॥ न प्रयोजनवत्त्वात् ॥ सङ्गतिः स्पष्टा । कारणत्वं सम्भवति, न? इति विचारः । तदर्थमवाप्तसमस्तकामस्य लीला प्रयोजनम्, नेति, लीलायां वैषम्यनैर्घृण्येप्रसज्येते, न इति च । यदा न प्रसज्येते, यदा च लीला न प्रयोजनम् तदा लीलारूपव्यापारासम्भवात् कारणत्वासम्भवः । यदा न वैषम्यादिप्रसङ्गः, यदा च लीला प्रयोजनम्, तदा
अवाप्तसमस्तकामस्य लीलारूपव्यापारसम्भवात् कारणत्वसम्भव इति सिध्यति । प्रयोजनवत्त्वं कस्येत्यपेक्षां पूरयति - विचित्रसृष्टेरिति । तस्य नेतिपदेनान्वयस्य विरुद्धत्वादभिप्रेतमाह - ईश्वरस्य चेति । तदेव विवृणोति - बुद्धिपूर्वेति ।
॥ लोकवत्तु लीलाकैवल्यम् ॥ लीलैव केवलेति पणबन्धपूर्वकद्यूतादिव्यावृत्त्यर्तः केवलशब्दः । प्रयोजनान्तरानुद्देशेन प्रवृत्तत्वेपि यदृच्छोपनतप्रयोजनस्यार्थात् सिद्धिव्युदासार्थ एवकारः । ननु कन्तुकाद्यारम्भस्य लीलात्वं युक्तम्, यत्नगौरवाभावात् । जगद्य्वापारस्य तु लीलात्वमनुपपन्नम्, महायासरूपत्वादितिशङ्कानिवृत्त्यर्थमाह - स्वसङ्कल्पमात्राऽवक्लृप्तेति ।
॥ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ वैषम्यशब्दः पक्षपातशब्देन व्याख्यातः । कस्य किमपेक्ष्यमित्यत्राह - सृज्यमानेति । ईश्वरश्चेन्न सृष्टौ कमर्सापेक्षः, किन्तु वैषम्यांश एव तदपेक्षा, अतो विषमसृष्टेरित्यध्याहृतम् । निमित्तमात्रमेवासाविति - अप्रधानकारणं निमित्तशब्दविवक्षितम्, प्रधानकारणीभूता इति तत्रैव निर्द्देशात् । यथा “निमित्तमात्रं
भव सव्यसाचिन्” इति, तदनवत् । प्राधान्यञ्च असाधारणकारणत्वम् साधारणकारणत्वमप्राधान्यम् यथा क्षेत्रसलिलादिकं सर्वसस्यसाधारणकारणं तत्तद्बीजशक्तिविशेषा अङ्कुरविशेशेत्पत्तावसाधारणकारणम् तथेश्वरस्य साधारणकारणत्वान्निमित्तमात्रत्वम्, कर्मणां विषमसृष्टयसाधारणकारणत्वात्प्राधान्यमित्यर्थः ।
॥ न कर्माविभागादिति चेत्रान्नादित्वादुपपद्यते चाप्युपलभ्यते च ॥ अपिशब्दं व्याचष्टे - तदनादित्वेपीति - उपपद्यते चेत्यत्र चशब्दाभिप्रेतार्थमाह - अकृताभ्यागमेति । स्वरूपानादित्वे सत्यपि सृष्टिप्रवाहानादित्वे सति हि कर्मप्रवाहानादित्वसिद्धिः, अतः सृष्टिप्रवाहानादित्वं दर्शयति - सूर्याचन्द्रमसाविति । प्रतिकल्पमधीतस्यास्य वाक्यस्यार्थवत्त्वात्सृष्टेरनादित्वसिद्धिः, तत्तत्सूत्रोक्तानर्थान् यथाक्रमं वदन्नधिकरणार्थसुपसंहरति - अत इति ।
॥ सर्वधर्मोपपत्तेश्च ॥ इदं सूत्रं सर्वाधिकरणशेषम् । के धर्माः, कस्मिन्नुपपत्तिः, किं व्यवच्छेद्यम् ? इत्यपेक्षायां व्याचष्टे- प्रधानेति । पञ्चम्या अन्वयं दर्शयति - ब्रह्मैवेति । परमप्रकृतसाध्येनान्वय इत्यर्थः ॥
