09 कृत्स्नप्रसक्त्यधिकरणम्

॥ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ दृष्टान्ततयोपन्यस्तस्य क्षीरजलादेः सावयवत्वं दृष्टम् तद्वद्ब्रह्मणोऽपि सावयवत्वम्, निरवयवत्वे कृत्स्नप्रसक्तिर्वा स्यादिति शङ्कया सङ्गतिः । किं ब्रह्मणो जगत्कारणत्वं सम्भवति नेति । तदर्थं किं ब्रह्मणो जगदाकारेण कार्यत्वे निरवयवत्वश्रुतिर्बाध्यते नेति । तदर्थं किं सर्वशक्तियोगो युज्यते नेति । यदा न युज्यते तदा निरवयवत्वश्रुत्यबाधात् कारणत्वसम्भव इति । सदेवेत्यादि - एकमेवाद्वितीयमित्यनन्तरवाक्यं प्रसिद्धत्वादनुदाहृतमप्यर्थतउपात्तम् । तत्रैकशब्दत्ववयवतोऽपि विभागासहः, यावद्बाधं हि सङ्कोचः, इह तदभावादसङ्कुचितमेकपदं विभागसहमिति भावः । एकशब्दसिद्धं निरवयवत्वं ब्रह्मण इति ज्ञापनार्थं सदेवेति वाक्यमुपात्तम् । इदं वा इति - अत्र नैव किञ्चनासीदिति देवादिप्राणिजाताभाव उच्यते । अत्रापि “न द्यौरासीन्न पृथिवी” इत्यादिकमपि प्रतीकग्रहणेनोपात्तं भवति, द्युपृथिव्यादिजगदवयवाभावकथनान्निरवयवत्वसिद्धिरिति भावः । आत्मा वा इदमिति - अत्राप्येकशब्दोऽवयवतोऽपि विभागासहः । उदाहृतवाक्यानामर्थमाह - इत्यादिष्विति । आदिशब्दात् “निष्कलं निष्क्रिय"मित्यादिर्गृह्यते । एकमेवेति व्याख्येयपदम्, निरवयवमिति व्याख्यानम् । उदाहृतश्रुत्यर्थफलितमाह कारणावस्थायामिति । निरवयवत्वस्य कारणवाक्यप्रतिपन्नत्वात् कारणावस्थायां चिदचिद्विभागाभावसिद्धिरित्यर्थः। विरोधं दर्शयितुमाह - तदविभागमिति । एकं निरवयवमविभागमित्यन्वयक्रमः । वेदान्तेष्वेकशब्देन प्रतिपादितत्वान्निरवयवम्; अतो निरस्तचिदचिद्विभागमित्यर्थः । सिद्धान्तिना अनभ्युपगतेऽप्यापातप्रतीते स्वरूपैक्यपक्षे दूषणमाह एवं सतीति । तत्रांशभेदेन परिहारं शङ्कते - अथेति । सौत्रंपदमाख्यातरूपेण दर्शयति - कुप्येयुरिति । मुख्यार्थायोगाद्य्वचष्टे - बाधिता भावेयुरिति । बाधफलभूतकोपशब्देन बाध उपचरित इति भावः । यद्यपीति - एकशरीरे शरीर्यंशः परिसमाप्त इति नान्यत्र स्यादित्यर्थः ।

॥ श्रुतेस्तु शब्दमूलत्वात् ॥ श्रुतेस्त्विति सूत्रखण्डं व्याचष्टे- तुशब्द इत्यादिना । खण्डान्तरं शङ्कया अवतारयति - ननु चेति । शब्दमूलत्वादिति - अग्निना सिञ्चेदित्यादिषु सेचनसाधनतानर्हत्वं धमिर्णः प्रत्यक्षसिद्धम्, अतो न तदर्हत्वं वाक्यं प्रतिपादयति । प्रमाणान्तरागोचरस्य तु धर्मिणो विलक्षणत्वं शास्त्रेण प्रतिपन्नमिति विलक्षणधर्मिणो विलक्षणधर्मयोगो न विरुद्ध इत्यर्थः । सामान्यतो दृष्टमिति - लोके द्रव्यादग्निरनुप्ण इतिवद्येन केनचिदाकारेण यस्य कस्यचित्साहचर्यमात्रदर्शनेन तत्सामान्याद्यत्साधनं दूषणं वा क्रियते न तदर्हतीत्यर्थः ।

