20 तेजोधिकरणम्

॥ तेजोऽतस्तथा ह्याह ॥ अवान्तरसङ्गतिमाह - ब्रह्मेति । महदादीनां तत्त्वानां किं केवलात् पूर्वपूर्वतत्त्वमात्रादुत्पत्तिः? उत तत्तद्रूपात् ब्रह्मण? इति; किमाकाशाद्वायुरित्यादिषु आकाशादिशब्दा आकाशादिमात्रपराः? उत तदवस्थब्रह्मपरा? इति; किं तेज ऐक्षतेत्यादिप्वभिध्यानलिङ्ग तेजःप्रभृतिशब्दानां तदवस्थब्रह्मपरताम् अवगमयति? नेति; किं तेजःब्रभृतिशब्दानां तदवस्थपरत्वेन लक्षरा स्यान्न? इति किं तेजःप्रभृतिशब्दानामपयर्वसानवृत्त्या ब्रह्माभिधाने व्युत्पत्तिविरोधादिदोषो भवति नेति, यदा भवति - तदानीमपर्यवसानेन ब्रह्माभिधानासम्भवेन लक्षणाप्रसङ्गादभिध्यानलिङ्गस्य तेःप्रभृतिशब्दानां ब्रह्मपरतावगमकत्वाभावादाकाशादिशब्दानामाकाशदिमात्रपरत्वेन केवलाकाशदेरेव वाय्वाद्युत्पत्तिरिति भवति, यदा व्युत्पत्तिभङ्गादिदोषो न भवति - तदानीमपर्यवासानेन ब्रह्माभिधानसम्भवेन लक्षणाप्रसङ्गाभावादभिध्यानलिङ्गस्य तेजःप्रभृतिशब्दानां ब्रह्मपरतावगमकत्वादाकाशादिशब्दास्तदवस्थब्रह्मपरा इत्याकाशद्यवस्थाद् ब्रह्मण एव वाय्वाद्युत्पत्तिरिति सिध्यति । ननु प्रकृत्यथिकरणे कृत्स्नस्य ब्रह्मोपादानकत्वनिश्चयादवस्थितेरित्यादिषु जगद्ब्रह्मणोः शरीरात्मभावसिद्धेस्तत्र चान्तय्यर्ाभिब्राह्मणे सर्वतत्त्वानां विशेषतः

शरीरत्वावगमाच्च केवलात् तत्तद्वस्तुनो वाय्वाद्युत्पत्तिरिति पूर्वपक्षानुत्थानादनारम्भणीयत्वं, नैवम्, एकस्य कार्य्यस्य ब्रह्मप्रसूतत्वकथनात् पश्चात्तत्तत्कारणव्यहिततत्त्वसृष्टिक्रमनिर्देशवलाच्च तेषां तत्त्वानां परमात्मशरीरत्वश्रवणं सृष्टयनन्तरानुप्रवेशकृतमौपचारिकं “तत्सृष्ट्वातदेवानुप्राविश” दिति श्रुतेः, अभिध्यानं च गौणम्, सर्वस्य ब्रह्मजत्वश्रुतिश्च पारम्पर्याभिप्रायेति पूर्वपक्षोत्थानात्, ॥10॥

॥आपः ॥ अतस्तथा ह्याहेत्यनुपङ्गः ॥11॥

॥ पृथिवी ॥ अत्राप्यनुपङ्गः । उत्तरसूत्रशङ्कामाह - नन्विति ॥12॥

॥ अधिकाररूपशब्दान्तरेभ्यः ॥ अधिकारः - प्रस्तावः, अन्नशब्दस्य पृथिवीवाचकत्वप्रकारमाह - अदनीयस्येति । कारणे कार्य्योपचात इत्यर्थः । प्रकृतं पूर्वपक्षमाह - उदाहृता इति । ब्रह्मणः साक्षादेव तेषामुत्पत्तिश्रवणं कथमित्यत्राह - एतस्मादिति ।

॥ तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ तदभिध्यानं - बहुभवनविषयाभिध्यानं, तल्लिङ्गपरमात्मलिङ्गं तेजःप्रभृतिप्वीक्षणश्रवणात् सर्वशाखाप्रत्ययन्यायेन महदादीनामपि परमात्मशरीरतया तुल्यन्यायतया तेप्वपीक्षापूर्विका सृष्टिरित्यर्थः । ततः किमित्यत्राह - तथाविधञ्चेति । न केवलमीक्षापूवकसूष्टया परमात्मनम्तच्छरीरकस्य कारणत्वं गम्यते, अपि तु तच्छरीरकत्वं श्रौतमित्याह - श्रूयते चेति । ईक्षणश्रवणं हि तेजःप्रभृतीनां न तु महदादीनामतस्तेषामपीक्षण पूवकसृष्टिसिद्धये तत्कारणानामपि परमपुरुषशरीरत्वमाह - सुवालोपनिपदीति । उत्तरसूत्रशङ्कामाह - यच्चोक्तमिति ।

॥ विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ तुशब्दोऽवधारणार्थ इति “स्युरेव तु पुनर्वै चेत्यवधारणवाचिन” इति हि नैघण्टुकाः, विपर्ययेण क्रमं व्याचष्टे । अव्यक्तेति - परोक्तक्रमविपर्ययेणेत्यर्थः, अतश्शब्दं व्याचष्टे । सचेति - एतस्माज्जायत इत्यत्र ब्रह्मानन्तर्थप्रतीतिः स्वारस्यसिद्धा, एवं वाक्यस्वारस्येन ब्रह्मानन्तर्यरूपक्रमप्रतिपक्षेर्ब्रह्मण एव तत्तत्कार्य्योत्पत्तिरित्यर्थः । उत्तम्भनं - ज्ञापकम्, “एतस्नात्प्राणो जायते, एतस्मान्मतो जायते” इत्यन्वयाभिप्रायेण एवमुक्तम् । ॥15॥

