07 इतरव्यपदेशाधिकरणम्

॥ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ किं ब्रह्मणो जगत्कारणत्वं सम्भवति, उत नेति । किं ब्रह्मणो जगत्स्रष्टृत्वे हिताकरणादिदोषः प्रसज्यते नेति । किं ब्रह्मणः “तत्त्वमसी “त्यादिसामानाधिकरण्यावगतं तादात्म्यमैक्यलक्षणम् ? उतात्मशरीरभावलक्षणमिति । किमात्मशरीररूपतादात्म्य एव भेदश्रुतिसामञ्जस्यम् ? उतैक्यलक्षणेऽपीति । यदा स्वरूपैक्यलक्षणतादात्म्येऽपि भेदश्रुतिसामञ्जस्यं तदा तत्त्वमस्यादिवाक्यानां

स्वरूपैक्यपरत्वेन हिताकरणादिदोषप्रसङ्गात् ब्रह्मकारणत्वासम्भव इति फलम् । यदा आत्मशरीरभाव एव भेदश्रुतिसामञ्जस्यं तदा तत्त्वमस्यादिवाक्यानां शरीरात्मभावपरतया हिताकरणादिदोषप्रसङ्गाभावात् ब्रह्मकारणत्वसम्भव इति सिध्यति । अवान्तरसङ्गतिमाह - जगत इति । सार्वज्ञ्यसत्यसङ्कल्पत्वादियुक्तस्येति - हितानभिज्ञश्चेदहितजगत्कारणत्वमुपपद्यते, तन्न; र्विज्ञत्यवात् हितज्ञस्यापि हि सत्यसङ्कल्पत्वाभावादहितजगत्कारणत्वमिति न वाच्यम्; सत्यसङ्कल्पत्वादिति भावः । भेदश्रुतिभिर्जीवविलक्षणत्वप्रतिपादनान्न दोष इति वदन्तं सिद्धान्तिनमाशङ्कयाह - जीवाद्ब्रह्मण इति । भास्करमतमनूद्य दूषयति - औपाधिकेति । अहितकरणादीति - आदिशब्देन सुखदुःखभोक्तृत्वं विवक्षितम् । ब्रह्मामानवादिनोऽस्मिन्नधिकरणेऽनवकाशत्वमाह - जीवब्रह्मणोरिति ।

दुःखयोगार्हादिति - अत्रार्हशब्दो मुक्तव्यावृत्तिपरः । एवं श्रुतिर्दर्शिता । अथ श्रुत्यर्थापत्तिरुच्यते ।

॥ अश्मादिवच्च तदनुपपत्तिः ॥ चिदचिद्वाचकशब्दैः सामानाधिकरण्ये तुल्येपि यथा ब्रह्मणो जडस्य च स्वरूपैक्यासम्भवाद्य्वावृत्तिरभ्युपेता ब्रह्मामानवादिना, तथा चेतनस्यापीत्यभिप्रायेणाह - अश्मकष्ठिति । तर्हि जीवसामानाधिकरण्यं कथमित्यत्राह - सामानाधिकरण्येति । “अवस्थितेरिति काशकृत्स्नः” इति सूत्रमेतदधिकरणशेषमित्यभिप्रायेणाह - अवस्थितेरिति । आदिशब्देन “नतु दृष्टान्तभावात्, उभयेऽपि हि भेदनैनमधीयते” इत्यादिकं विवक्षितम् । उभयेऽपीत्यादिसूत्रं भेदज्ञापनार्थमपि घटकवाक्यविषयम् । इत्थं चेतनसामानाधिकरण्यनिर्वाहः कृतः, चिदचिदात्मकजगत्सामानाधिकरण्यनिर्वाहमाह - अतः सर्वेति । कारणावस्थायामेकत्वावधारणाच्चिदचिच्छरीरकत्वाभावेन गुणदोष व्यवस्था नोपपद्यत इत्यत्राह - सदेवेति । अविभागः कथमित्यत्राह - अविभागस्त्विति । अनयोः सूत्रयोः

