॥ न वियदश्रुतेः ॥ पादसंगतिमाह - सांख्यादीति । अयमर्थः - द्वितीयाध्यायस्य प्रथमे पादे कारणविषये परोक्तदोषाः परिहृताः, अत्र तृतीये कार्य्यविषये परोक्तदोषाः परिह्रियन्ते; तस्मात्तृतीयः पादः प्रथमेन संगतः, द्वितीयस्तु परपक्षप्रतिक्षेपपरत्वाच्चरमभावीति चेत् क ारणविषये परोक्तदोषपरिहारपरपक्षप्रतिक्षेपौ संगतौ; अनन्तरं कार्य्यविषयपरोक्तदोषपरिहारो युक्त इति संगतिरिति, इममर्थमभिप्रेत्य ब्रह्मकार्य्यतयाभिमतेत्युक्तम्, तत्र चिंदचिद्वस्तुनोः काय्यर्त्वयं किमेकरूपम्? उत भिन्नरूपमिति संशयिते सति एकरूपमिति पूर्वपक्षः, भिन्नरूपमिति विद्धान्तश्च पादद्वयेन क्रियत इतीमर्थमभिप्रेत्य चिदचिदात्मकप्रपञ्चस्येत्युक्तम्, तत्र प्रथमाधिकरणस्य संशयमाह - तत्रेति । किं वियदुत्पद्यते - नवेति संशयः तदर्थम् “आत्मन आकाशः सम्भूत” इति वाक्यं वियदुत्पत्तिं प्रतिपादयति नेति, सम्भूतशब्दो मुख्योत्पत्तिपरः - उत गौणः - सति । अन्यत्र निरवयवद्रव्यस्योत्पत्त्यदशर्नमाकाशस्योत्पत्त्यनर्हतामवगमयति नेति । यदाऽवगमयति, तदा सम्भूतशब्दस्य गौणत्वाद्वाक्यस्योत्पत्तिप्रतिपादनासामर्थ्यान्न वियदुत्पद्यत इति भवति, यदोत्पत्त्यनर्हतां नावगमयति, तदा सम्भूशब्दस्य मुख्यवृत्तितया वाक्यस्योत्पत्तिप्रतिपादकत्वाद्वियदुत्पद्यत इति सिध्यति, श्रुतिः - श्रवणम्, कथमश्रुतिः “आत्मन आकाशः सम्भूत” इति हि श्रुतिरिति शङ्कायामश्रुतेरसिद्धिपरिहाराय श्रुति - शब्दार्थमाह - श्रवणसम्भव इति । श्रवणं शब्दजन्यप्रमितिः, यथा “श्रोतव्य” इत्यादिषु शब्दजन्यप्रमितिविषयत्वासम्भवादित्यर्थः, न हि शब्दोऽयोग्यार्थप्रमितिजननशक्तः “आदित्यो यूप” इत्यादिष्वदर्शनादिति भावः । यद्वा - उत्पत्तिप्रतिपादनसमर्थश्रुतिवाक्याभावो विवक्षितः । अश्रुतेरिति सम्भावितस्य हि श्रवणसम्भव इति सूत्राभिप्रायविवरणम्, एवं सति गौणीत्यनन्तरं श्रुतिनिर्देशखारस्यं स्यात्, गगनकुसुमोपादान दृष्टान्तत्वेन कृतम् । असम्भावितत्वमुपपादयति । न स्वल्विति - निरवयवद्रव्यत्वात् सर्वगतत्वाच्चेति हेतुद्वयं विवक्षितम्, केवलतर्कस्य कालात्ययापदेशसम्भवात् तद्वयावृत्त्यर्थं श्रुत्यर्थापत्तिमाह - अत एव चेति । तेजस्सृष्टिप्राथम्यं श्रुत्यर्थापत्तिः । तैत्तिरीयकेति - तर्कविरुद्धश्रुतेरपि तर्कानुगृहीतश्रुतिः प्रबलेति भावः ॥2.3.1॥