॥अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ व्याख्येयं पदं व्याचष्टे । विज्ञानेति - अत्रापि न केवलं श्रुत्यन्तरेप्वेवेति भावः ॥ तैस्सह पाठलिङ्गादग्रयप्रायन्यावादित्यर्थः । तन्नेति, अविशिषादिति पदं व्याचष्टे । एतस्मादिति - अनेनाविशेषात् “एतस्माज्जायत” इति वाक्यप्रतिपन्नान्वयाविशेषात् । तदेव विवृणोति । एतस्माज्जायते इति - एतस्मादित्यादिवाक्याभिधेयस्य साक्षात्सम्भवरूपस्य सम्बन्धस्य प्राणादिपृथिव्यन्तानामवशिष्टत्वादित्यर्थः; दीपसारयोस्तु एतस्मातिति पञ्चम्यन्तपदान्वयाविशेषादिति शब्दपरं व्याख्यातम्, इदं त्वर्थपरम् । श्रुत्यन्तरसिद्धक्रमविरोधाच्चेति - प्राणो हि वायुकार्य्यः, स हि स्वस्यानन्तरमुत्पन्नः, न भूतेभ्यः प्रागुत्पन्न इत्यर्थः । क्रमविरोधे प्रमाणमाह - पृथिव्यप्सु प्रलीयत इति । व्यवहितकार्याणामपि ब्रह्मण

उत्पत्तिश्चेत् कथं तेजःप्रभृतिशब्दैरभिधानमित्यत्राह - तेजः- प्रभृतयश्चेति ॥ * ॥ अनन्तासूत्रं चोद्यपुरःसरमवतारयति । नन्विति - यत्र शब्दस्य वाचकत्वशक्तिस्तत्र व्युत्पत्तिरस्ति, अतो ब्रह्मवाचकत्वेन व्युत्पत्त्यभावान्न शब्दस्य तद्वाचकत्वशक्तिरित्यर्थः ॥

॥ चराचरव्यपाश्रयस्तु स्यात्तद्वयपदेशो भाक्तस्तद्भावभावित्वात् ॥ हेतुखण्डं विवृण्वन्वाक्यार्थं योजयति । समस्तेति - व्युत्पत्त्यभावो न वाचकत्वाभावप्रयुक्तः, अपि तु प्रमाणान्तरागोचरत्वप्रयुक्त इति व्युत्पत्त्यभावस्यान्यथासिद्धिरूक्ता भवति, अस्यां योजनायां द्वितीययोजनार्थ आर्थः सिध्यति, सर्वशब्दानां ब्रह्मणि मुख्यत्वे प्रमाणस्यापेक्षितत्वात् । साक्षादर्थमाह - अथवेति । तत्र सङ्कान्तरमाह - तेज इति । चराचरव्यपाश्रयस्तद्वयपदेशः - चराचरमात्रविषयपर्यवसायित्वेन व्युत्पन्नस्तद्वाचिशब्द इत्यर्थः । ब्रह्मभावशब्देन ब्रह्मानुप्रवेश उच्यते, ब्रह्मणस्तत्र भावो ह्मनुप्रदेशः - अस्यां योजनायां सर्वाब्दानां ब्रह्मवाचित्वे प्रमाणोपन्यासः श्रौतः स्यात्, व्युत्पत्तिविरोधशङ्कापरिहारस्त्वार्थः सिध्यति, एवं विशेषणभूतपृथिव्यादिषु क्रमनिर्देशो मुख्यः; ब्रह्मणस्तत्तद्वस्तुविशिष्टत्वात् सर्वस्य ब्रह्मप्रसूतत्वश्रवणं मुख्यम्, सर्वतत्त्वानां यावद्द्रव्यसत्ताकविशेषणतया ब्रह्मशरीरत्वं मुख्यम्, अभिध्यानं चात एव मुख्यम्, अतः सर्वश्रुतिमुख्यत्वं सिद्धान्त उक्तं भवति ।

परे त्वाकाशाद्वायुरित्याकाशादनन्तरं वायुरुत्पन्नः वायोरनन्तरम् अग्निरुत्पन्न इति निर्वाहसम्भवात् “तज्जलानिति, एतस्माज्जायते प्राणः, स तपस्तप्त्वेदं सर्वमसृजत"इत्यादिश्रुतिभिरविशेषण सर्वस्य ब्रह्मजत्वावगमाच्छान्दोग्यश्रुत्यनुसारेण तेजसो ब्रह्मयोनित्वं पूर्वपक्षीकृत्य"आत्मनः सम्भूतः, पृथिव्या औषधय” इति पूर्वापरपञ्चम्योरुपादानविषयत्वदर्शनान्मध्यपातिन्या अपि तथा त्वाद्वायुयोनित्वं तेजसः, ब्रह्मजत्वं तु वायुभावापन्नब्रह्मणो जाततया पारम्पर्येणाप्युपपद्यत इति सिद्धान्तयन्ति; तच्चिन्तनीयम्, सिद्धान्ते किं निरसनींयं, यदि ब्रह्मयोनित्वगात्रं तदा कृत्स्नस्य ब्रह्मोपादानकत्वानुपपत्तिः, यदि वाग्ववस्थानापन्नब्रह्मयोनित्वं निरसनीयं तदयुक्तम्, त्वन्मतेऽध्यासाधिष्ठानत्वस्योपादानलणत्वात्, घटः सत् मृदयं घट इति मृदवस्थसदात्मकतया घटप्रतीतिवत्तेजोऽस्ति आपस्सन्तीति सद्रूपेण प्रतीयमानस्य तेजसोऽपां च वायुस्तेजस्तेजोजलमिति वायोस्तेजोरूपतया प्रतीयमानत्वाभावात्, अनवभातस्याधिष्ठानत्वायोगाच्च, वायुभावाद्यनापन्नस्यैव सन्मात्रस्य तेजःप्रभृत्युपादानत्वोपपत्तेः, न हि रज्जुः सर्पात्मना भूदलनादेरुपादानम्, भूदलनाध्यासदशायां सर्पात्मनाऽनवभातत्वात्, यद्यनवभातमप्यधिष्ठानं स्यात्,सर्वं सर्वस्याधिष्ठानं स्यात् अनवभातत्वविशेषात्, गोमयत्वानवभासेऽपि गोमयस्य वृश्चिकोपादानत्वमुपपन्नमिति चेन्न परिणामानभ्युपगमात् अनवभातस्य परिणाम