परोक्तमर्थं दूषयति - ये पुनरिति । जीवादविद्यावियुक्तस्य ब्रह्मणः किं भेद उच्यते, उताविद्यासंसृष्टस्येश्वरस्येति विकल्पमभिप्रेत्य प्रथमं पक्षं दूषयति- तेषामिति । ततः किमित्यत्राह - अनेनैवेति । तेषां तदानीमभावः कथमित्यत्राह - तत्सर्वमिति । तस्य सर्वस्याविद्यापरिकल्पितत्वादिति पाठे असङ्गतं स्यादिति पूर्वेणान्वयः । तत्सर्वं ह्यविद्यापरिकल्पितं त्वन्मते इति च पाठोऽस्ति । अविद्यापरिकल्पितस्येश्वरस्य भेद उच्यत इति पक्षं दूषयति - न चाविद्येति । कल्पितभेदो न प्रतिपाद्यते, अकल्पितजीवस्वरूपज्ञानस्य प्रक्रान्तत्वादित्यर्थः । वेदान्तवेद्यत्वमिति समन्वयाध्यायार्थः । स्मृतिन्यायविरोधपरिहार इति द्वितीयाध्यायार्थः । किञ्च तत्त्वमस्यादिवाक्यार्थप्रतिबोधनात् प्रागीश्वरस्य भेदेन प्रतिपद्यमानस्य मिथ्यार्भूतैर्जीवगतदोषैरात्मनो लेपाभावं पश्यत उदासीनवृत्तेर्हिताकरणाद्यप्रसक्तिः, ऐक्यज्ञानोदयात् पश्चाज्जगत्स्रष्टृत्वं दुःखादिभोक्तृत्वं च नास्तीति न हिताकरणादिप्रसक्तिरिति च परैरुच्यते । तद