॥ आत्मनि चैवं विचित्राश्च हि ॥ उक्तस्फुटीकरणायाह- यथोक्तमिति । पुराणवचनस्य स्फुटार्थत्वात् पूर्वोपादानम् । वचनद्वयमध्यगतस्य परिचोद्येतिपदस्य यथोक्तमिति पूर्वेणान्वयः । पुराणश्रुतिवचनयोरर्थमाह - सामान्यत इति । ॥

स्वपक्षदोषाच्च ॥ दर्शनानुगणमनुमीयमानस्यैव लोकदृष्टप्रसङ्ग इत्यर्थः । स्वाभ्युपगमविरोधः- प्रधानस्य परमकारणत्वासिद्धेः । सङ्खया विरोधश्चतुविंशतितत्त्वाधिक्यात् । प्रदेशभेदमनपेक्ष्य संयुज्यमानानामिति - असंयुक्तप्रदेशभेदरहितसंयोगवतामित्यर्थः । लोके हीष्टकादयः पूर्वपूर्वासंयुक्तैः प्रदेशैः संयुज्यमानाः पृथुकार्यारम्भका दृष्टा इत्यर्थः ।

॥ सर्वोपेता च तद्दर्शनात् ॥ श्रुत्या निरवयवत्वकार्यत्वप्रतिपादनात् तदनुगुणशक्तियोगः कल्प्यः, धर्मिवैनात्यं च

कल्प्यमित्युक्तम्; इदानीं धर्मिवैलक्षण्यविलक्षणधर्मयोः कण्ठोक्तिः प्रदर्शितेति भेदः । अपहतपाप्मेत्यादिना धर्मिवैलक्षण्यसिद्धिः, एवं धर्मिवैलक्षण्याद्धर्मवेलक्षण्यकल्पनादपि सर्वशक्तित्वकार्येण सत्यसङ्कल्पत्वेन विलक्षणशक्तिप्रतीतिरासन्नेत्यभिप्रायेणाह - सत्यकामः सत्यसङ्कल्प इति ।

॥ विकरणत्वान्नेति चेत्तदुक्तम् ॥ उपसंहारदर्शनादिति सूत्रे परिकराभावेऽपि सङ्कल्पमात्रेण सृष्टयुपपत्तिरुक्ता, अत्र तु दण्डचक्रादिपरिकरनिरपेक्षस्यापि करणकलेवरापेक्षा दृष्टेति शङ्का परिह्रियत इति विशेषः । न तस्येति वाक्ये कार्यशब्देन शरीरमुच्यते, करणम्- इन्द्रियम् । सूत्रे भाष्ये च करणशब्दः कार्यस्य शरीरस्याप्यु