॥ अस्ति तु ॥ तुशब्दाभिप्रेतं हेतुमाह - अतीन्द्रियेति । श्रुतिरिति - एतत्सूत्रान्यथासिद्धिपरेऽनन्तरसूत्रे “गौणी” ति स्त्रीलिङ्गनिर्देशेन “अस्ती"ति श्रुतिः साधकतया विवक्षितेति भावः । किं प्रमाणान्तरागोचरत्वमयोग्यता? उत प्रमाणान्तरवाधितत्वम्? । प्रमाणान्तरागोचरत्वं चेत् - तदुत्पत्तिप्रगितिजननहेतुणेव, अतीन्द्रियार्थविषयत्वात् श्रुतः, द्वितीये पक्षे वाधकप्रमाणं वक्तव्यं तच्च नास्ति, धर्मिणः प्रत्यक्षसिद्धत्वामात्रेणागमासगतधर्मविरुद्धधर्म आगमेन प्रतीतः - तत्र यूपादित्यैक्यवच्छास्त्रं वाधितं स्यात्, प्रत्यक्षस्य पूर्वभावित्वात् नात्र तथा विरुद्धधर्मोपलब्धिः, धर्मिग्राहकप्रमाणं प्रत्यक्षमनुमानं वा, तदुभयमपि नित्यत्वानित्यत्वसाधारणमिति न तद्वाधः; अनुमानान्तरं चेत्- कालात्ययापदिष्टत्वं कालविशेषावच्छिन्नस्यैव हि नभस उत्पत्तिरुच्यते नेदानीं कालविशेषावछिन्नं नमो नः प्रत्यक्षादिगोचरम्, किन्तु शास्त्रैकसमधिगम्यम्, अतो धर्मिग्राहकमानवाधः निरवयवद्रव्यत्वहेतोर्महदादिष्वनैकान्त्यम्, विशेषणासिद्धिश्च, वियदेकदेशोपादानेन पञ्चीकरणवचनात् “आकाशवायुतेजांसि सुलिलं पृथिवी तथा । शब्दादिभिगर्ुणैर्ब्रह्मन् संयुक्तान्युत्तरोत्तरै"रिति संयोगविशेषवचनाच्च सर्वगतद्रव्यत्वहेतोरपि विशेषणासिद्धिश्च स्यात्; महादादीनां सद्भावः शास्त्रप्रामाण्यवादिभिरभ्युपगन्तव्य इत्यर्थः । न चेति - अत्र कालात्ययापदेशोऽभिप्रेतः, किं तर्ह्यात्मनोऽप्युत्पत्तिमत्त्वं स्यात्, निरवयवद्रव्यत्वस्यासाधकत्वादित्यत्राह - आत्मनोऽपीति ॥ उत्तरसूत्रमवतारयति । पुनरिति - ॥2॥
॥ गौण्यसम्भवाच्छब्दाच्च ॥ गौणवृत्तेः शब्दधर्मत्वात् तत्रापि स्त्रीलिङ्गान्तत्वाच्च श्रुतिर्विशेष्या, प्रस्तुतार्थवशात् श्रुतिविशेषावगम इत्यभिप्रायेणाह - तस्मादिति । तेजःप्रभृतेः पश्चान्न वियदुत्पत्तिः सम्भवति, पूर्वमपि न - तेजःप्राथम्यादित्यर्थः “आकाशवत्सर्वगतश्च नित्य " इत्यत्र व्याप्तिमात्रेण साम्यविवक्षाया अपि सम्भवात् “आकाशशरीरं ब्रह्मे"त्यादेः सूक्ष्मनिर्मलस्वरूपत्वाभिप्रायेण निर्वाहसम्भवाच्च पूर्वपक्षसाधकत्वेनानुपन्यासः, पूर्वपक्षेऽवान्तरसाध्यविषयहेतुद्व यरूपत्वादसम्भवशब्दयोरेकसूत्रप्रतिपाद्यता, अतो न सूत्रभेदो युक्तः ॥॥ उत्तरसूत्रशङ्कामाह - कथमिति ।