उपपद्यते न त्वध्यासाश्रयत्वं दर्शनस्य

नियामकत्वात् न हि पुरोवर्त्तिनि भास्वरद्रव्येऽनवभाते रजताध्यासः अनवभातमपि बीजमङ्कुरादिपरिणामं भजते, वाथ्वादिकं तेजोऽध्यासे सत्तयोपकारकमिति चेन्न दिक्कालादृष्टेन्द्रियतद्दोषव्यतिरिक्तस्य भ्रान्तौ गुरुत्वादेरिव सत्तयोपकारकत्वाभावात्, अतः सद्रूपेण प्रतीतेर्वाथ्वादिरूपेणाप्रतीतेश्च, सन्मात्रस्यैवोपादानत्वोपपत्तेः तर्मापेतश्रुतेरपि तर्कानुगृहीतश्रतेः प्रबलत्वाच्छान्दोग्यश्रुत्यनुसारेण सद्योनित्वमेव सिद्धान्तीकर्त्तव्यम् “आकाशाद्वायुः वायोरग्नि"रित्यादिष्वाकाशादिशब्दानां लक्षणया सन्मात्रपरत्वं चाश्रयणीयम्, लक्षणैव दोष इति चेत् अहो भवतां लक्षणाभीरुत्वम्, ये सत्यज्ञानानन्ततत्त्वमादिपदानि व्याचक्षते अनन्तरशब्दाध्याहारेणात्मनो वायुः सम्भूत इति योजनापि वरम्, तर्कानुगृहीतश्रुत्यन्तरैकाय्यात् उपक्रमावगतस्यात्ममात्रात् सम्भवस्य प्रबलत्वाच्च अध्याहारपञ्चमीवैरूप्ययोरनादरणीयत्वात् । किञ्च ब्रह्मयोनित्वाकाशयोनित्वचिन्ता कस्मद्वायौ न कृता सन्मूत्वश्रवणरूपपूर्वपक्षलिङ्गस्य तत्राभावादिति चेन्न, “एतस्माज्जायते स्वं वायुर्ज्यातिराप” इति परमात्ममूलत्वावगतेः, अतो न पूर्वपक्षलिङ्ग तेजसि चिन्तायां हेतुः, किं तु तदैक्षतेत्यभिध्यानरूकसिद्धान्तलिङ्गवत्त्वम्, अत एव “तेजोऽत” इत्यादिसूत्राणां पूर्वपक्षविषयत्वमवगम्यते, अत एव पृथिव्यधिकाररूपशब्दान्तरेभ्य इति नाधिकरणान्तरम्, किं तु पृथिवीति पृथक्सूत्रम्, अम्मात्रात् पृथिव्युत्पत्तिपरं पूर्वपक्षविषयत्वोपपादनात् सिद्धान्तं वक्तुं विषयशुद्धिपरमधिकारणूपशब्दान्तरेभ्य इति सूत्रान्तरम्; अन्नस्य पृथिवीत्वे सिद्धे हि कारणविशेषचिन्ताप्राप्तिः, सूत्रान्तरत्वं च हेतोः पूर्वसाध्येऽनन्वयादवगम्यते, पूर्वपक्षसिद्धान्तसूत्रयोर्मध्यपातित्वान्न पृथगधिकरणत्वं न्याय्यम्, तेजसि चिन्तनस्य सिद्धान्तयुक्तिनिबन्धत्वादेव अपरेषामपि पक्षे व्याख्यावैषम्यं प्रत्युक्तम् । वियदादिभूतानाम् “अकाशाद्वायुः तदपोऽसृजत” इति स्वातन्त्रेण स्वकार्ये प्रवृत्तिप्रतिषेधकमधिकरणान्तरं तदभिध्यानादिति सूत्रमाहुः तदयुक्तं - रचनानुपपत्तेरित्यत्र अचेतनस्य स्वातन्त्र्येण प्रवृत्तिप्रतिषेधात्, तथाऽपि “तत्तेज ऐक्षत” इति चेतनत्वश्रवणात् संशय इति चेन्न, अगिमानिव्यपदेशस्त्वित्यत्राचेतनगतेक्षणादीनामभिमानिचेतनानुप्रवेशनिबन्धनत्वस्योक्तत्वात् तत्पूर्वपक्षसूत्रमिति चेत्तथाऽपि तस्य सूत्रकारेणाप्रत्याख्यातत्वात् कृतकरत्वम् अत एव भवद्भिरपि परमेश्वरावेशादीक्षणश्रवणमित्युक्तम्, स्वातन्त्र्यप्रतीतिश्च “चमसवदविशेषा"दित्यत्र दत्तोत्तरा, “तत्र बह्वीः प्रजा सृजमाना"मिति स्वातन्त्र्े प्रतीतेऽपि प्रकरणादिना ब्रह्मात्मकत्वगेन हि स्वातन्त्र्यं निवारितम्, न स्वतन्त्रा काचित् प्रकृतिः प्रदानं नामाऽजा मन्त्रेणाम्नायत इति शक्यते वक्तुम्, प्रकरणात्तु सा दैवी शक्तिरिति ह्युक्तं भवद्भिः, इहापि “तिस्नो देवता अनुप्रविश्ये"ति प्रकरणेऽनुप्रवेशो ज्ञायते, अतः कृतकरत्वं “विपर्ययेण तु” सति प्रलयक्रमनिरूणपरमधिकरणान्तरं परैरुक्तम्ल अनियतक्रमत्वं सर्गक्रमतुल्यत्वञ्च पूर्वपक्षीकृत्य “प्रलयस्य सर्गप्रतिलोमकमत्वं सिद्धान्तितं स्वकारणव्यतिक्रमेण कार्य्याप्ययायोगः, कार्ये ध्ियमाणे कारणाप्ययायोगश्च हेतुरुक्तः, तत्र तावदधिकरणान्तारम्भोऽनुपपन्नः प्रलये क्रमवैविध्याश्रवणेन संशयानुपपत्तेः, पृथिव्यप्सु प्रलीयते, आपस्तेजसि लीयन्ते - इत्येकरूप एव हि प्रलयः श्रूयते फसदेव सोम्येदमग्र आसीत्” “इदं वा अग्रे नैव किञ्चनासीन्न द्यौरासीन्न प्रथिवी नान्तरिक्षम्” इति क्रमानुक्त्या

