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ अवान्तरसङ्गतिमाह - वियदादेरिति । उत्पत्तिरस्ति नेतीति - वियदादिवदुत्पत्तिरस्ति नास्तीति संशय्यत इत्यर्थः । किं जीव, उत्पद्यते, नेति, “तोयेन जीवा” नित्यादिश्रुतिः किमुत्पत्ति प्रतिपादयति? उत भोक्तृत्वानुगुणज्ञानसङ्कोचविकासमिति “न जायते भ्रियते” इत्यादिकं जीवोत्पत्तिवचनस्य ज्ञानसङ्कोचविकासपरतामवगयति? नेति, किमत्र नित्यत्ववचनमाकाशामृतत्ववचनवत् गौणम्? उत मुखयमिति मुख्यत्वानङ्गीकारेऽकृताभ्यागमादिकं प्रसज्यते नेति, यदा न प्रसज्यते तदा नित्यत्ववचनस्य गौणतया “न जायते” इत्यादेश्च जीवोत्पत्तेर्ज्ञानविकासरूपतानवगमकत्वात् “तोयेन जीव"नित्यादिश्रुतेश्च जीवोत्पत्तिप्रतिपादकत्वाज्जीव उत्पद्यत इति भवति, यदा तु अकृताभ्यागमादि प्रसज्यते तदा नित्यत्ववचनस्य मुख्यत्वात् “न जायत” इत्यादि श्रुतेश्च जीवोत्पत्तेर्ज्ञानसङ्कोचविकासरूपत्ववगमकत्वात् “तोयेन

जीवा"नित्यादिश्रुतिरपि तादृगुत्पत्तिपरेति जीवो वियदादिवन्नोत्पद्यते इति सिध्यति । श्रुत्यर्थापत्तिमाह - एकविज्ञानेनेति । श्रुतिमाह - वियदादेरिति । राद्धान्तमाह - एवं प्राप्त इति । श्रुतिमाह - न जायत इति । श्रुत्यर्थापत्तिमाह - आत्मनो नित्यत्वं चेति । ताभ्यः श्रुतिभ्योऽवगम्यमानात्, नित्यत्वच्चेति सूत्रार्थः । चोदयति - कथमिति । परिहरति - इत्थमिति । पुनश्चोदयति - एवं तर्हीति । परिहरति - नेत्युच्यत इति । जीवस्य कार्य्यत्वं वियदादिवदुत्पत्त्यनङ्गीकारश्च व्याहताविति शङ्कायां चिदचितोरनुयायिकाय्यर्लक्षणमाह - कार्य्यत्वं हीति । तर्हि को विशेषः? इत्यत्राह - सयांस्त्विति । वियदादेः स्वरूपान्यथाभावलक्षणः, जीवस्य ज्ञानसङ्कोचविकासलक्षण इति विभागे किं प्रमाणम्?, जीवस्यापि स्वरूपा

न्यथाभावलक्षणं कार्य्यत्वं किं न स्यात् ब्रह्मणोऽपि काय्यर्त्वाभ्युपगमात् स्वरूपन्यथाभावाभ्युपगमे निर्विकारत्वहानिः; धर्मान्यथाभावाभ्युपगमे ज्ञानसङ्कोचस्य कर्मनिमित्तत्वात् कर्मवश्यत्वप्रसङ्ग इत्यत्राह- एतदुक्तमिति । भोग्यगतमुत्पत्त्यादिकं भोक्तरि प्रतिषिध्यते । न तु स्वासाधारणमित्यर्थः । करणाधिपाधिपादिशब्दैः श्रुतयः स्मारिताः, घयकश्रुत्यर्थमाह - सर्वावस्थयोरिति । आकृत्यधिकरणन्याथं स्मारयति । अतः सर्वदेति - सर्वदाचिदचिद्वस्तुशरीरं चेत् । कार्य्यकारणभावभेदः कथमित्यत्राह - तत्कदाचिदिति । नामरूपविभागानर्हसूक्ष्मदशापत्ति- रूपं कारणत्वम्, तदर्हस्थूलदशापत्तिरूपं काय्यर्त्वं च तुल्यं चेत्, कथमत्र वक्ष्यमाणविधिनिषेधविषयभूतमवान्तरवैषन्यमुच्यत इत्यत्राह - तत्रेति । अचिदः स्वरूपान्यथाभावरूपपरिणामित्वे हेतुमाह - भोग्यत्वायेति । चितो ज्ञानसङ्कोचविकासरूपकार्य्यत्वे हेतुमाह - भोक्तृत्वायेति । परमात्पनस्तत्तदवस्थचिदचिन्नियमनरूपविकारास्पदत्वमाह - उभयेत्यादिना । कार्यत्वं ब्रह्मणः कथमित्यत्राह - कारणावस्थाया इति । विशिष्ठं कारणं चेन्मृत्पिण्डदृष्टान्तः कथं घटत इत्यत्राह - अत एवेति । यथा मृत्पिण्डादृष्टान्ते पार्थिवत्वाचेतनत्वादिकं नापेक्षितं तथा चिदचिद्विशिष्टत्वं स्वरूपान्यथाभावलक्षणविकाराभावं च ब्रह्मणि न बाधते मृत्पिण्डलोहमण्यादिदृष्टान्तः, अपि त्वनेकविशेषणविशिष्टैकद्रव्यावस्थान्तरयोगमात्र स दृष्टान्तः, रूपादिमत्त्वन्मृत्पिण्डादेरित्यर्थः उत्पत्त्यनुत्पत्त्यादिपराणां श्रुतीनां विषयविभागमाह - ईदृशेति । अनिष्टविकाराभावाभिप्राया इति - अनिष्टशब्देन “सोऽकामयत बहु स्या"मित्याद्युक्तेष्टविकारा व्यावृत्ताः । सर्वदा

चिदचिद्विशिष्टं ब्रह्म चेदेकत्वावधारयणं कथमित्यत्राह - एव

मिति । श्रुत्या नामरूपविभागतदभावभ्यां नानात्वैकत्ववचनादित्यर्थः । ये त्विति - सूत्रोक्तत्वात् परैरपि तदभ्युपगमादिति ढहेतुद्वयमुक्तं भवति तर्हि परेषां पक्ष एव स्वीकाय्यर् इत्यत्राह - इयानिति । नियन्त्रंशस्य न भोक्तृत्वमित्यत्राह - नियन्त्रंशस्येति । सर्वेऽपि परे तु- अश्रुतेरिति पदं छिन्दन्ति तदयुक्तं “यथा सुदीप्तात्, तोयेन जीवा” नित्यादिश्रुतिभूले पूर्वपक्षे प्राप्ते सति- अश्रुतेरिति हेतोरसिद्धत्वात्, क्कचिदश्रवणस्य पूर्वपक्षहेतुताया व्युदस्तत्वाच्च; श्रुतेरिति पदस्योत्तरत्रानुपङ्गदर्शनाच्च “उत्क्रान्तिगत्यागतीना"मित्यत्र श्रुतेरिति ह्यनुषज्यते, श्रवणादित्यध्यहारेण योजनेति चेन्न. अनुपङ्गसम्भवेऽध्याहारानुपपत्तेः । किञ्च ब्रह्मण एवाविकृतस्य जीवात्मनाऽवस्थितत्वात् ब्रह्मणश्चानुपत्तिमत्त्वातदन्यस्य जीवस्यचानुत्पत्तिरिति चानुपपन्नं “सर्वं खल्विदं ब्रह्म, ब्रह्मैवेदं सर्वं, पुरुष एवेदं सर्व"मिति तदेव शुक्रममृतं तद्व्रह्म तदापः स प्रजापतिरिति, ज्योतीषि विष्णु"रित्यादिभिः पृथिव्यवादीनामपि ब्रह्मानन्यत्वेन हेतोर्व्यभिचारात्, नन्वचित्सामानाधिकरण्यं बाधार्थमिति