इदमधिकरणं ब्रह्माज्ञानपक्षे न सङ्गच्छते, जगद्य्वापारस्य निष्प्रयोजनतया चोदिते लीलात्वेन परिहारात् । प्रपञ्चस्य भ्रान्तिपरिकल्पितत्वे भ्रान्तकृत्यस्य निष्प्रयोजनत्वं न दोष इति हि वक्तव्यम्; न हि शुक्तिरूप्यचन्द्रद्वित्वाध्यासादिकं प्रयोजनाय प्रवर्तते, न च पित्तोपहतः प्रयोजनाकाङ्क्षया घटं भिनत्ति, गृहं च दहति, न हि स्वप्नदर्शी प्रयोजनापेक्षया स्वशिराछेदं पश्यति । ननु भ्रान्तस्यापि हि क्रीडा सम्भवति, अतस्तदुक्तिरिति चेन्न, केषाञ्चिद्य्वापाराणां क्रीडातुल्यत्वेऽपि स्वशिरःप्रहारादीनामिव भ्रान्तव्यापारत्वादेव तेषां क्रीडात्वानुपपत्तेः । किञ्च “बहु स्या"मिति सङ्कल्पेन हीश्वरः सृष्टयादि करोति, तदयुक्तम्; न हि कश्चिद्भ्रान्तः स्यामिति सङ्कल्प्य भ्राम्यति । किञ्चेश्वरस्सर्वज्ञश्चेत् स्वानर्थरूपसंसारपवर्त्तनं क्रीडेति
न मन्यते, अज्ञश्चेत्सर्वज्ञत्वश्रुतिविरोधः । विवेकज्ञाननिष्पादनेन स्वानर्थपरिहाराय जगत्सृजतीति चेत् तथापि लीलात्वमनुपपन्नम् । न हि व्याध्युपहतस्य औषधानयनप्रवृत्तिर्लीला भवति । स्वयं प्रयोजनरूपव्यापारो हि लीला, ऋग्वेदादिप्रवत्तर्कस्य शास्त्रादधिकविषयज्ञानवत ईश्वरस्य जगत्सृष्टिनिष्पाद्यं विवेकज्ञानं न सम्भवति, “यस्सर्वज्ञस्सर्ववित् तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते” इति हि श्रुतिः । यदीश्वरः स्वबन्धभ्रमनिवर्तनाय जगत्सृजति तर्हि बन्धच्छेदनौपयिकानेवार्थान्सृजतु, किमर्थं बन्धवर्धकानर्थकामादीन् सृजति ? किञ्च किं भ्रान्तिहेतुर्लीला ? उत भ्रान्तिकार्या ? उत भ्रान्तिरेव ? नाद्यः । लीलया स्वभ्रमसम्पादनानुपपत्तेः । न द्वितीयः, प्रथमसङ्कल्पस्य लीलात्वानुपपत्तेः, तद्वदेवोत्तरत्रापि लीलामन्तरेण भ्रमोपपत्तेश्च । नापि तृतीयः, द्विचन्द्रज्ञानस्य लीलात्वाप्रसिद्धेः, स्वयमभ्राम्यन्नीश्वरो लीलथा परान् मोहयतीति चेन्न; त्वन्मते भ्रान्त्या विना परदर्शनायोगात्परदर्शने सम्भवति तेषां स्वानन्यत्वज्ञानाच्च । निर्विशेषसन्मात्रस्य ब्रह्मणो निर्विशेषत्वादेव न लीलासम्भवः, ईश्वरस्य तु सर्वज्ञत्वेन संसारमहितत्वेन जीवान् स्वानन्यत्वेन च जानतो जन्मजरामरणादिनिर्वर्तननरकपातनादिव्यापारो न लीला भवितुमर्हति; अत इदमधिकरणं ब्रह्माज्ञानवादिनां विरुद्धम् । वैषम्येत्यादिसूत्राणि चाधिकरणान्तरं सर्वैर्वर्णितम्; न च तद्युक्तम्, फलफलिभावेन प्रकृतसाध्येन तेषामन्वितार्थत्वात्, फलफलिभावश्च दशिर्तः । कर्मसापेक्षतया वैषम्यनर्घृण्यपरिहारश्च