द्युपृथिव्यादिक्रमान्तरेक्तया च संशय इति चेन्न, अनुक्तस्यान्यतो ग्राह्यतयाऽनुक्तेः संशयहेतुत्वायोगात्, “इदं वा अग्रे” इत्यत्र श्रौतक्रमाभावात् पाठक्रमस्य श्रौतक्रमविरोधे दुबर्लत्वाच्च अयमर्थोऽप्यधिकरणे व्युत्पाद्य इति चेन्न, भवद्भिः “न द्यौरासी"दित्यादिपाठक्रमस्य पूर्वपक्षित्वाभावात्, क्रमानियमसर्गक्रमौ हि पूर्वपक्षितौ, न द्यौरित्यादि श्रुतिस्त्वण्डान्तर्वर्त्यूर्ध्वाधरमध्यमरूपसर्वलोकप्रलयपरा न त्वण्डारम्भकतत्त्वप्रलयपरेत्यवगम्यते दिवोऽन्तरिक्षस्य च पृथगुपादानात्,अतो न क्रमान्तरप्रतीतिः, अतोऽनारम्भणीयतैव स्यात्, न च कार्यास्थितिदशायां कारणप्रलयानुपपत्तिः, भस्मवृश्चिकस्थितिदशायां तन्तुगोमयविनाशदर्शनात्; न च स्वकारणमतिक्रम्य कारणकारणे प्रलयश्चानुपपन्न।, भस्मवृश्चिकयोस्तन्तुगोमयातिक्रमेण पृथिव्यां प्रलयात्; पृथिव्येव भस्मवृश्चिकयोरुपादानं न तन्तुगोमय इति चेत् न, विलक्षणादुपादानाद्विलक्षणकार्योत्पत्तौ भवद्भिरेव स्मृतिपादे “दृश्यते त्वि"ति सूत्रव्याख्याने गोमयवऽश्चिकादिदृष्टान्तोपन्यासात्, इष्टकादिदाहे भस्मोत्पत्त्यदशनेन पृथिवीमात्रस्य भस्मविशेषोपादानत्वायोगेन तन्तूनामेव भस्भविशेषोपादानत्वत्त्याभ्युपगत्वाच्च"अन्तराविज्ञान्” इति सूत्रमप्यात्मन आकाश इति श्रौतक्रमभङ्गपरिहारपरम् “एतस्माज्जायत्” इत्यादिमन्त्रस्य उत्पत्तिक्रमे विवक्षाराहित्यप्रतिपादकं व्याख्यातम्, तदयुक्तम्, पृथिव्यप्सु प्रलीयत इत्याकाशादूर्ध्वं तन्मात्राणि भूतादौ लीयन्ते, भूतादिर्महति लीयते, महानव्यक्ते लीयते - इत्यादि श्रुत्यैव सिद्धस्य क्रमभङ्गस्य दुष्परिहरत्वात्, भूतानामात्मनश्चान्तराल इति व्याख्यानमप्युक्तम्, विज्ञानमनसी इत्यन्तरालावस्थितवस्तुद्वित्वानुपपत्तेर्विज्ञानेशब्दो हि विज्ञायतेऽनेनेति व्युत्पत्त्या इन्द्रियवर्गपरः, प्राणमनइन्द्रियवर्गाणां क्षयाणां निर्देशेऽपि प्राणमनादृत्य विज्ञानशब्देन विवक्षित इति चेन्न, मनसि चावयवार्थे सम्भवति मध्यगतं मनो बहिष्कृत्य व्यवहितयोः प्राणेन्द्रियवर्गयोरेकशब्देन विवक्षितत्वे कारणभावात्, अतो विज्ञानमनसी इति व्यपदेशो भूतप्राणयोरन्तराल इति व्याख्यानस्य युक्ततां सूचयति - चराचरव्यपाश्रयस्त्विति सूत्रमपि देवदत्तो जातो मृत इति लौकिकानां जनममरणव्यपदेशाच्चतनस्य जातकर्मादिविधानाच्च जीवस्य जन्मप्रलयावाशङ्कय शास्त्रीयकमर्फलभोगानुपपत्त्या “जीवापेतं वाव किलेदं म्रियतं न जीवो म्रियतं” इति श्रुत्या च तौ न वस्तुतः स्तः शरीरप्रादुर्भावतिरोभावयोर्जन्ममरणशब्दसद्भावात् स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ जीवात्मन्युपचरितौ, जातिकर्मादिकं च देहप्रादुर्भावाद्यपेक्षमित्येवमर्थपरं व्याख्यातम्, तदयुक्तं किमिदमधिकरणं जीवस्य स्वरूपेणोत्पत्तिनिवारकम्? उतदेहोत्पत्यादेरात्मनि निवारकम् । नाद्यः जीवस्योत्पत्तिप्रलयनिषेधस्य “नात्मा श्रुते” रित्यन्तराधिकरणसाध्यतया पूर्वोत्तरयोरधिकरणयोरन्यतरस्य पुनरुक्तिप्रसङ्गात्, अत्र देहाश्रयौ जनममलयौ जीवे निपिद्धौ, तत्र वियदादिवत् परस्मादात्मनसनतस्योत्पत्तिः “नात्मा श्रुते"रिति निषिध्यत इति चेन्न, देहात्मभेदासिद्धौ तयोस्तत्र प्रतिषेवा