पलक्षणार्थः । अत्र मृषावादिन आहुः- निरवयवं ब्रह्म एकदेशेन कार्योपयुक्तं चेति व्याहतम्, अतस्तदुभयं न शास्त्रेण शक्यप्रतिपादनम्,शब्दस्याकाङ्क्षा सन्निधियोग्यतापेक्षाप्रतिपादनात्; अतः परमार्थरूपेण निरवयवस्य सावयवत्वमविद्याकल्पितरूपभेदेनेति वाच्यम्; न हि चन्द्रद्वित्वाभावेऽपि चन्द्रो बहुधा विभज्यते इति । अत्रोच्यते- तत्र तावच्छब्दमूलत्वादिति सूत्राननुगुणत्वम् तदा मिथ्यात्वादिति हि वक्तव्यम्; प्रपञ्चमिथ्यात्वगोचरशब्दो विवक्षित इति चेन्न; “नात्मा श्रुतेः” “शब्दविशेषात् अनावृत्तिः शब्दात्” इतिवदत्रापि मिथ्याविषयत्वाप्रतीतेः प्रपञ्चमिथ्यात्वविषयस्य कस्यचिदपि वाक्यस्याभावाच्च । किञ्च अविद्याकल्पितरूपेण सावयवं ब्रह्मेति ननूक्तं भवद्भिः । अविद्या किं ब्रह्मैकदेशाश्रया तदेकदेशे कार्यं कल्पयति । उत कृत्स्नब्रह्मणि ? आद्ये सावयवत्वप्रसङ्गः । द्वितीये अविद्यानिर्मुक्तब्रह्मासम्भवः । ततश्च सुषुप्तौ सत्सम्पत्तिः द्रष्टव्यत्वमिन्द्रियागोचरत्वम् “अतो ज्याया” नित्यादिकमनुपपन्नं स्यात्, विकृतेन ब्रह्मणा नित्यसम्पन्नत्वात् तस्यैन्द्रियिकत्वात्, अतो ज्यायस्त्वाभावाच्चेति भवद्भिरेवोक्तम् । यदेव ब्रह्म काल्पनिकरूपेण कारणं तदेव परमार्थतोऽविद्यानिर्मुक्तमिति चेत्- परमार्थतोऽविद्यानिर्मुक्तत्वं नाम किं निवृत्ताविद्यत्वम् ? उत अनिवृत्तस्याप्यविद्यासंसर्गस्यापरमार्थत्वम् ? प्रथमे च किं ब्रह्मस्वरूपे क्वचिदविद्याविरहः ? उत सर्वत्र ? आद्ये सावयवत्वम् । इतरत्र संसारभ्रमानवभासप्रसङ्गः । प्रथमविकल्पे द्वितीयशिरसि चापरगार्थभूतोऽविद्यासंसर्गः किं ब्रह्मणि क्वाचित्कः ? उत सार्वत्रिकः ? आद्ये सावयवत्वम्, द्वितीये कृत्स्नप्रसक्तिरङ्गीकृता स्यात्, कृत्स्नस्य ब्रह्मणोऽविद्यातिरोहितत्वात् । परमार्थभूतोऽविद्यायोगो नास्तीति चेत् न तावताऽविद्यानिर्मुक्तब्रह्मसिद्धिः, अविद्यायोगो यादृशोऽभिमतः तादृशस्यानिवृत्तत्वात्, यथा स्वप्नदृष्टापरमार्थपङ्कसंसर्गाभावेन जाग्रद्दशायां परमार्थपङ्कलिप्तो न लिप्तो न भवति । किभ्च किमविद्याकल्पितरूपमित्यविद्याविशिष्टं ब्रह्म विवक्षितम् ? उत तदुपलक्षितम् ? उत त्रिगुणात्मकं प्रधानम् अविद्याकल्पितरूपम् ? इति विवक्षितम् । आद्ये विशेषणांशस्यैव सावयवत्वं स्यात् । तृतीये च प्रधान सावयवं परिणमते चेत् ब्रह्मणः कथं कारणत्वम् ? प्रकृतेर्ब्रह्माश्रयत्वेनेति चेत् तर्ह्यनादेरबाधितायास्तस्या अविद्याकल्पितत्वाभावेन प्रकृतिशरीरकं ब्रह्म वास्तवप्रपञ्चकारणमित्यभ्युपगमो वरम्, सकलप्रमाणन्यायानुपरोधित्वात् । ननु प्रकृतिविशिष्टस्य कारणत्वे विशेष्यांशस्यापि सावयवत्वं तिवन्मतेऽपि स्यात् । नैवम्; विशिष्टताङ्गीकारे विशेषणविशेष्ययोः स्वभाव्यवस्थादर्शनात् । शरीरविशिष्टस्य प्रवृत्तिहेतुत्वेऽपि शरीरात्मनोः स्वभाव्यवस्था हि दृश्यते । विशिष्टस्य कारणत्वमेव ह्यभ्युपगतम्, ननु सावयवत्वम्;