युक्तम्; वक्तॄणां स्ववाक्यविषयादधिकविषयज्ञानवत्त्वात् समस्तशास्त्रयोनिभूतेश्वरस्य ब्रह्मणः शास्त्रेभ्योऽप्यधिकविषयज्ञानतया सवज्ञत्वं हि शास्त्रयोनित्वादित्यत्र पैः समर्थितम् । अतः शास्त्रादप्यधिकार्थाभिज्ञस्येश्वरस्य तत्त्वमस्यादिवाक्यार्थानवबोधात् भेदेन प्रतिपत्तेरहितकरणादिदोषपरिहारोऽनुपपन्नः । “अहमात्मा गुडाकेश सर्वभूताशयस्थितः । क्षेत्रज्ञं चापि मां विद्धि” इत्यर्जुनादीनां तत्त्वमुपदिशत ईश्वरस्य ऐक्यज्ञानाभावोऽनुपपन्नः । ऐक्यज्ञाने जाते सति स्रष्टृत्वभोक्तृत्वाद्यभावादहितकरणाद्यप्रसक्तिश्चायुक्ता, गीतोपदेशात्पश्चादपि ईश्वरेण संसारस्य प्रवर्त्त्यमानत्वात् । न च वाच्यमिदानीं संसारप्रवृत्तिर्नेश्वराधीना, किन्तु चक्रभ्रमवद्वासनयाऽनुवर्तत इति । “अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवतर्ते” “तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु” इति संसारप्रवर्तनस्य स्वेच्छाधीनत्वाभिधानात् “मत्प्रसादात्तरिष्यसि” इति भविष्यतः संसारतरणस्य स्वप्रसादाधीनत्वाभिधानाच्च । न हि चक्रभ्रमनिवृत्तेः पूर्ववेगोपरमनिबन्धनायाः पुरुषविशेषप्रसादोपेक्षत्वम्, बाधितानुवृत्तिश्चानुपपन्नेत्युक्तम् । किञ्च वासनाधीना संसारानुवृत्तिः किमवधिमती ? उतावधिविधुरा ? प्रथमे “अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते । अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः” इति शास्त्रविरोधः । द्वितीये वाक्यार्थज्ञानवैयर्थ्यप्रसङ्गः वाक्यार्थज्ञानोदयेऽपि बन्धभ्रमानुवृत्तेरवसानाभावात् आगामिनां स्वर्गनरकादिसर्गाणामीश्वरसङ्कल्पाधीनत्वादहितकरणोषस्य दुवर्ारत्वात्; स्वप्नदृश्यभावानां वैचित्र्यवज्जीवप्राज्ञपृथक्तवोपपत्तिरिति दोषपरिहारश्चानुपपन्नः, स्वप्नद्रष्टुः पुरुषस्य स्वाप्नपुरुषान्तरस्य च परस्परैक्यज्ञानाभावात् परस्परदुःखापादनं नाहितकरणदोषावहम् । स्वप्ने सर्पव्याघ्रादिभिः पीड्यमानस्य परवशतया स्वाहितकरणं न स्यात्, ऐक्यमानवतः स्वतन्त्रस्येश्वरस्य नरकादिसर्गेस्वाहितकरणादिप्रसङ्गो दुष्परिहरः । पृथिवीपापाणत्वाद्यविशेषेऽपि सज्रवैढूर्यसूर्यकान्तादिवैचित्र्यवदेकस्मिन्नपि वृक्षे पत्रपुष्पफलादिवच्च ब्रह्मान्यत्वेऽपि जीवप्राज्ञपृथक्तवप्रतिपादकमश्यादिवदिति सूत्रमितरैर्व्याख्यातं सर्वैरपि । तदयुक्तम्; ईश्वरस्य मृषा वा परमार्थतो वा सार्वज्ञत्य श्रौतस्य सर्वाभ्युपगतत्वात् । स्वानन्यतया सर्वं जानत ईश्वरस्य नरकसृष्टिपापकरणतत्फलप्रदानादिषु स्वाहितकरणप्रसङ्गस्यानिवार्यत्वात् । अहितकरणस्य दोषत्वं हि फलभोक्तुः स्वानन्यत्वज्ञाननिबन्धनम्, न त्ववैचित्र्यकृतम्, पाणिपादचक्षुःश्रोत्रादीनाम् आकारवैचित्र्ये सत्यपि स्वप्ने वा प्रबोधे वा दुःखितमात्मानं हि स्वानन्यत्वेन जानतो दुःखं साक्षात्कुर्वतश्चेतनस्य स्वहस्तादिच्छेदनं हि स्वाहितकरणमेव भवति । ननु स्वशरीरगतत्वेन दुःखं जानत ईश्वरस्यापि स्वाहितकरणं स्यात् । न, शरीरगतत्वेन दुःखज्ञानस्य क्वचिदप्यपुरुषार्थत्वदर्शनाभावात् । आत्मगतं हि दुःखं जीवानाम्, न शरीरगतम् स्वशरीरगतत्वेन छेदनभेदनदहनादिकं जानतः स्वात्मनि दुःखदर्शनात् शरीरभूतजगत्संसारादिव्यापारः परमात्मनश्चाहितकरणं स्यात् । नैवम्; छेदनादेर्दुःखहेतुतायाः शरीरमात्रान्वयप्रयुक्तत्वाभावात् । स्वकर्मभोगार्थशरीरप्रतिकूलत्वं हि छेदनादीनां दुःखावहत्वे प्रयोजकम् । एवं कर्मारब्धेन कर्मवश्येन वा वस्तुनोऽनन्यत्वं जानत ईश्वरस्य सर्वशक्तेः स्वाहितकरणादिदोषप्रसङ्गो ह्यपरेषां सर्वेषामवर्जनीयः । मृषावादिनस्तु ईश्वरत्वं तदनुबन्धिगुणजातं चाविद्याकल्पितमिति वदतः “स ईशोऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय” “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च"इत्यादिश्रुतिविरोधो ह्यधिक इति वैषम्यम् । वैलक्षण्यमपीतावित्यादिनाऽधिकरणान्तरोक्तमित्यत्राह अपीतावित्यादि । न “अपीता"वित्यादिसूत्रद्वयं तत्र सङ्गतमपीतावित्यादिसूत्रमस्मिन्नधिकरणे पूर्वपक्षसूत्रेण सङ्गतं, तथा परिहारसूत्रं च सिद्धान्तसूत्रेण सङ्गतम् । अपीतावित्यादिसूत्रद्वये ब्रह्मण्यचिद्गतदोषशङ्कापरिहारः कृतः, इतरव्यपदेशादित्यादौ चिद्गतदोषशङ्कापरिहारः, एवं विलक्षणत्वे सिद्धे सामानाधिकरण्यनिर्वाहार्थमवस्थितेरिति काशकृत्स्न इति सूत्रमत्रैव सङ्गतम्, एवं सूत्रत्रयमेतदधिकरणशेषमित्यर्थः । अधिकरणसिद्धमनुवदतितस्य शेषत्वेन वदतीत्यर्थः । तस्याधिकरणस्यायमर्थो न प्रतिपाद्यश्चेत्तत्र कोऽर्थः प्रतिपाद्यत इत्यत्राह - तत्र हीति । तत्रासत्कार्यवादनिराकरणं दृश्यत इति विलक्षणयोः कार्यकारणभावसम्भव एव कथं प्रतिपाद्यत इत्यत्राह - असदिति चेदिति । प्रसङ्गादारम्भणाधिकरणार्थानुवादस्तस्मिन्नधिकरणे, अभेदश्रुत्यविरोधेन भेदश्रुतीनां मुख्यार्थप्रतिपादनमत्रैव क्रियत इत्यर्थः । ॥ इतरव्यपदेशाधिकरणम् ॥