भावात; तद्भेदसिद्धौ ग्रहोत्पत्तिविनाशयोर्देवदत्त इव शरीरजन्ममरणयोर्जीवगतत्वाशङ्काया अनुदयादारम्भानुपपत्तेः, देहगतोत्पत्त्यादेरात्मनि प्रतिषेधाय देहात्मभेद इह सिषाधयिषित इति चेन्न, अस्मत्पक्षे प्रथमकाण्ड एव देहात्मभेदस्य सिद्धत्वात्तस्य यावत्फलस्थायित्वाशङ्कानिवृत्तये नित्यत्वमात्रस्य समर्थनीयत्वात्, त्वत्पक्षे च “एक आत्मनः शरीरे भावा"दित्यधिकरणस्य देहात्मप्रेदसाधकतया व्याख्यातत्वाच्च पूनरुक्तेरवजर्नीयत्वात् । ननु तत्र लोकायतिकनिरसने तात्पर्यम्, इह तु शास्त्रीयर्कमवैयर्थ्यानुपपत्त्या देहातिरिक्तत्वं सिपाधयिपतमिति चेन्न, वैषम्यनैर्घृण्याधिकरण एवाकृताभ्यागमकृतविप्रणाशाप्रसङ्गमुखेन

जीवतत्कर्मप्रवाहानादित्व साधनेन देहेतिरेकसिद्धेः कृतकरत्वप्रसङ्गात् कृतविप्रणाशपरिहारो हि शास्त्रवैफल्यपरिहारः । ननु तवापि “नात्मा श्रुते"रित्यधिकरणवैफल्यं स्यात्, तत एव जीवानादित्वसिद्धेरिति चेन्न, एकत्वावधारणपतिज्ञादृष्टान्तादिभिः प्राप्ताया जीवोत्पत्तेस्तत्र परिहृतत्वात्, श्रुतिमूलाया उत्पत्तिशङ्कायास्तत्रापरिहृतत्वेन तदर्थमारम्भणीयत्वात् । किञ्च जन्ममरणशब्दयोर्देहप्रादुर्भावतिरोभावानुविधयित्वेऽपि देहात्मभेदासिद्धौ भाक्तत्वासिद्धिः, घटविषययोरुत्पत्तिविनाशशब्दयोरभाक्तत्वं हि तत्रार्थभेदाभावात्, देहात्मभेदे सिद्धे विरुद्धस्वभावातयाऽवगतार्थद्वयविषयैक्यव्यपदेशस्याग्निर्माणवक इत्यादिव्पदेशस्थेव भाक्तत्वं सिध्यतीति न पृथक्समर्थनीयत्वम्, अतस्सूत्रवैयर्थ्यं जातकर्मादिविधपरिहारपरत्वमप्ययुक्तं शङ्कायाः परिहारस्य वा कण्ठोकत्यभावे तयोरभिप्रेतत्वकल्पनायोगात् कण्ठोक्तार्थोपयुक्ततया तदभिप्रेतत्वकल्पनमिति चेत् कण्ठोक्ततया भवदभिमतार्थस्य साध्यत्वानुपपत्तेर्दर्शितत्वात्तदुपयोगितायाऽभिप्रेतत्वकल्पनानुपपत्तेः, । अन्य तु - तेजयोऽत इत्यादिसूत्रजातमेवं व्याचक्षते - तेजोऽतः ब्रह्मण एवोत्पद्यते, न वायोः, छान्दोग्ये वायोस्तदुत्पत्यश्रवणात् फवायोरग्नि"रिति श्रुतेः मुखाध्मानजन्यवायुनाऽग्न्युत्पत्त्यनुवादकतयोपपत्तेरिति पूर्वपक्षं कृत्वा एकस्य सम्भूतशब्दस्य क्वचित्प्रतिपादकस्य क्वच्दिनुवादकत्वायोगात्, परम्परया ब्रह्मजत्वोपपत्तेश्च वायोरपि तेज उत्पद्यत इति सिद्धान्तितम्, क्वचिदवचनानिमित्तशङ्काया आद्याधिकरणे भवद्भिः परिहृतत्वात्तत्राप्यवचनमात्रस्य हेतुत्वानुपत्तेरस्माभिर्दर्शित्वमतत्वाच्च पूर्वपक्षोत्थानं न घटते श्रुतेर्मुखवायुना ज्वलनोत्पत्त्यनुवादकत्वमधिकशङ्कास्पदमिति चेन्न,आकाशाद्वायुरिति श्रुतेरपि मुखवाच्छिन्नाकाशाद्वायूत्पत्तेरनुवादकत्वस्य शङ्कास्पदत्वाभावात्, तत्रापि शङ्कापरिहारावभिप्रेताविति चेन्न, कारणभूते वायौकण्ठोक्तयोः तयोः कार्यभूते तेजस्यभिप्रेतताया एवोचितत्वात् क्वचिदवचनस्य हेतुत्वानुपपत्तेर्दर्शितत्वाद्देव तदप्यनपेक्षितम्, छान्दोग्य वायोस्तेजउत्पत्त्यकथनमेकविज्ञानेन सवर्विज्ञानप्रतिज्ञानानूपयोगादित्यप्ययुक्तम्, तेजसोऽपाम ् ऊत्पत्तेरप्यकथनीयत्व