चेत् जीवसामानाधिकरण्यमपि तथा किन्न स्यात्, तथा सति जीवस्तय रूपनिवृत्त्या शास्त्रस्य प्रयोजनपर्यवसानं न स्यादिति चेन्न, सामानाधिकरण्यस्य वस्तुगात्रोपलक्षणत्वेऽप्यहमर्थनिवृत्त्या तस्यापुरुषार्थविश्रानितर्दुष्परिहरा, अतः पृथिव्यादिव्यावर्त्तकं ब्रह्मानन्यत्वं जीवस्यासिद्धम् । ब्रह्मैवाविकृतं जीवात्मनाऽवतिष्ठते, विकृतं पृथिव्याद्यात्मनाऽवतिष्ठत इति चेन्न, जीवस्य ज्ञातृत्वात्, तचनच ज्ञातृत्वम्, विक्रियात्मकत्वमिति भवदभ्युपगमाच्च विकृतत्वाविकृतत्वरूपवैषम्याभावात् स विकारोऽपरमार्थ इति चेत्, पृथिव्यादिविकारोऽप्यपरमार्थ इति पृथिव्यादेरप्यनुत्पत्तिर्जीवोत्पत्तिर्वा स्यात् । ननु पृथिव्यादिधर्मिण एव बाध्याः- जीवत्वमात्रमिह बाध्यम्, अतः स्वरूपनित्यत्वमिति चेन्न, पृथिव्यस्तीत्यादितत्तत्पृथिव्यादिसमानाधिकरणत्वात् सन्मात्रस्य पृथिवीत्वादिधर्ममात्रस्यैवापारमार्थ्यान्न पृथिवीस्वरूपबाध इति वक्तुं शक्यत्वात्, अहमस्मि घटोऽस्तीति जीवस्य घटादेश्च सदव्यतिरेको ह्यविशेषण प्रतीयते । किञ्चन तावत्परिशुद्धं जीसंज्ञम्, अनभ्युपगमात्; तत्र किमन्तःकरणविशिष्टं चैतन्यं जीवः? उत तदुपलक्षितम्?, प्रथमेऽन्तःकरणस्य सृष्टिसंहारविषयत्वेन तद्विशिष्टरूपस्याप्यादिमत्तया जीवस्योत्पत्तिप्रतिषेधोऽनुपपन्नः, द्वितीये शाखाग्रसारासाभ्यां सह चन्द्रकेदारयोरिवोत्पत्तिप्रसङ्गाभावात्, ब्रह्मणो नित्यत्वस्यान्यत्र सिद्धत्वाच्चाधिकरणोत्थानं न स्यात् श्रुतिवैविध्यार्थपरिहारार्थमारम्भ इति चेत्, कथं परिहारः- उपाध्युत्पत्तिप्रलययोरात्मन्युपचर्येते इतीति चेत्, उपाधिशब्दो यदि देहपरः तदा देहोत्पत्तिप्रलययोरात्मन्युपचरितत्वं “चराचरव्यपाश्रय” इत्यत्रोक्तमिति कृतकरत्वं स्यात्; अन्तःकररपरश्चेदन्तःकरणस्याद्यन्तवत्त्वात् कर्तृत्वभोक्तृत्वयोरन्तःकरणधर्मत्वाभ्युपगमादन्तःकरणप्रलये ब्रह्मणोऽनुपहितत्वात्तत्र वासनासम्बन्धायोगात् पुनरकृताभ्यागमादिप्रसङ्गोदुर्वारः, अनुपहितस्वरूपे सर्ववासनासम्बन्धे भोगसङ्करश्च स्यात्, कर्तृत्वभोक्तृत्वाभावादुपाध्युपहितस्वरूपस्यादिमत्त्वाच्च;