॥ स्याच्चैकस्य ब्रह्मशब्दवत् ॥ “तपसा ब्रह्मविजिज्ञासस्व, तपो ब्रह्मे"त्यादिप्रयोगोऽनुसन्धेयः, “अन्नं ब्रह्म, आनन्दो ब्रह्मे"ति प्रयोगानुदाहरणं तस्य मुख्यामुख्यविषयत्वाभावात्, अन्नादिष्वपि ब्रह्मबुध्द्या हि ब्रह्मशब्दप्रयोगः, ब्रह्मशब्दोऽस्मिन् प्रकरणे द्विः प्रयुक्तः, अत्र त्वनुपङ्गः, तत्कथमेकस्य मुख्यत्वगौणत्वविभाग इत्यत्राह - अनुपङ्गे चेति । अनुषङ्गश्रवणावृत्त्योः फलमभिधाना वृत्तिरेव, अभिधानशब्देनात्र मुख्यामुख्यसाधारणशब्दव्यापारमात्रं विवक्षितम्, बोधनार्थं ह्यनुपङ्गः, न ह्येकस्मिन् वाक्येऽनुषङ्गापेक्षा प्रयुक्तत्वात्, अतोऽनुषङ्गो वाक्यान्तरे, वाक्यान्तरस्थस्य शब्दस्य गौणत्वं च युक्तं बोधनव्यापारभेदात्, सकृत्प्रयुक्तस्य हि मुख्यत्वगौणत्वविरोधः व्यापारैक्यात्, न ह्येकबोधनव्यापारस्य मुख्यत्वगौणत्वे सम्भवतः, प्रयोगभेदेऽप्यविरोधो व्यापारभेदात्, अतोऽनुषङ्गेपि व्यापारभेदान्मुख्यत्वगौणत्वाविरोधः, तस्मादर्थौचित्यायोभयत्रापि समाधिभङ्गः कार्य्य इति । राद्धान्तसूत्रमवतारयति । परिहरतीति ॥4॥
॥ प्रतिज्ञाहानिरव्यतिरेकात् ॥ काय्यर्कारणभावाभावेऽपि नित्यसिद्धमुक्तात्मनामव्यतिरेको ब्रह्मशब्दशरीरत्वेन भवतीति तद्वयावृत्त्यर्थं ब्रह्मकार्य्यत्वेन तदव्यतिरेकादित्युक्तम्, मृत्पिण्डकार्य्यादिदृष्टान्तवणात् कार्य्यतयैवाव्यतिरेको विवक्षित इति भावः ॥5॥
॥ शब्देभ्यः ॥ ऐतदाम्यमिति वाक्यं कार्य्यभूतं कृत्स्नं कारणभूतब्रह्मात्ममित्येतदर्थपरत्वादुपात्तम्, आत्मशब्दोऽन्तर्यामिणमाह एतच्छब्देन कारणत्वं पूर्वप्रस्तुतं विवक्षितम्, यः कारणावस्थस्यात्मा स एव कार्य्यावस्थस्यापि जगत आत्मेत्यर्थः, आदिशब्देन “सम्मूलाः सोभजयोमाः, सर्वं खल्विदं ब्रह्मे"त्यादि विवक्षितम् । न चेति - न हि घटोत्पत्तिवचनं पेटोत्पत्तिं वारयतीत्यर्थः, प्राथभ्यं वारयतीत्यत्राह - वियदुत्पत्तीति । प्राथभ्यं नाम किं स्वकार्यापेक्षया पूर्वत्वम्? उत कार्य्या न्तरपूर्वकत्वाभावः? । आद्ये वियदुत्पत्तिरबाधिता स्यात्, न द्वितीयः, पूर्वभाविकार्य्यान्तरनिषेधाश्रवणात्, तेजस उत्पत्तिमात्रं हि श्रुतं नान्यानुत्पत्तिः, अतः प्राथभ्यं न श्रुतम्, अतोऽश्रुतेन श्रुतप्रहाणमयुक्तं श्रुतेनाश्रुतकल्पनं हि युक्तम् । किञ्चान्यानुत्पत्त्यश्रवणेपि प्राथभ्यं केनावगतम्? अन्योत्पत्तिवचनादिति