भ्रान्तब्रह्मवादिनां न घटते, पित्तोपहतो हि शुभाशुभानपेक्षः कञ्चित्स्तौति सान्त्ववादिनमपि कञ्चिन्निन्दति, काश्चिदम्भसा सिञ्चति, कांश्चिन्मुसलेन हन्ति; न च तस्मिन्वैषम्यनैर्घृण्ययोर्दोषरूपता । न च युक्तया परिहर्तव्यत्वम् । सापेक्षत्वादितिपदं च विषमसृष्टया सम्बन्धर्महति, न हीश्वरश्चेत् कर्मसापेक्षः, तस्य स्वतन्त्रत्वात् । सृष्टिश्चेन्न कर्मसापेक्षा समष्टितत्त्वसृष्टौ सर्वशक्तितयेश्वरस्य निरपेक्षत्वात् । यस्मिन्नंशे वैषम्यनैर्गृण्यप्रसङ्गस्तत्रैव हि कर्मणोऽपेक्षा; अतः प्राप्ताप्राप्तविवेकेन वैषम्यांशस्य कर्मसापेक्षत्वाद्विषमसृष्टेरित्युक्तम् । उपपद्यत इति चानादित्वमुपपद्यत इति व्याख्यातम्, तदानीमविभागादिति शङ्कितहेतुरपरिहृतः स्यात्; अतः क्षेत्रज्ञानामनादित्वेऽपि अविभाग उपपद्यत इति व्याख्यातम् । उक्तलक्षणस्याविभागस्य तथोत्वोपपादकत्वेन अकृताभ्यागमादिप्रसङ्गरूपस्तर्कोऽपि सूत्राभिप्रेतो भवतीत्यभिप्रायेणाहतथानभ्युपगम इति । अकृताभ्यागमशब्देन मुक्तानामप्युत्पत्तिप्रसङ्गोऽभिप्रेतः । एवम् उपपद्यते इति द्वयं यथाक्रममविभागानादित्वयोः समर्थनपरम् । सर्वधर्मोपपत्तेश्चेतिसूत्रं निर्विशेषवादेऽत्यन्तमघटितमिति दुरपह्नवम् । ब्रह्मणो महामायत्वात्तस्मिन्मायाकल्पितधर्मोपपत्तिरिति तु श्रद्धामात्रम्, अशाब्दत्वात् । “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति श्रुतिविरोधाच्च । यादवमिश्रानुसारिणस्तुसर्वधर्मोपपत्तेश्चेति सूत्रमप्यधिकरणान्तरमाहुः, तत्र चैतन्यशक्तिक्रियाशक्तिपरिणामशक्तिरूपाः सर्वे धर्मा ब्रह्मणि नोपपद्यन्ते, नित्यसर्गादिप्रवृत्तिप्रसङ्गात् न चेच्छया नित्यप्रसङ्गपरिहारः, इच्छाया नित्यत्वे नित्यप्रसङ्गात्, अनित्यत्वेऽपि हेतुसापेक्षत्वात् हेतोश्चामानकत्वात्; कथञ्चिद्धेत्वन्वेषणे तस्यापि नित्यानित्यविकल्पे पूर्वोक्तदोषप्रसङ्गादिच्छया व्यवस्थाऽनुपपत्तिर्नित्यप्रसङ्गः । अतो ब्रह्मणि सर्वे धर्मा नोपपद्यन्त इति पूर्वः पक्षः कृतः । इच्छायाः प्रलयकालात्ययज्ञानजन्मत्वात् तज्ज्ञानस्य प्रलयादौ कञ्चित्कालं स्वप्स्यामि ततः प्रबोद्धाहे इति सङ्कल्पस्य नष्टत्वेऽपि तदाहितविशेषप्रबोधशक्तया प्रलयकालात्येय जन्यत्वात् प्रलय
कालस्य प्रकृतिपरिणामरूपत्वादन्त्यपरिणामस्य नित्यप्रसङ्गाभावादिच्छायाः कादाचित्कत्वोपपत्तेर्नित्यसर्गादिप्रसङ्गाभावात्
