08 उपसंहारदर्शनाधिकरणम्

॥उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ अवान्तरसङ्गतिमाह - परस्येति । सत्यसङ्कल्पत्वादिभिर्वैलक्षण्यं प्रतिपादितम्, तत्र सत्यसङ्कल्पमात्रपरिकरत्वमनुपपन्नमिति तस्य सत्यसङ्कल्पत्वस्य सङ्कुचितवृत्तित्वशङ्कयोत्थानात्सङ्गतिरित्यर्थः । सर्वात्मत्वम्- सर्वभाव इत्यर्थः । किं ब्रह्मणो जगत्कारणत्वं सम्भवति, नेति । किं कार्यजननसमर्थस्य कार्यजनकत्वं नियमेन सहकार्यन्तरापेक्षम् ? उत न ? इति विचारः । यदा अपेक्षानियमस्तदा सहकारिशून्यस्य कारणत्वासम्भवः । यदा न सहकायर्पेक्षानियमस्तदा कारणत्वसम्भव इति सिद्धम् । पूर्वपक्षोत्थानमाक्षिपति - ननु चेति । सर्वशक्तेरुपकरणविरहः कारणत्वविरोधीति शङ्कैव न जायते, सर्वशक्तित्वादिति चोदितम् । उपकरणसोपेक्षत्वनिरपेक्षत्वरूपं न शक्ताशक्तयोर्वैषम्यम्, शक्तः परिकरसम्पत्तौ करोति, अशक्तस्तु परिकरसम्पत्तावपि न करोतीति तयोर्वैषम्यम्, तस्मात् ब्रह्मणः सङ्कल्पमात्रपरिकरत्वमयुक्तमित्यनुत्थानचोद्यपरिहारं सङ्ग्रहेणाह - उच्यत इत्यादिना । इममर्थं विवृण्वन् पूर्वपक्षमाह - घटपटादीति । ततः किमित्यत्राह - प्राक्सृष्टेश्चेति । सूत्रे चोद्यखण्डो व्याख्यातः । परिहारखण्डं व्याचष्टे - न क्षीरवद्धीति । जलं स्वयमेव हिमरूपेण परिणमति, रविकिरणास्तु तदुत्सर्गमात्रहेतव इति भावः । क्षीरस्यातञ्चनक्वाथौ शैध्यूरसविशेषार्थौ । अथ वैदिकं दृष्टान्तमाह -

॥ देवादिवदपि लोके ॥ दृष्टान्तान्तरोपादानफलमाह - देवादीनामिति ॥