चेत्तर्ह्यार्थेन प्राथभ्येन श्रुतोत्पत्तिबाधनमनुपन्नम् । किञ्च कुत्रचित्कस्यचिदवचनमन्यत्रापि तत्प्रतिपत्तिं वारयति चेत् - सर्वशाखाप्रत्यययनयो निविर्षयः स्यादिति भावः । सिद्धान्तेऽपि परमसाध्यहेतुत्वे सति असमस्तपदोपात्तत्तत्वात् “शब्देभ्य"इति सूत्रभेदः, अवान्तरसाध्यविषयहेतुभेदानां परमसाध्येऽपि समस्तपदोपात्तहेतूनामपि ह्येकसूत्रप्रतिपाद्यं दृष्टम्, ॥6॥
॥ यावद्विकारं तु विभागो लोकवत् ॥ विकारत्वं कार्य्यत्वम्, ऐतदात्म्यमिदं सर्वमित्यादिभिरित्यत्रादिशब्देन एकत्वावधारणादि विवक्षितम् । एवं च सतीति - असङ्कुचितार्थत्वे वायोरप्यनुत्पत्तिप्रसङ्ग इति भावः ॥7॥
॥ एतेन मातरिश्वा व्याख्यातः ॥ नेदमतिदेशसूत्रम्, अतो नाधिकाशङ्केत्यभिप्रायेणाह - पृथगिति । वियन्मातरिश्वनोरूभयोरप्युत्पत्तिर्वक्तव्या, तत्रैकसूत्रेण वक्तुं शक्येऽपि सूत्रपृथक्करणमुत्तरत्र परामर्शार्थमित्यर्थः; योगः - सूत्रम् ॥8॥
॥ असम्भवस्तु सतोऽनुपपत्तेः ॥ ननु न ब्रह्मणोऽनुप्पत्तिर्वक्तव्या, ब्रह्म व्यतिरिक्तवियदादेरुत्पत्तिरुक्ता,
पुनरनत्पत्त्यसम्भवः केषामुच्यते? अनुपपत्तिश्च कस्येत्यत्राह - एतदुक्तं भवतीति । महदादीनामनुत्पत्तिर्निषिध्यते, अनुपपत्तिरेकविज्ञानेन सर्वविज्ञानप्रतिज्ञाहानेरित्यर्थः, आदिशब्देनैकत्वावधारणादिर्विवक्षितः ।
परे तु वियदुत्पत्तेरनुत्पत्तेश्च श्रुतिसिद्धत्वाच्छुतयो विप्रतिषिद्धा इति पूर्वः पक्षः, अनुत्पत्तिरेवेति न विप्रतिषेध इति सिद्धान्त्येकदेशी, उत्पत्तिरेवेति न विप्रतिषेध इति साक्षात्सिद्धान्तिन इत्यधिकरणशरीरं वर्णयन्ति, तत्र व्रूमः - विप्रतिषेवमात्रस्य पूर्वपक्षत्वमयुक्तं तस्य परमसाध्यत्वाभावात्, यथा कारणत्वेन चाकाशादिष्विति अधिकरणस्य श्रुतियैविध्यात् संशयमूलत्वेऽपि विप्रतिषेधेन हेतुना ब्रह्मकारणवादानादरेण प्रधानकारणवादस्य ज्यायस्त्वे पर्यवसितः पूर्वः पक्षः, अतो विप्रतिषेधमात्रस्य पूर्वपक्षीकरणमयुक्तम्. अत एव हि “नात्मा श्रुते"रित्यस्य च श्रुतिवैविध्यात् संशयमूलत्वेऽपि न विप्रतिषेधमात्रं पूर्वपक्षितम्, अपि तूत्पत्तिं सिद्धान्त्येकदेशिमतं कृत्वाऽनुत्पत्तिः सिद्धान्तिता, अतो विप्रतिषेधस्य क्कचित्पर्यवसानमपेक्षितम्, तत्र किं सृष्टिश्रुतिविप्रतिषेधात् प्रधानकारणवादग्राह्यत्वम्? उत सृष्टिश्रुतीनामर्थान्तरपरत्वम्? उताप्रागाण्यमेवेति । न तावदाद्यः, प्रधानकारणवादपरत्वेऽपि श्रुतिविप्रतिषेधस्य स्थितत्वात्, तत्र वक्तव्यस्य ब्रह्मकारणवादेऽपि तुल्यत्वात्, नाप्यन्यपरत्वम् अन्याभावात्; ब्रह्मविदाप्नोतीति प्रकृतं ब्रह्मवेदनं ब्रह्मणः सर्वकारणत्वोक्तिमुखेन स्तूयते, आतोऽन्यपरत्वमिति चेन्न “कारणं तु ध्येय” इति वेद्यब्रह्मणः कारणत्वलक्षणकत्वाल्लक्षणविप्रतिषेधे लक्ष्यब्रह्म वेदनस्यासम्भवात् स्तुत्यनुपपत्तेः, नापि वेदाप्रामाण्यं, प्रथमे काण्डे तत्प्रामाण्यस्य समर्थित्वात्, अतः पर्यवसानस्थलाभावेन विप्रतिषेधमात्रस्य पूर्वपक्षीकरणायोगादनुपपत्तिं पूर्वपक्षीकृत्योत्पत्तिसिद्धान्तीकरणं युक्तम्, सूत्रयोजना चानुपपन्ना, अश्रुतेः; छान्दोग्ये वियदुत्पत्त्यश्रवणात् “अस्ति
तु” तैत्तिरीयके वियदुत्पत्तिरस्तीति व्याख्यातं वियदुत्पत्तौ श्रूयमाणायामपि क्कचिच्छ्रवणाभावस्य हेतुतयोपन्यासोऽनु
पपन्नः, अनधीतशाखान्तरपुरुषाभिप्रायेण हेतूक्तिरिति चेतर्ह्यनधीतषष्ठप्रपाठकपुरुषाभिप्रायेण पृथिव्याद्यनुत्पत्तेरप्युपन्यस्य सूत्रकारेण निरसनीयत्वं प्रसजेत्; महीमहीधरादीनां युगपत्सर्गपलयौ हि केषांचिदनभिमतौ “अस्ति”-त्विति सूत्रस्य विप्रतिषेधसमर्थनाय उत्पत्तिसद्भावपरतया पूर्वप क्षविषयत्वमप्युक्तं सिद्धान्तप्रतिज्ञाया अध्याहार्य्यत्वप्रसङ्गात्, अनध्याहारसम्भवे तदयोगाच्च “गौण्यसम्भवा"दित्यादेश्च सूत्रस्य सिद्धान्त्येकदेशिसतविषयत्वं तु परोक्ताधिकरणशरीरप्रतिक्षेपेण व्युदस्तं भवति “यावाद्विकार"त्विति सूत्रं विभक्तत्वहेतुना घटादिवन्नभसः कार्य्यत्वानुमानपरं वर्णितं, तदयुक्तं हेत्वनुपपत्तेः, विभक्तत्वं नाम यद्येकस्मात् काय्यर्तया विभक्तत्वं तदा साध्याविशिष्टो हतुः । यदि भिन्नत्वं प्रागभावे भावरूपाज्ञाने च व्यभिचारः, तदुभयव्यतिरिक्तत्वे सति भिन्नत्वमात्मनि व्यभिचरति, आत्मा ह्यविद्यातत्कार्य्येम्यो भिन्नः प्रागभावाविद्याव्यतिरिक्तश्च, उक्तभ्योऽतिरिक्तत्वे सति भिन्नत्वं व्यर्थविशेष्यं व्यवच्छेद्याभावात्, प्रागभावाविद्या ब्रह्मान्यत्वं कार्य्यत्वे हतुरिति चेत् सूत्रे विभागपदविरोधः स्यात्, विभक्तत्वं हि सौत्रोहेतुस्त्वद्योजनायाम्, विभागशाब्देनापि पूर्वोक्तात् त्रिकादन्यत्वं विवक्षितमिति चेन्न, आकाशसहिताच्चतुष्टयादन्यत्वम् उपाधिः स्यात्, न चैतावता