ब्रह्मणि ज्ञानक्रियापरिणामशक्तिरूपसर्वधर्मोपपत्तेरिति राद्धान्तितम् । तत्र तावदधिकरणान्तरत्वमयुक्तम्, सन्मात्रस्यापि ब्रह्मणः प्रकृत्यंशेन महदाद्युपादानत्वात् परिणामशक्तिमतोऽपि प्रकृत्यंशस्यान्तर्यामिब्राह्मणादिष्वीश्वरनियाम्यतयाऽवगतस्य स्वातन्त्र्ेण परिणामायोगात् “सदेव सोम्येदमग्र आसीत्तदैक्षत बहु स्यां सोऽकामयत” इति जगत्सर्गादिविषयस्येश्वरसङ्गल्पस्य कादाचित्कत्वावगमाच्च नित्यसर्गादिप्रवृत्त्यप्रसङ्गेन पूर्वपक्षोत्थानासम्भवात् । आद्विपराद्धकालभाविसदृशतरसूक्ष्मपरिणामपरम्परास्वन्त्यपरिणामलक्षणस्य प्रलयकालात्ययस्य ज्ञानं सिसृक्षाहेतुः । तत्र यदुक्तं सुषुप्तस्येश्वरस्य पूर्वसङ्कल्पाहितविशेषाप्रबोधशक्तिः प्रलयकालात्ययसहकृता प्रबोधं जनयति, तेन प्रलयात्ययं ज्ञात्वा सङ्कल्पयतीति तदयुक्तम् स्वतः सर्वज्ञस्य ज्ञानसङ्कोचककर्मपारवश्यरहितस्येश्वरस्य स्वापायोगात् स्वेच्छया स्वाप इति चेन्न; इच्छानुपपत्तेः । अज्ञातांशेऽपि ज्ञानमेव हि सर्वे वाञ्छन्ति, न तु ज्ञानलोपम् अभिमतत्वं दृश्यत इति चेत् आहाराजरणतीव्रामयदुःखपरिश्रमतमोगुणाभिभूतानां तत्तदधिष्टशमनाय निद्राकाङ्क्षा, लघुशरीरस्य व्याध्यादिरहितस्य प्रसन्नमनसो विचित्रमभिमतं विषयमवलोकयतो हि निद्राऽनभिमतैव भवति; अतः ऊमिर्षट्कातिगस्यानामयस्य सर्वशक्तेस्तमसः परस्येश्वरस्य कथं ज्ञानलोपोऽभिमतः स्यात् ? प्रबोधशक्तेः पूर्वसङ्कल्पाहितविशेषत्वमप्ययुक्तम्, विशेषस्य प्रबोधजननयोग्यतालक्षणत्वाद्योग्यतान्तरानुपपत्तेर्द्रव्यस्यैव सर्वविधयोग्यतापादनदर्शनाच्च । स च योग्यतालक्षणविशेषः किं प्रलयकालात्ययज्ञानात्प्रबोधमीश्वरे जनयति ? उताज्ञानात् ? न प्रथमः, योग्यतायाश्चैतन्याभावात् । द्वितीये सयोग्यतारूपविशेषस्तदानीमीश्वराधिष्ठिनः, न वा ? न प्रथमः, अप्रबुद्धस्याधिष्ठातृत्वायोगात् । द्वितीये चानधिष्ठितस्य विशेषस्य यथा प्रबोधकार्यकरत्वम्; एवमीश्वरानधिष्ठितस्य पअकृत्यांशस्यैव जगज्जननसम्भवात् प्रबोधपरिकल्पनं विफलम्; तद्धि कल्प्यम्, अश्रुतत्वात् । प्रबोधानन्तरभावितया त्वदभिमतस्सङ्कल्प एव हि तदैक्षतेति श्रुतः, न तु प्रबोधः, अप्रबुद्धस्य सङ्कल्पायोगात् तत षव प्रबोधः पल्प्यत इति चेन्न; स्वापप्रबोधयोरुभयोः कल्पनादपीश्वरज्ञानस्य नित्यतामात्रकल्पनस्य न्यायत्वाच्छ्रुत्यनुरोधाच्च । स्वापप्रबोधावपि वचनसिद्धाविति चेत्, नित्यज्ञानत्वं च वचनसिद्धम् तद्वचनं ज्ञानशक्तिनित्यत्वपरमिति चेत् स्वापप्रबोधवचनमपि जगद्य्वापारवैमुख्यौन्मुख्यविषयं स्यात् । इयान् विशेषः, क्वचिज्ज्ञानलोपस्याभिमतत्वानुपपत्तिः शक्तेराहितविशेषत्वानुपपत्तिरेकेण स्वापप्रबोधयोरश्रुतयोः परिकल्पनगौरवञ्च, अन्यत्र तद्विरहश्चेति किञ्च स्वापशब्द #missing 9 lines.