तत्तु विशेषणांशस्यैव, अतो न कश्चिद्दोषः । आत्मनि स्वपनदर्शिनि स्वरूपानुपमर्देन विविधसृष्टिवन्मायाविनो हस्त्यादिसृष्टिवच्च ब्रह्मस्वरूपानुमर्देन अनेकाकारसृष्टिरिति “आत्मनि चैवम्” इति सूत्रव्याख्यानमप्ययुक्तम्, स्वप्नसृष्टिवाक्यस्य परमार्थविषयत्वात् । “स हि कर्ता तस्मिन् लोकाः स्थिताः” इति हि वाक्यशेषः, ततश्च परमात्मकारणत्वविमतौ तदेव दृष्टान्तत्वेन वक्तुमयुक्तम् । मन्त्रौषधादिभिः सृजतो मायाविनश्च हस्त्यादिकार्यं प्रत्युपादानत्वाभावात्सावयवत्वाच्च घटशरावादिकं प्रति कुलालादेरिव कर्तृत्वमात्रमिति निरवयवस्याकृत्स्नप्रसक्तौ दृष्टान्तत्वमनुपपन्नम् । यावदमिश्रास्तुभोक्तृभोग्यनियन्तृष्वन्यतमांशे कृत्स्नपरिसमाप्तेरितरांशद्वयासम्भव इति पूर्वपक्षं कृत्वा स्वतो निरवयवमपि सवर्शक्तियोगात् परिणामेन सावयवं बहु भवतीति सिद्धान्तयन्ति । तदयुक्तम्; एकस्य बीजस्य शक्तिमतः परिणामेन शाखापत्रपुष्पादिरूपेणेव प्रकृत्यादिरूपेण बहुभवने प्रकृतिपुरुषेश्वराणाम् अनादित्वनित्यत्वश्रुतिविरोधस्यावर्जनीयत्वात् सद्द्रव्यमात्रानादितया तेषामनादित्वे शाकापत्रपुष्पादीनामपि तथाऽनादित्वात्तैरविशेषप्रसङ्गः । परिणामानपेक्षानाद्यंशभेदे स्वस्तो निरवयवत्वं न स्यात् । निरवयवत्वश्रुतिरीश्वरांशविषयेति चेत्तर्हि जगदुपादानस्य ब्रह्मणः कृत्स्नप्रसक्तिनिरवयवत्वविरोधोऽपरिहृतः स्यात्, निरशंस्योपादानत्वाभावात्, एवं जीवानामपि प्रत्येकं निरवयवत्वे दोषः समानः भोक्त्रंशस्याप्युपादानत्वाभावात् प्रकृत्यंशस्य तदुभयविरोधपरिहारे प्रधानकारणवादे चोद्यं परिहृतं स्यात्, न तु ब्रह्मकारणवादे । किञ्च निरवयवत्वाकृत्स्नोप-योगविषयश्रुतिबलात् ब्रह्मणो विलक्षणत्वेऽपि निरवयवत्वमाकाशरूपरसादीनां निरवयवत्वादविलक्षणं सावयवतया परिणामप्रतिभटमित्युक्तदोषप्रसङ्ग इत्याशङ्कय निरवयवत्वमपि शब्दमूलत्वादपूर्वं ब्रह्मणस्सावयवतया परिणामार्हत्वानिवारकमिति व्याख्यातम् । तदप्ययुक्तम्; धर्मिवैलक्षण्ये सति विलक्षणधर्मासम्भवशङ्कानुदयात् । धर्मवैलक्षण्याभावे हि धर्मिवेलक्षण्यमेव न स्यात्, तस्माद्विलक्षणधर्मयोगे श्रुतेरिति प्रतिपादिते तदसम्भवशङ्कायां तत्सम्भवाय शब्दमूलत्वादिति धर्मिवैलक्षण्यप्रतिपादनमेव युक्तम् तथा सर्वोपेतेत्यधिकरणान्तरं च वर्णितम्, “अशब्दमस्पर्शम्” सर्वकर्मा सर्वकामः” बहु स्याम्" “आसीनो दूरं व्रजति शयानो याति सर्वतः अनेजते कर्म सतो दवी यस्तद्धावतोन्यानत्येति तिष्ठन् पश्यत्यचक्षुः” इत्यादि विरुद्धकार्याणां भ्रान्तिसिद्धत्वं पूर्वपक्षीकृत्यांशभेदेनोपपन्नानि

तानि सत्यानि, तेषां च कार्याणां चक्षुःश्रोत्रपाणिपादादिसापेक्षत्वव्याप्तिभङ्गेन सर्वशक्तियोगोपपत्तेरिति सिद्धान्तितम् । तत्राधिकरणभेदोऽनुपपन्नः, सर्वोपेता चेति चशब्देन पूर्वसूत्रसाध्यस्यैवोपपादकत्वावगमात् प्रकृतसाध्यं प्रत्युपयोगितया पाश्चात्यसूत्रद्वयार्थस्य तादर्थ्यसम्भवाच्च, तत्सम्भवश्च फलफलिभावे दर्शितः । सर्वनामरूपोपेतत्वं च सर्वोपेतशब्दार्थ उक्तः, भाष्ये तु तदनुक्तिस्तस्योपपादकत्वाभावात् । निरवयवस्यापि सर्वकारणत्वे सर्वशक्तयन्वय एव ह्युपपादकः, नामरूपोपेतत्वं तूपपाद्यकोटिघटकम् । श्रुतिवाक्यं तु श्रुतेस्त्वित्यत्रैव विवक्षितम्; अत इह तदनुपादानम् । ॥ इति कृत्स्नप्रसक्तयधिकरणम् ॥