पक्षेतरत्वोपाधिना सर्वानुमानोच्छेदः चतुष्टयस्यापि पक्षत्वाभावेन तदन्यत्वस्य पक्षेतरत्वाभावात्, एतेन मातरिश्वेति सूत्रमतिदेशाधिकरणमित्युक्तम्, तदयुक्तम् - अधिकशङ्काया अभावात् सर्वगतद्रव्यत्वादिहेतुप्रसङ्गविरहाच्छङ्का न्यूनतैव “सैपाऽनस्तमिति देवता यद्वायुः” इति श्रुत्याधिकशङ्केति चेन्न “वायुश्चान्तरिक्षं चैतदमृत"मित्यमृतत्वश्रवणस्य विषन्मातरिश्वनोस्तुल्यतया परिहारस्य तुल्यत्वात्, अनस्तमितशब्दस्यामृतशब्दतुल्यार्थतया पृथक्परिहरणीयत्वाभावाच्च ब्रह्मणोऽपि कारणत्वादेव गगनादिवत् कार्य्यत्वमाशङ्कय तन्निरासपरम्, असम्भव इत्यादिसूत्रमधिकरणान्तरमाहुः । कार्य्यत्वशङ्कानिरासः किं युक्तया? उत श्रुत्या? ः नाद्यः युक्तेरसम्भवात् । ननु कार्यत्वानुपपत्तिरेव युक्तिः, न ह्यसतः सदुत्पत्तिः? “कथमसतः सज्जायेते"ति तस्या व्युदस्तत्वात्, न तावत् सद्विशेषात् सम्मात्रोत्पत्तिः विशेषेभ्यस्यामान्योत्पत्त्यदशर्नात्, सामान्येभजयो हि विशेषोत्पत्तिर्दृष्टा, नापि सनमात्रात्, सन्मात्रोत्पत्तिः, असत्यतिशये प्रकृतिविकारभावानुपपत्तेरिति चेन्न, पूर्वकालात् सतः पाश्चात्यसदुत्पत्त्युपपत्तेः पूर्वापरभावातिरिक्तविशेषो नावश्यापेक्षितः, सदृशपरिणामपरम्परायाः शास्त्रप्रामाण्यवादिभिरभ्युपगतत्वात्, पूर्वोत्तरज्वालासु सदृशीषु पौर्वापर्यातिरिक्तादर्शनाच्च, अतो युक्तिर्दुःस्थतरेति न तयाशङ्कानिरासः, यदि श्रुत्या - तर्हि कृतकरत्वप्रसङ्गः, “अदृश्यत्वादिगुणको धर्मोक्ते"रित्यादिषु “नित्यं विभुं सर्वगतं सुसूक्ष्मं, स बाह्याभ्यन्तरो ह्यज इति” नित्यत्वाजत्वादिधर्मकस्यैव ब्रह्मणो भूतयोनिशब्देन परमकारणतया निर्दिष्टस्य परमात्मत्वनिर्णयात्तद्विरुद्धाशङ्कोत्थानं हि नोपपद्यते ॥ अपरेषु - शब्दादिगुणानां च दिक्कालादीनां सृष्टयश्रवणान्नित्यत्वमाशङ्कयअद्वितीयश्रुत्यनुपपत्त्या तन्निरासकमधिकरणान्तरं वर्णयन्ति; तदप्युक्तं, शब्दादीनां द्रव्यावस्थारूपाणामुत्पत्त्यन्तरनैरपेक्षस्य सत्कार्य्यवादसमर्थनेनाप्यर्थसिद्धत्वात् । “पद्भयां भूमिर्दिशःश्रोत्रात्, सर्वेनिपेषा जज्ञिरे,