प्रसङ्गात्, तेजोरूपस्य ब्रह्मण एव कारणतिवाथि प्रतिज्ञोपयोग इति चेत् तर्हि वायूरूपस्य ब्रह्मणः कारणत्वात्तत

ऊत्पत्तिकथनस्यापि नानुपयोगः । आप इति -आप एवेदमग्र आसीदिति प्रलये व्यवस्थानश्रवणादापो नोत्पद्यन्ते । यद्व ब्रह्मण एवोत्पद्यन्ते, न तेजसः, तस्मादापोऽसृज्यन्त “अप एव ससजर्ादा"विति वचनात् “अग्रनेराप” इति तूष्मणा स्वेदोत्पत्तिं किरणेभ्यो वृष्टिं वा वदतीति अग्नेरनन्तरं ब्रह्मण आप उत्पद्यन्त इति वार्थ इति द्विविधं पूर्वपक्षं कृत्वा “अग्नेराप” इति श्रुतावध्याहातामोगात् सम्भूतशब्दार्थैकरूप्याच्च “अग्र आसी"दिति श्रुतेः प्रकृत्यन्तर्गतसूक्ष्माम्बुविषयत्वावान्तरप्रलयविषयत्वयोरन्यतरसम्भवाच्च तेजसोऽम्बूत्पत्तिरिति सिद्धान्ति तम्, “आप एवेदमग्र आसी"दिति वाक्यस्य पार्थिवस्य जगतोऽप्सु प्रलयपरत्वेनपामनुत्पत्तिपरत्वाप्रतीतेः पूर्वपक्षानुदयादिदमयुक्तम्, उत्पत्त्यवचनात् पूर्वपक्षश्चेत् पूर्वमेव परिहृतमिति न शङ्कोत्थानम् अपां ब्रह्मण एवोत्पत्तिर्न तेजस इति च न शङ्कोतिष्ठति - अवचनस्य पूर्वमेव परिहृतत्वात्, अनन्तरशब्दाधनयाहारस्य “वायोरग्नि"रित्यत्राप्यनाशङ्कितस्य शङ्कार्हत्वे वा तत्रैव परिहर्त्तव्यतया पुनःशङ्केनुपपत्तेः, सूक्ष्माणामपां प्रकृतौ

स्थितिश्च चिन्त्याऽकिमप्त्वप्रहाणेनावस्थितितिः? उताप्रहाणेन प्रथमेऽनववस्थितिरेवोक्ता स्यात् घटत्वप्रहाणे तदनवस्थितिवत्, द्वितीये"आपस्तेजसिलीयन्त” इति श्रुतिविरोधः “पृथिव्यधिकारेति” अन्नशाब्दस्य प्रसिद्धान्नपरत्वेन छान्दाग्ये पृथिव्युत्पत्त्यवचनादनुत्पत्तिंपूर्वपक्षीकृत्य पृथिव्युत्पत्तिसाधकमधिकरणान्तरं वर्णितम् - तदप्यवचनस्य प्लुष्टबीजवच्छङ्काङ्कुरजननेसेमर्थ्यादेवायुक्तम्, तदभिध्यानादिति, इदं सर्वमसृजत, तस्मादग्निः समिधो यश्च सूर्यः, तत्तेजोऽसृजत, आत्मन आकाशः” इत्यादिषु तत्त्वान्तरव्यवहितात् ब्रह्मणस्तदुत्तरतत्त्वसृष्टिरुच्यते, तत्त्वानामपि कारणत्वश्रवणात्; नियतक्रमाणां तेषामुत्तरोत्तरव्यधायकत्वाच्चेति पूर्वपक्षं कृत्वा तदैक्षतेत्याद्युक्ताभिध्यानस्य तत्तत्कार्य्येषु “तत्सृष्टवा तदेवानुप्रात्तिश"दित्यनुप्राविष्टतया श्रुतपरमात्मलिङ्गत्वात् स एव सर्वत्रोपादानम् तत्त्वान्तराणि तु देवदत्तस्य गृहवदपादानानि, उपादानत्वेऽप्यात्मनश्च तत्त्वान्तराणां च सह कारणत्वसम्भवादुभयेषामुपादानतया न व्यवधानमिति सिद्धान्तितम् तत्र व्रूमः - वाय्वादेरुपादानाकाशाद्विभज्यमार्नोऽशः किं वाय्वादिरूपेण परिणमते न वा? । न चेत् पूवोधिकरणविरोधः, वायोस्तेजस उत्पत्तिः, आपस्तेजसोऽप्युत्पद्यन्त इति हि सिद्धान्तितम्, परिणमते चेतेन परिणामांशेन कस्य व्यवहितकारणत्वमाशङ्कयाव्यवधानेन कारणत्वं समर्थ्यते, किं निमित्तस्य? उतापादानस्य? । न प्रथमः, ईश्वरेण विना तद्वयवधायकस्य निमित्तान्तरस्य जगत्सृष्टिवेलायामसम्भवात्, कर्मणामपि सुखदुःखान्वयरूपवैषम्यमात्र एव हि निमित्तत्वं - न तु सृष्टिमात्रे, द्वितीये किमीश्वरस्य व्यवधानमाशङ्कय परिह्रियते? उताव्यक्तस्य? उत सनमात्रस्य । प्रथमे तत्तत्कार्य्यं प्रति ईश्वरांशस्याव्यवहितोपादानत्वे निर्विकारश्रुतयो निर्विषयाः स्युः । द्वितीयतृतीययोरभिध्यानलिङ्गस्यापक्षधर्मता स्यात् । तृतीयेऽपि किं द्रव्यान्तरव्यवधानं निवार्यते? उतावस्थान्तरव्यवधानं? । न प्रथमः - तदनन्यत्वमित्यत्र कृतत्वेनारम्भवैयथ्यात्, न द्वितीयः आकाशाद्वायुरिति अवस्थान्तरव्यवधानस्य श्रौततया दुनिर्वारत्वात्, आकाशाद्यवस्थं तत्तदवस्थानापन्नं च सनमात्रमुपादानमिति चेन्न, युगपदेकस्य द्रव्यस्याकाशाद्यवस्थापत्त्यनापत्त्योर्वितुद्धत्वात्, आकाशाद्यवस्थापन्ने न तदवस्थानापन्नेनाशान्तरेण च सन्मात्रं वाथ्वाद्युपादानमिति चेत् - तदंशान्तरं किं नियन्त्रंशाव्यतिरिक्तम्? उत व्यतिरिक्तम्? । प्रथमे निर्विकारत्वाश्रुतिकोपः, द्वितीयेऽभिध्यानलिङ्गस्यापक्षधर्मता, प्रकृतेः प्रलयावस्थपुरुषस्य च तदसम्भवात्, अत आत्मनश्च तेजस उत्पत्तिः, आपस्तेजसोऽप्युत्पद्यन्त - इति सिद्धान्तश्चानुपपन्नः; वाय्वाद्यवस्थापन्नतत्तद्रहि