औपाधिकभेदाभेदवादेऽप्यन्तःकरणोपहितब्रह्मण एव कर्तृतया भोक्तृतया जीवरूपेण स्थितत्वादुपहिताकारस्यादिमत्त्वाच्च,कर्त्तुर्भोक्तुरादिमत्त्वमवर्जनीयम् । उपाधीनां गत्वरतया क्षणे क्षणे बन्धमोक्षणे प्रतिसन्धानािानयमकर्मसङ्करादयश्च स्युः । अन्येषां पक्षेऽप्यश्रुतेरिति पदकल्पनं पूर्ववद्वयुदस्तम्, सर्गाधिकारेषु जीवस्य सृष्टिप्रलयान्मानाभावापरम् अश्रुतिपदं व्याख्यातम्, तच्चायुक्तं “यस्मिन्नदं सञ्चविचै,तीत्युपक्रम्य “सर्वे निमेषा जज्ञिरे” इत्यतः पूर्वं “यतः प्रसूता जगतः प्रसूतिस्तोयेन जीवान् विससर्ज भूम्या"मिति श्रुतेः; उत्पत्तिप्रलयनिषेधश्रुतीनां विषयविभागश्चानुपपन्नः, हिमकरकसैन्धवादीनां जलत्वप्रत्यभिज्ञानायोग्यावस्थान्तरापत्तिः तरङ्गबुद्बुदादीनां जलत्वप्रत्यभिज्ञानयोग्यत्वेऽपि संस्थान्तरापत्तिः, विभक्तजलस्य विभाग एव, न तु भूयिष्ठो विकारः, तत्र करकादिस्थानीयाः महदादयः, ब्रह्मधर्मविमानाद्यननुवृत्ते।, तरङ्गस्थानीयाः जीवाः, ज्ञानानन्दादीनामल्पानुवृत्तेः विभक्तजलस्थानीया र्सश्वरव्यूहाः मानाद्यनुवृत्तेः पूणत्वात्, प्रलयेऽपि पृथिव्यादीनां न विभागशक्तिस्तिष्ठति, किन्तु परिणामशक्तिरेव, जीवानान्तु विभागशक्तिरवतिष्ठते, इदृशविशेषेण जीवस्य नित्यत्वाविनाशित्वाजत्ववादा इति ह्युक्तम्, तत्र ब्रूमः- किं विभागशब्देन नामरूपविभागं विवक्षित्वा नामरूपविभागाभिमानार्हता विभागशक्तिरित्युच्यते? उत जीवानां स्वरूपभेदप्रहाणेन पश्चाद्भेदप्राप्यार्हता विवक्षिता? । आद्यः पक्षः साधिष्ठतमः, द्वितीये कटकमुकुटादीनामिव जीवानासादमत्त्वं स्यात् कटकमुकुटादीनां प्रध्वंसे विभागशक्तिर्नास्ति जीवानां तु स प्रलयेऽस्तीति चेन्न,कटकादीनामपि विभागशक्तिमत्त्वेनावैषम्यात्, अत एव हि हेमपिण्डात्पुनर्विभागः कटदीनां भवति । ननु पूर्वं कटकोपयुक्तांशः पश्चादापे कटक एवोपयुज्यते न तु मुकुट इति नियमानर्हत्वाद्विभागशकत्यभावः, जीवानां तु प्रतिनियतकर्मभोगानुगुणनियमवत्त्वाद्विभागशक्तिरवतिष्ठत इति चेत्, समस्तभेदशून्यानां पुनर्भेदापत्तौ स एवायं पुण्यकृन्नान्य इति नियमानुपपत्तेः; स्वेतरसमस्तव्यावर्त्तकाकाराननुगतौ देवदत्ते यज्ञदत्तप्रत्यभिज्ञानवत् स एवायमिति प्रत्ययस्य भ्रान्तिरूपता स्यात्, कर्मशक्तय एव भेद इति चेन्न, सर्वासां कर्मशक्तीनां सन्मात्रवृतित्वेऽस्थेयं कर्मशक्तिर्नान्यस्यस्येति नियमानुपपत्तेः, अतः स्वाभाविकस्वरूपपभेद स्थित एवाविभागापत्तिर्वर्णनीया; अन्यथा अकृताभ्यागमादिप्रसङ्गात्, अतो विभागशक्तिरवतिष्ठते, न स्वरूपभेद इत्यनुपपन्नम् । अतः स्वरूपभेद नित्ये सत्युत्पत्त्यनुत्पत्तिश्रुत्योर्विषयव्यवस्था कार्या ॥

॥ आत्माधिकरणं समाप्तम् ॥