विद्युतः पुरुषादधि, कला मुहूर्त्ताः काष्ठाश्चाहोरात्राश्च सर्वशः । अर्धमासा मासा ऋतवः संवत्सराश्च कल्पन्ताम्” - इति दिक्कालोत्पत्तिश्रवणेन च नित्यत्वशङ्कानुदयात्, तर्कमात्रावष्टम्भपरवादिप्रतिपत्तिनिरासार्थोऽयमारम्भ इति चेन्न, तस्य तर्कपादसाध्यत्वेनेहासङ्गतत्वात्, न च नभोभागमात्रं दिशः, सूर्यादिगतिविशेषः काल इति, च युक्तं “नास्या आसीदन्तरिक्षं शीर्ष्णो द्यौस्समवर्त्तत, दिशः श्रोत्रादिति, सूूर्याचन्द्रमसौ धाता यथापूर्वमकल्पय"दिति पृथगुत्पत्तिश्रवणात् अत एवोत्पत्तिर्दिक्कालावच्छेदकविषयेति शङ्का च निरस्ता भवति । नाप्युत्यत्तिश्रुतिर्दिक्कालादिदेवतामात्रविषयेति वाच्यम्, अधिष्ठेयभेदाभावे अधिष्ठातृदेवताभेदानुपपत्तेः, आदित्यादिगतिविशेष एव कालश्चेत् “अग्र” इति सूर्यादिसृष्टेः प्रागेव कालदर्शनम् “रूपान्तरं तद् द्विज ! कालसंज्ञ"मिति प्रधानपुरुषवातिरिक्त कालस्मरणं च विरुव्यते, अतस्तन्मतमप्यनुपपन्नम् । प्रथमाध्यायशेषः पादद्वयेनावसित इत्यन्ये - तदयुक्तं पादवतुष्टयस्यापि प्रथमाध्यायशेत्वात्, वेदान्तानां ब्रह्मैककारणतापरत्वं हि प्रथमाध्यायार्थः, तत्र साक्षादुपयोगोऽनेकान्तवादिनिरासादीनामपि नास्ति प्रणाड्योपयोगस्तृतीयचतुर्थयोरप्यस्ति कार्य्यदौःस्थ्यस्य कारणदौस्थ्यापादकत्वात्तत्परिहारस्य तत्स्थिरीकारहेतुत्वाच्च, अन्येषां पक्षेऽप्याद्ययोः सूत्रयोर्मातरिश्वविषयसूत्रस्य च योजनावैषम्यं पूर्ववद्दत्तोत्तरं वेदितव्यम्, “गौण्यसम्भवा"दिति श्रुत्यन्तरविरोधादसम्भवः श्रुत्यन्तयं च “खं पुराणं वायुः खमिति ै स्माहे"ति, त्रिरात्रं स्वमेतत् पुष्पान्तमिति, च पुराणमेकं खम्, अपरं खं पुष्पवद्विनाशीत्युच्यते, एवं सति गगनद्वयासम्भवात् घटोत्पत्त्या घटाकाशस्येव ब्रह्माण्डोत्पत्त्या तदवच्छिन्नाकाशस्योत्पत्तिरुपचर्य्यते, अतो न व्योम्नो मुख्योत्पत्तिरित्याहुः । व्योम्न एकत्वे व्योमशब्दस्य कृत्स्नव्योमविषयत्वात् पुराणमित्यादिविशेषणस्य व्यवच्छेद्यासम्भवः परिह्रियते “स्याच्चैकस्ये"ति ब्रह्मण एकत्वेऽपि “एतद्वै सत्यकाम ! परं चापरं च” इति ब्रह्मशब्दस्यब्रह्मैकदेशोपलक्षणतया एकदेशान्तरं यथा व्यवच्छेद्यं तद्वद्वयोमशब्दस्याप्युपपत्तिरित्याहुः । प्रतिज्ञेति शब्देभ्य इत्यन्तमेकं सूत्रं गगनाकार्य्यत्वे प्रतिज्ञाहानिमाशङ्कय अकार्य्यत्वेऽपि भोक्तृवर्गस्येव नभसोऽपि ब्रह्मव्यतिरिक्तत्वात् प्रतिज्ञाया अहानिरव्यतिरेकश्च आत्मैवेदं सर्व"त्यिादिशब्देभ्यः सिद्ध इत्याहुः । एवं गौणीत्यादिशब्देभ्य इत्यन्तं पूर्वपक्षविषयं यावदिति, यावन्तो