ततदंशद्वयस्य प्रमाणाभावादुक्तोपपत्तिविरोधाच्च “तदभिध्याना"दिति सूत्रानन्तरम् “असम्भव” स्त्विति सूत्रं निवेश्याधिकरणान्तरं वर्णितम्, अस्य पाठक्रमस्य प्रसिद्धिप्राचुर्य्यविरोधात्, प्रसिद्धपाठानुरोधे सङ्गतिसद्भावाच्च नात्र निवेशनीयम्,चिन्तितेभ्य आकाशादिभ्योऽतिरिक्तानीन्द्रियमहदहङ्कारव्यक्तपुरुषपरमात्मतत्त्वानि षोडश, तेषां सर्वेषां छान्दोग्यतैत्तिरीययोरश्रवणादनुत्पत्तिं वस्तुत्वात् पृथिव्यादिवत्सवरेपामुत्पत्तिं च पुर्वपक्षीकृत्य सन्मात्रस्य सन्मात्रात् सद्विशेषाचोपत्यसम्भवेनानुत्पत्तिमेकत्वावाधारणप्रतिज्ञानाभ्यामन्येषां सर्वेषाम् उत्पत्तिं च सिद्धान्तयन्ति; तत्राश्रवणात् पूर्वपक्षोदयः पूर्वमेव निरस्तः । “नित्यं विभुं सर्वगतं सुसूक्ष्मं दिव्यो ह्यमूर्त्तः पुरुषः, स बाह्याभ्यन्तरो ह्यज” इति परस्यात्मनो नित्यत्वाजत्वयोर्र्थमयोः पूर्वनिरूपितवाक्यैरवगतत्वात् सर्वं कार्यमिति शङ्का नोदेति, न हि वस्तुत्वेनाविभूत्वानुमानमाशङ्कय क्वचिदधिकरणे निराकृतम्, निरूपितवाक्येषु विभुत्वश्रवणात्; अतः पूर्वपक्षानुत्थितिरधिकरणान्तरत्वमप्ययुक्तम् “विपर्ययेण"त्वित्यादि सूत्रद्वयं भूतव्यतिरिक्ततत्त्वानां सर्गक्रमविषययमधिकरणान्तरं वर्णितम् - तत्र “एतस्माज्जायते प्राणः, इन्द्रियेभ्यः पराह्यर्था” इति वाक्यद्वयं विषयः, अत्र प्राणब्दो महद्वाची ज्ञानक्रियाशकत्यवच्छिन्नस्य महतो बुद्धिप्राणशब्दावाच्यत्वात्, मनश्शब्दोऽहङ्कारपरः सर्वेन्द्रियशब्देन मनसोऽप्युपात्तत्वात्, इतिहासपुराणेषु “खे वायुः प्रलयं याति मनस्याकाशमेव च” इति प्रयोगाच्च, एवं चात्मनो महाञ्जायते, महतोऽहङ्कारः, अहङ्कारादिन्द्रियाणि, इन्द्रियेभ्यो भूतानीति क्रमः स्यात्, अयमेवह क्रमो ग्राह्यः - आकाशादिषु क्रमविवक्षादर्शनादिति पूर्वपक्षे प्राप्ते - एतच्छ्रुत्युक्तविपर्ययक्रमेणेन्द्रियेभ्यः परा इतंदिश्रुत्यन्तरोक्तक्रमो ग्राह्यः एतस्मादित्यत्र पदार्थनिर्देशमात्रावगमात्, तत्र तु कारणतया परत्वेन क्रमविवक्षाप्रतीतेरिति सिद्धान्त उक्तः । तन्मात्रावस्थानि भूतान्यर्थाः, शब्दतन्मात्रादिष्वेकैकेन युक्तादहङ्काराच्छ्रोत्राद्युत्पत्तिश्च, अत इन्द्रियेभ्योऽर्थानां परत्वम्; एतस्मादिति श्रुतिश्चाविरोधेन नेया, प्राणात्