महदादयो विकारास्तावन्तो विभागाः सूक्ष्माः शक्तिरूपाः सवितुरिव प्रभा ब्रह्मणः सन्ति लौकिकपुरुषाणामिवेश्वरस्यापि कार्य्यकारवन्तो व्यवहाराः श्रूयन्ते, अतः सूक्ष्ममाकाशं परमं व्योम तस्मादस्य तु व्योम्न उत्पत्तिरस्तीत्याहुः । तत्र तावत् खं पुराणमिति श्रुतिविरोधादुत्पत्त्यसम्भवात् गौणीत्ययुक्तं शब्दाच्चेत्यनेन पुनरुक्तिप्रसङ्गात् “वायुश्चान्तरिक्षं चैतदभृत"मित्यगृतत्वश्रुतेः पुराणत्वश्रुतेश्च को भेदः, यतः पुराणत्वश्रुतिविरोधादसम्भवो न विवक्षितः, अत एव पुराणत्वादिविशेषणस्य व्यवच्छेद्यासम्भवपरिहारपरत्वम्, स्याच्चैकस्येति सूत्रस्येप्युक्तं प्रतिज्ञाहानिरिति सूत्रस्य
च पूर्वपक्षविषयतयैव तत्र शङ्काविशेषपरिहारपरत्वमयुक्तं तथा सत्यधिकरणसिद्धान्तसाधकयुक्तेरनुक्तिप्रसङ्गात् “यावद्विकार"मिति सूत्रं सिद्धान्तसाधकयुक्तिपरम् तत्र हि तुशब्दः श्रुत इति चेन्न तस्य परापरव्योमभेदेन पुराणत्वोत्पत्तिमत्त्वविरोधपरिहारपरत्वेन व्याख्यातत्वात् परिहारश्च साधकयुक्तयन्तर उपन्यस्ते युज्यते, अन्यथा व्योम्न एकत्वात् पुराणत्वश्रवणाच्च उत्पत्तिर्गौणीति वदता अन्योन्याश्रयोद्घाटनस्य सुकरत्वादुत्पत्तेरगौणत्वे ततः पुराणव्योभ्नोऽन्यत्वं तस्यान्यत्वादुत्पत्तेरगाढणत्वमिति । ननु गगनभेदेप्रमाणोपस्थापकं सूत्रमिति चेत् यदि तयोर्व्योभ्नोरूत्पत्त्यनुत्पत्तिभ्यां भेद उपस्थप्यते तदानीगौषाधिकभेदमाश्रित्य गौणोत्पत्त्या प्रमाणनिर्वाह उपपद्यते, यद्याकारान्तरेण व्योभ्नो भेदः श्रुतः तर्ह्युत्पत्तेर्गौणत्वेऽपि स उपपद्यते उत्पत्तेरगौणत्वे हेतोः सूत्रितत्वामावात् । किञ्च अव्यक्तात्परमक्षरं परं व्योमेति भवतां मतम्, तस्य च पुराणत्वमयुक्तम् अक्षरं तमवि लीयत इति लयश्रवणात्, आपेक्षिकं पुराणत्वमस्तीति चेत्तर्हि व्योमभेदाभावेऽपि घटाकाशब्रह्माण्डावच्छिन्नाकाशयोरिव पुराणत्वापुराणत्वयोरविरोथः सुवच इत्युत्पत्तिगौणी स्यात्, अत एव प्रलयश्च तत्र गौणस्स्यात्, यदा प्रतिज्ञाहानिरिति सूत्रं सिद्धान्तसाधकं तदानीं भवदुक्तशङ्का दूरोत्सांरिता स्यात् । तच्च पूर्वं दर्शितं छान्तोग्ये गगनोत्पत्त्यवचनेऽपि तत्सिद्धिप्रतिपादनं चापेक्षितमन्तिमसूत्रे कृतं स्यात्, अत एव तत्र तुशब्दोऽपि चेर्थो द्रष्टव्यः, अन्यथाऽनुपपत्तेर्दर्शितत्वात् ॥
॥ वियदधिकरणं समाप्तम् ॥