पूर्वमव्यक्तमुपसंहार्य्यम्, न चेन्द्रियकार्य्यत्वं स्वादीनं “सर्वेन्द्रियाणि चेति चशब्दो भिन्नक्रमः, सर्वेन्द्रियाणि स्वादीनि च मनसोऽहङ्काराज्जातानीत्यर्थः अन्तरेति” ननु प्राणशब्दवाच्यस्य महतां स्वाद्यार्थानां चान्तराले सेन्द्रियवर्गं मन एकत्र श्रूयते, अन्यत्र मनश्च बुद्धिश्च - अतो विरोधः, न च मनश्शब्दवाच्योहङ्कार एव बुद्धिशब्दाभिधेयः “बुद्धि तु सारथिं बिद्धि मनःप्रग्रहमेव च, विज्ञानसारथिर्यस्तु मनः प्रग्रहवा"निति क्रमेण तद्वयपदेशलिङ्गात् ततश्चाव्यक्तमहाद्विज्ञानाहङ्कारतन्माणीति अचितत्त्वेष्वेव नव प्रकृतयः स्युरितिचेन्न, अविशेषात् - बुद्धिमहतोरविशेषात् बुद्धिरेव महान् ज्ञानाक्रियाशक्तिभेदनं द्विधा व्यपदेशः, परत्वं च न कारणत्वेन आकारान्तरेण परत्वस्यापि साधारणत्वात् परशब्दस्य बुद्धिमनसोरविशेषो वा, भूतादित्वेनेन्द्रियादित्वेन चावस्थिताहङ्कारविषयत्वसम्भवान्मनोबुद्धिशब्दयोः । यद्वा इन्द्रियमेव मनः, विज्ञानम् -

अहङ्कारः, स्थानप्रमाणात् महान् - महानेव । यद्वा महानात्मेति प्राणशरीरो हिरण्यगर्भ उच्यते “प्रजापतिः सम्वत्सरो महा"निति प्रसिद्धेः, अतस्तत्त्वसर्गक्रम उपपन्न इति, तदिदमनुपपन्नम् इन्द्रियेभ्यः परा इत्यादिवाक्यस्य कारणक्रमपरत्वे “आनुमानिकमप्येकेषा"मित्यधिकरणविरोधात् न च तत्र वैभववादः, अन्यत्रापि वैभववादः किं न स्यादिति पर्यनुयोगानतिवृत्तेः, कारणवाक्येषु सर्वेषु सूत्रकारनिष्कर्षेऽनाश्वासप्रसङ्गात् “बुद्धेरात्मा महान् पर” इत्यत्रौचित्यभङ्गप्रसङ्गात् तद्रहितनिर्वाहे सम्भवति तदयोगाच्च, अर्थविरोधात्प्रकररवाधो युक्त इति चेन्न, औचित्यभङ्गेन महच्छब्दस्य त्वदुक्तार्थपरत्वादर्थविरोधादौचित्यभ्ङ्गेन त्वदुक्तार्थपरत्वमिति चक्रकप्रसङ्गात्; मनश्शब्दस्य स्वरसनिर्वाहे सम्भवति अहङ्कारपरत्वम् चायुक्तम्, मनस इन्द्रियत्वमाश्रित्य विज्ञानशब्दनिर्वाहे सम्भवति अहङ्कारपरत्वम् चायुक्तम्, मनस इन्द्रियत्वमाश्रित्य विज्ञानशब्दस्याहङ्कारपरत्वमत एव नोपपद्यते, विज्ञानशब्दस्याहङ्कारे स्वारस्याभावात्, तत्स्थानस्थस्य बुद्धिशब्दस्यापि तत्तुल्यार्थत्वे क्लिष्टत्वादक्लिष्टार्थत्वे स्थानप्रमाणविरोधाच्च । किञ्च विज्ञानशब्दस्य वा मनःशब्दस्य वाहङ्कारपरत्वे “विज्ञानसारथिर्यस्तु, बुद्धि तु सारथिं विद्धि मनःप्रग्रहमेव च” इति वाक्यविरोधश्च, न हि हयत्वेन रूपितेन्द्रियसंयमंस्याहङ्कारो हेतुः, महच्छब्दस्य हिरण्यगर्भपरत्वमप्ययुक्तं हिरण्यगर्भस्य बुद्धिम्स्ज्ञमहत्तत्वोपादानत्वाभावात्, अव्यक्तमेव हि तदुपादानं कारणतया परत्वस्याविवक्षितत्वे प्रकरणस्वारस्यभङ्गः, एतदुक्तं भवति - प्राचीनाधिकरणनिष्कर्षविरोधान्मनः - प्राणशब्दयोरमुख्यत्वाच्चक्रकापत्तेः; मनोबुद्धिविज्ञानाब्दानामस्वारस्यात् बुद्धिविज्ञानशब्दयोरर्थभेदे स्थानविरोधादहङ्कारस्येन्द्रियविजयोपायत्वानुपपत्तेश्च, तयार्वाक्ययोः कार्य्यकारणक्रमपरत्वायोगात् सुबालोपनिषत्प्रतिपन्नाप्ययक्रमस्य विरोधाभावेन संशयानुत्थानाच्च अस्य सूत्रद्वयस्यान्यैरुक्तप्रकारेणाधिकरणान्तरत्वमयुक्तम् - “चराचरेति” “स चायं पुरुषो जायमानः शरीरमभिसम्बद्यमान इति, स उत्क्रामन् म्रियमाण” इति देहस्योगवियोगातिरेकेणात्मनो जन्ममरणश्रवणादुत्पत्तिविनाशौ स्त इति पूर्वपक्षं कृत्वा “न जीवो म्रियत” इत्यादिश्रुतेः “अभिसम्पद्यमान” इत्यस्य जन्मविवरणरूपत्वसम्भवात् जन्ममरणयोः शरीरगतयोरात्मन्युपचरितत्वाच्च नोत्पत्तिविनाशाविति सिद्धान्तितम् तदयुक्तम् - पूर्वमनादित्वस्योक्तत्वात् नित्यत्वश्रुत्यादिना जन्मविरहस्यानन्तरमेव वक्ष्यमाणत्वात्, सिद्धे देहात्मभेदे तद्धर्मव्यपदेशस्यात्मनि माणवकेऽग्निभावस्येव उपचरितत्वसिद्धेश्च ॥ ॥ तेजोऽधिकरणं समाप्तम् ॥